摩诃婆罗多 · 章 13.215
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.215.1
मृगयात्रां तु वक्ष्यामि शृणु तां धर्मिचारिणि ।
मृगान्हत्वा महीपालो यथा पापैर्न लिप्यते ॥ १३.२१५.१ ॥
我将讲述狩猎之行,正法的女子啊,请听:国王杀死鹿群,也不会被罪恶所玷污。
13.215.2
निर्मानुषामिमां सर्वे मृगा इच्छन्ति मेदिनीम् ।
भक्षयन्ति च सस्यानि शासितव्या नृपेण ते ॥ १३.२१५.२ ॥
所有的鹿都想使这片大地没有人类,并且吞食庄稼;它们应当由国王加以约束。
13.215.3
दुष्टानां शासनं धर्मः शिष्टानां परिपालनम् ।
कर्तव्यं भूमिपालेन नित्यं कार्येषु चार्जवम्।
स्वर्गं मृगाश्च गच्छन्ति स्वयं नृपतिना हताः ॥ १३.२१५.३ ॥
制服恶人、保护善良者即是正法;大地的守护者在事务中必须常常正直。由国王亲自杀死的鹿,也会升入天界。
13.215.4
यथा गावो ह्यगोपालास्तथा राष्ट्रमनायकम् ।
तस्मादंशास्तु देवानां गन्धर्वोरगरक्षसाम्।
राज्ये नियुक्ता राष्ट्रेषु प्रजापालनकारणात् ॥ १३.२१५.४ ॥
如同没有牧人的牛群,没有首领的国家亦然。因此,诸神、乾达婆、蛇与罗刹的化身被任命于各国,以保护百姓。
13.215.5
अशिष्टशासने चैव शिष्टानां परिपालने ।
तेषां चर्यां प्रवक्ष्यामि श्रूयतामनुपूर्वशः ॥ १३.२१५.५ ॥
关于制服恶人与保护善良之人,我将依次宣说他们的行为;请听。
13.215.6
यथा प्रचरतां तेषां पार्थिवानां यशस्विनाम् ।
राष्ट्रं धर्मो धनं चैव यशः कीर्तिश्च वर्धते ॥ १३.२१५.६ ॥
当那些著名的国王如此行事时,国家、正法、财富、名声与荣誉都会增长。
13.215.7
नृपाणां पूर्वमेवायं धर्मो धर्मभृतांवर ।
सभाप्रपातटाकानि देवतायतनानि च।
ब्राह्मणावसथाश्चैव कर्तव्या नृपसत्तमैः ॥ १३.२१५.७ ॥
持法者中最优秀的人啊,这首先是诸王的职责:最优秀的君王应当建造议事厅、施水亭、池塘、神庙以及婆罗门的住所。
13.215.8
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः ।
कुलमुत्सादयेयुस्ते क्रोधाविष्टा द्विजातयः ॥ १३.२१५.८ ॥
不可轻慢婆罗门,他们如同被灰烬覆盖的火。那些被愤怒所控制的再生者,可能会连根拔起整个家族。
13.215.9
ध्मायमानो यता ह्यग्निर्निर्दहेत्सर्वमिन्धनम् ।
तथा क्रोधाग्निना विप्रा दहेयुः पृथिवीमिमाम्।
न हि विप्रेषु क्रुद्धेषु राज्यं भुञ्जन्ति भूमिपाः ॥ १३.२१५.९ ॥
正如被吹旺的火焰烧尽所有柴薪,婆罗门以愤怒之火也能焚烧这整个大地。婆罗门一旦震怒,君王便无法享有其国土。
13.215.10
परिभूय द्विजान्मोहाद्वातापिनहुषादयः ।
सबन्धुमित्रा नष्टास्ते दग्धा ब्राह्मणमन्युभिः।
शरीरं चापि शक्रस्य कृतं भगनिरन्तरम् ॥ १३.२१५.१० ॥
