Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.214

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.214.1

महेश्वर उवाच ।
श्रूयतां कारणं देवि यथा हि दुरतिक्रमः।
विधिः सर्वेषु भूतेषु मर्तव्ये समुपस्थिते ॥ १३.२१४.१ ॥

摩诃提婆说:女神啊,请听其中的缘由:当死亡临近时,天命对一切众生是如此难以违逆。

13.214.2

आयुःक्षयेणोपहिताः समागम्य वरानने ।
कीटाः पतङ्गा बहवः स्थूलाः सूक्ष्माश्च मध्यमाः।
प्रज्वलत्सु प्रदीपेषु स्वयमेव पतन्ति ते ॥ १३.२१४.२ ॥

美丽的女子啊,寿命耗尽而受困的众多虫子与飞蛾,大的、小的、中等的,聚集而来,自己便扑入燃烧的灯火之中。

13.214.3

बहूनां मृगयूथानां नानावननिषेविणाम् ।
यस्तु कालं गतस्तेषां स वै पाशेन बध्यते ॥ १३.२१४.३ ॥

在各处森林中栖息的众多鹿群里,时辰已到的那一只,必定会被罗网所缚。

13.214.4

सूनार्थं देवि बद्धानां क्षीणायुर्यो निबध्यते ।
अवशो घातकस्याथ हस्तं तदहरेति सः ॥ १३.२१४.४ ॥

女神啊,在被缚待宰的众生中,寿数已尽者便无力地被缚;此时他抓住屠夫的手,说:“把它拿走吧。”

13.214.5

यथा पक्षिगणाः क्षिप्रं विस्तीर्णाकाशगामिनः ।
क्षीणायुषो निबध्यन्ते शक्ता अपि पलायितुम् ॥ १३.२१४.५ ॥

如同在广阔天空中疾飞的鸟群,寿数已尽,虽有能力飞走,也被罗网所缚。

13.214.6

यथा वारिचरा मीना बहवोऽम्बुजजातयः ।
जालं समधिरोहन्ति स्वयमेव विधेर्वशात् ॥ १३.२१४.६ ॥

如同众多水中游动的鱼类,生于莲花之中,受天命所驱,自己便游入网中。

13.214.7

शल्यकस्य च जिह्वाग्रं स्वयमारुह्य शोभने ।
आयुःक्षयेणोपहता निबध्यन्ते सरीसृपाः ॥ १३.२१४.७ ॥

爬上豪猪舌尖的爬行之物,因寿命耗尽而受损,被束缚于那美丽的(罗网)之中。

13.214.8

कृषतां कर्षकाणां च नास्ति बुद्धिर्विहिंसने ।
अथैषां लाङ्गलाग्राद्यैर्हन्यन्ते जन्तवोऽक्षयाः ॥ १३.२१४.८ ॥

耕田的农夫并无伤害之意,然而犁尖等物却会打死众多不灭的生灵。

13.214.9

पादाग्रेणैव चैकेन यां हिंसां कुरुते नरः ।
मातङ्गोपि न तां कुर्यात्कूरो जन्मशतैरपि ॥ १३.२१४.९ ॥

人以一只脚尖所造成的伤害,即便是凶猛的象,经百生也不会造成。

13.214.10

म्रियन्ते यैर्हि मर्तव्यं न तान्घ्नन्ति कृषीवलाः ।
कृषामीति मनस्तस्य नास्ति चिन्ता विहिंसने ॥ १३.२१४.१० ॥

那些注定死亡者所由而死,农夫并不杀害他们;心想“我在耕田”的人,心中并无伤害的忧虑。

13.214.11

तस्माज्जीवसहस्राणि हत्वाऽपि न स लिप्यते ।
विधिना स हतः पूर्वं पश्चात्प्राणि विपद्यते।
एवं सर्वेषु भूतेषु विधिर्हि दुरतिक्रमः ॥ १३.२१४.११ ॥

因此,即便杀害了成千上万的生灵,他也不被玷污;他先被命运所击,之后生灵才毁灭。如此,在一切众生中,命运确实难以超越。

13.214.12

गतायुषा मुहूर्तं तु न शक्यमुपजीवितुम् ।
जीवितव्ये न मर्तव्यं न भूतं न भविष्यति ॥ १३.२१४.१२ ॥

寿命已尽之人,即使片刻也无法使其存活;活着之时,无人能免于死亡——从未有过,现在没有,将来也不会有。

13.214.13

शुभाशुभं कर्मफलं न शक्यमतिवर्तितुम् ।
तथा ताभिश्च मर्तव्यं मोक्तव्याश्चैव तास्तथा ॥ १३.२१४.१३ ॥

善恶业报之果不可避免。同样,人须因它们而死,它们也应同样被放归。

13.214.14

रन्तिदेवस्य गावो वै विधेर्हि वशमागताः ।
स्वयमायान्ति गावो वै हन्यन्ते यत्र सुन्दरि ॥ १३.२१४.१४ ॥

的确,兰提提婆的牛群受命运所支配。美人啊,牛群自己来到被宰杀的地方。

13.214.15

गवां वै हन्यमानानां रुधिरप्रभवा नदी ।
चर्मण्वतीति विख्याता खुरशृङ्गास्थिदुर्गमा ॥ १३.२१४.१५ ॥

当牛群被杀时,由血而生的河流以“皮革河”(Carmaṇvatī)之名著称,因蹄、角和骨而难以渡过。

13.214.16

रुधिरं तां नदीं प्राप्य तोयं भवति शोभने ।
मेध्यं पुण्यं पवित्रं च गन्धवर्णरसैर्युतम् ॥ १३.२१४.१६ ॥

美人啊,血流入那条河后便化为水,适于供奉,神圣而纯净,具有香气、颜色与滋味。

13.214.17

तत्राऽभिषेकं कुर्वन्ति कृतजप्याः कृताह्निकाः ।
द्विजा देवगणाश्चापि लोकपाला महेश्वराः ॥ १३.२१४.१७ ॥

在那里,已诵念并完成日常仪式的再生者、诸神之众、世界守护者以及大自在天们也都行灌顶沐浴。

13.214.18

तस्य राज्ञः सदा सत्रे स्वयमागम्य सुन्दरि ।
विधिना पूर्वदृष्टेन तन्मांसमुपकल्पितम्।
मन्त्रवत्प्रतिगृह्णन्ति यतान्यायं यताविधि ॥ १३.२१४.१८ ॥

美人啊,在那位国王的祭祀法会上,他们总是自行前来,依照先前所见的规范,以咒语如法地接受那已备好的肉。

13.214.19

समांसं च सदा ह्यन्नं शतशोऽथ सहस्रशः ।
भुञ्जानानां द्विजातीनामस्तमेति दिवाकरः ॥ १३.२१४.१९ ॥

对于那些总是食用带肉食物、成百上千地进食的再生族来说,太阳便落下了。

13.214.20

गावो यास्तत्र हन्यन्ते राज्ञस्तस्य क्रतूत्तमे ।
पठ्यमानेषु मन्त्रेषु यथान्यायं यथाविधि ॥ १३.२१४.२० ॥

在那位国王的殊胜祭祀中,诵念咒语之时,依照规则与仪轨在那里被宰杀的牛。

13.214.21

ताश्च स्वर्गं गता गावो रन्तिदेवश्च पार्थिवः ।
सदा सत्रविधानेन सिद्धिं प्राप्तो नरोत्तमः ॥ १३.२१४.२१ ॥

那些牛升入天界,而国王蓝提提婆,人中之最,总是通过举行萨特拉祭仪而获得成就。

13.214.22

अथ यस्तु सहायार्थमुक्तः स्यात्पार्थिवैर्नरैः ।
भोगानां संविभागेन वस्त्राभरणभूषणैः ॥ १३.२१४.२२ ॥

那些被国王与人们召来相助的人,应当以分享享乐、衣服、饰物与珠宝来加以尊重。

13.214.23

सहभोजनसम्बद्धैः सत्कारैर्विविधैरपि ।
सहायकाले सम्प्राप्ते सङ्ग्रामे शस्त्रमुद्धरेत् ॥ १३.२१४.२३ ॥

与人共食而结下情谊、又受种种礼遇者,当援助之时到来,便应在战斗中举起武器。

13.214.24

व्यूढानीके यथा सास्त्रं सेनयोरुभयोरपि ।
हस्त्यश्वरथसम्पूर्णे पदातिबलसङ्कुले।
चामरच्छत्रशबले ध्वजचर्मायुधोज्ज्वले ॥ १३.२१४.२४ ॥

在两军列成战阵之中,携带兵器,满载象、马与战车,步兵密集,点缀着牦牛尾拂尘与伞盖,旗帜、盾牌与兵器闪耀。

13.214.25

शक्तितोमरकुन्तासिशूलमुद्गरपाणिभिः ।
कूटमुद्गरचापेषु मुसुण्ठीजुष्टमुष्टिभिः ॥ १३.२१४.२५ ॥

手持枪、标枪、长矛、剑、三叉戟和棍棒;持铁棍与弓;拳头紧握木棒(musuṇṭhī)。

13.214.26

भिण्डिपालगदाचक्रप्रासकर्पटधारिभिः ।
नानाप्रहरणैर्योधैः सेनयोरुभयोरपि।
युद्धशौण्डैः प्रगर्जद्भिर्वृषेषु वृषभैरिव ॥ १३.२१४.२६ ॥

两军中手持短投石(bhiṇḍipāla)、棍棒、圆盘、长矛与盾牌、携带各种兵器、善战的勇士,如同群牛中的公牛般咆哮。

13.214.27

शङ्खदुन्दुभिनादेन नानातूर्यरवेण च ।
हयहेषितशब्देन कुञ्जराणां तु बृंहितैः ॥ १३.२१४.२७ ॥

以螺号与战鼓之声,以各式乐器的轰鸣,以马的嘶鸣,以象的吼叫。

13.214.28

योधानां सिंहनादैश्च घण्टानां शिञ्जितस्वनैः ।
दिशश्च विदिशश्चैव समन्ताद्बधिरीकृताः ॥ १३.२१४.२८ ॥

以战士的狮吼与铃铛的叮当之声,四方与四隅之间皆被震得耳聋。

13.214.29

ग्रीष्मान्तेष्विव गर्जद्भिर्नभशीव बलाहकैः ।
रथनेमिखुरोद्धूतैररुणै रणरेणुभिः।
कपिलाभिरिवाकाशे छाद्यमाने समन्ततः ॥ १३.२१४.२९ ॥

在夏末雷鸣的云层般,战车的轮子与马蹄扬起了红色的战尘,黄褐色的尘土将天空四面遮蔽。

13.214.30

प्रवृत्ते शस्त्रसम्पाते योधानां तत्र सेनयोः ।
तेषां प्रहारक्षतजं रक्तचन्दनसन्निभम् ॥ १३.२१४.३० ॥

当两军战士之间兵器交击之时,他们伤口流出的血看起来就像红檀香膏。

13.214.31

तेषामस्राणि गात्रेभ्य स्रवन्ते रणमूर्धनि ।
पलाशाशोकपुष्पाणां जङ्गमा इव राशयः ॥ १३.२१४.३१ ॥

战场前线,他们的肢体流出鲜血,宛如移动的palāśa与aśoka花堆。

13.214.32

रणे समभिवर्तन्त उद्यतायुधपाणयः ।
शोभमाना रणे शूरा आह्वयन्तः परस्परम् ॥ १३.२१४.३२ ॥

战场上,英雄们手持高举的兵器相互冲击、彼此叫阵,光彩照人。

13.214.33

हन्यमानेष्वभिघ्नत्सु शूरेषु रणसङ्कटे ।
पृष्ठं दत्त्वा च ये तत्र नायकस्य नराधमाः ॥ १३.२१४.३३ ॥

在战斗的混乱中,当英雄们被击伤并还击时,那些卑劣之人背弃了自己的首领——

13.214.34

अनाहता निवर्तन्ते नायके चाप्यनीप्सति ।
ते दुष्कृतं प्रपद्यन्ते नायकस्याखिलं नराः।
यच्चास्ति सुकृतं तेषां युज्यते तेन नायकः ॥ १३.२१४.३४ ॥

未受伤便撤退的人,即使首领并不愿意,也会承担首领的全部罪过;而他们所有的功德也归于首领。

13.214.35

अहिंसा परमो धर्म इति येऽपि नरा विदुः ।
सङ्ग्रामेषु न युध्यन्ते भृत्याश्चैवानुरूपतः।
नरकं यान्ति ते घोरं भर्तृपिण्डापहारिणइः ॥ १३.२१४.३५ ॥

知道不杀生是至上法,却不按自己身份作为仆从在战场上作战之人,会成为盗取主人食物的人,堕入可怕的地狱。

13.214.36

यस्तु प्राणान्परित्यज्य प्रविशेदुद्यतायुधः ।
सङ्ग्राममग्निप्रतिमं पतह्ग इव निर्भयः।
स्वर्गमाविशते प्रेत्य ज्ञात्वा योधस्य निश्चयम् ॥ १३.२१४.३६ ॥

若有人舍弃性命,手持高举的兵器,像飞蛾扑火般无畏地投入如火的战斗——知晓武士的决心,死后便进入天界。

13.214.37

आविष्टश्चैव सत्त्वेन सघृणो जायते नरः ।
प्रहारैर्नन्दयेद्देवि सत्वेनाधिष्ठितो हि सः।
प्रहारव्यथितश्चैव न वैक्लब्यमुपैति सः ॥ १३.२१४.३७ ॥

被善性(sattva)充满的人会变得慈悲。女神啊,安住于善性的人即使受击也感到欢喜。虽受打击之苦,他也不会陷入怯懦。

13.214.38

यस्तु स्वं नायकं रक्षेदतिघोरे रणाङ्कणे ।
तापयन्नरिसैन्यानि सिंहो मृगगणानिव।
आदित्य इव मध्याह्ने दुर्निरीक्ष्यो रणाजिरे ॥ १३.२१४.३८ ॥

在极其可怕的战场上保护自己统帅的人,焚烧敌军,如狮子烧灼鹿群;他在战场上令人难以直视,如同正午的太阳。

13.214.39

निर्दयो यस्तु सङ्ग्रामे प्रहरन्नुद्यतायुधः ।
यजते स तु पूतात्मा सङ्ग्रामेण महाक्रतुम् ॥ १३.२१४.३९ ॥

在战斗中无情地举起武器攻击的人,这位灵魂纯净者借战斗完成了伟大的祭祀。

13.214.40

चर्म कृष्णाजिनं तस्य दन्तकाष्ठं धनुः स्मृतम् ।
रथो वेदिर्ध्वजो यूपः कुशाश्च रथरश्मयः ॥ १३.२१४.४० ॥

他的盾牌是黑羚羊皮;牙签被称为他的弓;战车是祭坛,旗帜是祭柱,吉祥草是战车的缰绳。

13.214.41

मानो दर्पस्त्वहङ्कारस्त्रयस्त्रेताग्नयः स्मृताः ।
प्रमोदश्च स्रुवस्तस्य उपाध्यायो हि सारथिः ॥ १३.२१४.४१ ॥

骄傲、傲慢与我执被称为三火(特雷塔火);喜悦是他的祭勺,而御者正是他的导师。

13.214.42

स्रुग्भाण्डं चापि यत्किञ्चिद्यज्ञोपकरणानि च ।
आयुधान्यस्य तत्सर्वं समिधः सायकाः स्मृताः ॥ १३.२१४.४२ ॥

祭勺之器与所有祭祀用具,都是他的武器;柴薪被称为他的箭。

13.214.43

स्वेदस्रवश्च गात्रेभ्यः क्षौद्रं तस्य यशस्विनः ।
पुरोडाशा नृशीर्षाणि रुधिरं चाहुतिः स्मृता।
तूणाश्चैव चरुर्ज्ञेया वसोर्धारा वसाः स्मृताः ॥ १३.२१४.४३ ॥

那位荣耀者肢体流出的汗水即是蜂蜜;人头即是祭饼,鲜血被称为供奉之物。箭囊应被视为羹(charu),婆苏的溪流被称为脂肪。

13.214.44

क्रव्यादा भूतसङ्घाश्च तस्मिन्यज्ञे द्विजतयः ।
तेषां भक्षान्नपानानि हता नृगजवाजिनः।
भुञ्जते ते यथाकामं यता यज्ञे किमिच्छति ॥ १३.२१४.४४ ॥

在那场祭祀中,食肉的鬼怪群便是再生者(祭司)。被杀的人、象与马是他们的饮食。他们在祭祀中克制自持,随心所欲地享用所愿之物。

13.214.45

निहतानां तु योधानां वस्त्राभरणभूषणम् ।
हिरण्यं च सुवर्णं च यद्वै यज्ञस्य दक्षिणा ॥ १३.२१४.४५ ॥

战死勇士的衣物、饰品与装饰,以及黄金与苏伐那——这些便是祭祀的布施(达克希那)。

13.214.46

यस्तत्र हन्यते देवि गजस्कन्धगतो नरः ।
ब्रह्मलोकमवाप्नोति रणेष्वभिमुखो हतः ॥ १३.२१४.४६ ॥

女神啊!在那里坐于象背上被杀的人,在战斗中面对敌人而倒下的人,便得到梵天之界。

13.214.47

रथमध्यगतो वाऽपि हयपृष्ठगतोपि वा ।
हन्यते यस्तु सङ्ग्रामे शक्रलोके महीयते ॥ १३.२१४.४७ ॥

无论是坐在战车中央,还是骑在马背上,在战斗中被杀的人,都在因陀罗界受到尊崇。

13.214.48

स्वर्गे हताः प्रपूज्यते हन्ता त्वत्रैव पूज्यते ।
द्वावेतौ सुखमेधेते हन्ता यश्चैव हन्यते ॥ १३.२१४.४८ ॥

在天界,被杀者受到尊崇;而杀人者在此世便受到尊崇。这二者——杀人者与被杀者——都在快乐中兴盛。

13.214.49

तस्मात्सङ्ग्राममासाद्य प्रहर्तव्यमभीतवत् ॥ १३.२१४.४९ ॥

因此,到达战场后,应当如无畏者一般出击。

13.214.50

निर्भयो यस्तु सङ्ग्रामे यस्तु सङ्ग्रामे प्रहरेदुद्यतायुधः ।
यथा नदीसहस्राणि प्रविष्टानि महोदधिम् ॥ १३.२१४.५० ॥

在战斗中无畏地举起武器攻击的人,犹如千条河流汇入大海。

13.214.51

तथा सर्वे न सन्देहो धर्मा धर्मभृतांवरम् ।
प्रविष्टा राजधर्मेण आचारविनयस्तथा ॥ १३.२१४.५१ ॥

同样,毫无疑问,持法者中最优秀的人啊,一切法都纳入王法之中,行为规范与纪律亦然。

13.214.52

वेदोक्ताश्चैव ये धर्माः पाषण्डेषु च कीर्तिताः ।
तथैव मानुषा धर्मा धर्माश्चान्ये तथेतरे ॥ १३.२१४.५२ ॥

吠陀所说的法,异端中所宣扬的法,同样人间之法,以及其他之法与其余诸法。

13.214.53

देशजातिकुलानां च ग्रामधर्मास्तथैव च ।
ये धर्माः पार्वतीयेषु ये धर्माः पत्तनादिषु।
तेषां पूर्वप्रवृत्तानां कर्तव्यं परिरक्षणम् ॥ १३.२१४.५३ ॥

地方、种姓与家族的法,村庄之法也是如此;山居者的法,城镇等处的法——对于那些早已流行的,应当加以守护。

13.214.54

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मो न हन्तव्यः पार्थिवेन विशेषतः ॥ १३.२१४.५४ ॥

法被毁则毁人,法被护则护人。因此不可毁法,尤其是君王不可毁法。

13.214.55

प्रजाः पालयते यत्र धर्मेण वसुधाधिपः ।
षट्कर्मनिरता विप्राः पूज्यन्ते पितृदेवताः ॥ १३.२१४.५५ ॥

国王以法护持臣民之处,专修六业的婆罗门便如祖先与天神一般受到尊奉。

13.214.56

नैव तस्मिन्ननावृष्टिर्न रोगा नाप्युपद्रवाः ।
धर्मशीलाः प्रजाः सर्वाः स्वधर्मनिरते नृपे ॥ १३.२१४.५६ ॥

国王专守自身之法,则无旱灾,无疾病,无祸乱;所有臣民都秉持法德。

13.214.57

एष्टव्यः सततं देवि युक्ताचारो नराधिपः ।
छिद्रज्ञश्चैव शत्रूणामप्रमत्तः प्रतापवान् ॥ १३.२१४.५७ ॥

女神啊,应当常常寻求行为端正、知晓敌人破绽、警觉而威严的人君。

13.214.58

शूद्राः पृथिव्यां बहवो राज्ञां बहुविनाशकाः ।
तस्मात्प्रमादं सुश्रोणि न कुर्यात्पण्डितो नृपः ॥ १३.२१४.५८ ॥

世间有许多首陀罗,常使君王遭受大难;所以,美腰的女子啊,有智慧的君王不可放任懈怠。

13.214.59

तेषु मित्रेषु त्यक्तेषु तथा मर्त्येषु हस्तिषु ।
विस्रम्भो नोपगन्तव्यः स्नानपानेषु नित्यशः ॥ १३.२१४.५९ ॥

对于那些朋友、被弃之人、人众与象(侍从),沐浴与饮食之时,始终不可轻信。

13.214.60

राज्ञो वल्लभतामेति कुलं भावयते स्वकम् ।
यस्तु राष्ट्रहितार्थाय गोब्राह्मणकृते तथा।
बन्दीग्रहाय मित्रार्थे प्राणांस्त्यजति दुस्त्यजान् ॥ १३.२१४.६० ॥

为了国家之利、为了牛与婆罗门、为了救出被囚者,或为了朋友,舍弃难以舍弃的性命,便会受到君王宠爱,并使自己的家族兴盛。

13.214.61

सर्वकामदुघां धेनुं धरणीं लोकधारिणीम् ।
समुद्रान्तां वरारोहे सशैलवनकाननाम् ॥ १३.२१४.६१ ॥

美腰的女神啊,大地如同满足一切愿望的神牛,是承载世界的支柱,延伸至大海,拥有山岳、森林与园林。

13.214.62

दद्याद्देवि द्विजातिभ्यो वसुपूर्णां वसुन्धराम् ।
न तत्समं वरारोहे प्राणत्यागी विशिष्यते ॥ १३.२१४.६२ ॥

女神啊,应将充满财富的大地布施给再生者;美腰者啊,没有能与之相比的,而舍弃生命者更为殊胜。

13.214.63

सहस्रमपि यज्ञानां यजते च यतर्द्धिमान् ।
यज्ञैस्तस्य किमाश्चर्यं प्राणत्यागः सुदुष्करः ॥ १३.२१४.६३ ॥

即便富足之人举行千次祭祀,他的祭祀又有何稀奇?舍弃生命才是极其困难的。

13.214.64

तस्मात्सर्वेषु यज्ञेषु प्राणयज्ञो विशिष्यते ।
एवं सङ्ग्रामयज्ञास्ते यथार्थं समुदाहृताः ॥ १३.२१४.६४ ॥

因此在一切祭祀中,以生命为祭最为殊胜。如此,那些战场之祭也被如实宣说了。