因迷惑而轻慢再生者,伐多毗、那呼沙等人连同亲属朋友一同覆灭,被婆罗门的愤怒焚毁。因陀罗的身体也被布满了女阴之相。
13.215.11
ततो देवगणाः सर्वे इन्द्रस्यार्थे महामुनिम् ।
प्रसादं कारयामासुः प्रणासस्तुतिवन्दनैः ॥ १३.२१५.११ ॥
于是诸天众神为因陀罗之故,以礼敬、赞颂与致意,使那位大仙息怒恩赐。
13.215.12
तेन प्रीतेन सुश्रोणि गौतमेन महात्मना ।
तच्छरीरं तु शक्रस्य सहस्रभगचिह्नितम्।
कृतं नेत्रसहस्रेण क्षणेनैव निरन्तरम् ॥ १३.२१५.१२ ॥
大仙牟尼高答摩心中欢喜,美臀女啊,因陀罗那身上刻满千个阴相的躯体,刹那间便被他全身布满千目。
13.215.13
छित्त्वा मेषस्य वृषणौ गौतमेनाभिमन्त्रितौ ।
इन्द्रस्य वृषणौ भूत्वा क्षिप्रं वै श्लेषमागतौ ॥ १३.२१५.१३ ॥
截取了经由高答摩以咒语加持的公羊双睾,它们成为因陀罗的双睾,并迅速相连。
13.215.14
एवं विप्रेषु क्रुद्धेषु देवराजः शतक्रतुः ।
अशक्तः शासितुं राज्यं किंपुनर्मानुषा भुवि ॥ १३.२१५.१४ ॥
如此,婆罗门们发怒之时,天王百祭因陀罗也无法统治王国,更何况大地上的凡人呢?
13.215.15
क्रोधाविष्टो दहेद्विप्रः शुष्केन्धनमिवानलः ।
भस्मीकृत्य जगत्सर्वं सृजेदन्यज्जगत्पुनः ॥ १३.२१५.१५ ॥
被愤怒所控制的婆罗门会像烈火焚烧干柴一样燃烧;把整个世界化为灰烬之后,他还能再创造另一个世界。
13.215.16
अदेवानपि देवान्स कुर्याद्देवानदेवताः ।
तस्मान्नोत्पादयेन्मन्युं मन्युप्रहरणा द्विजाः ॥ १३.२१५.१६ ॥
他能使非神成为神,也能使神成为非神。因此,以愤怒为武器的再生者们啊,你们不可生起愤怒。
13.215.17
महत्स्वप्यपराधेषु शासनं नार्हति द्विजः ।
न च शस्त्रनिपातानि न च प्राणैर्वियोजनम्।
दृश्यते त्रिषु लोकेषु ब्राह्ममानामनिन्दिते ॥ १३.२१५.१७ ॥
即使有大过错,再生者也不应受刑罚;在三界之中,从未见到对婆罗门施以兵刃或夺其性命,无瑕之人啊。
13.215.18
क्रोधाश्च विपुला घोराः प्रसादाश्चाप्यनुत्तमाः ।
तस्मान्नोत्पादयेत्क्रोधं नित्यं पूज्या द्विजातयः ॥ १३.२१५.१८ ॥
愤怒广大而可怕,恩惠则至为高尚。因此不应生起愤怒;二生者永远值得尊敬。
13.215.19
दृश्यते न स लोकेऽस्मिन्भूते वाऽथ भविष्यति ।
क्रुद्धेषु यो वै विप्रेषु राज्यं भुङ्क्ते नराधिपः ॥ १३.२१५.१९ ॥
在此世间,无论已往或将来,都不见有哪位国王在婆罗门愤怒之时仍能安享王国。
13.215.20
न चैवापहसेद्विप्रान्नि चैवोपालभेच्च तान् ।
कालमासाद्य कुप्येच्च काले कुर्यादनुग्रहम् ॥ १३.२१५.२० ॥
不应嘲笑婆罗门,也不应指责他们。时机到来时可以发怒;在适当的时候应施恩惠。
13.215.21
सम्प्रहासश्च भृत्येषु न कर्तव्यो नराधिपैः ।
लघुत्वं चैव प्राप्नोति आज्ञा चास्य निवर्तते ॥ १३.२१५.२१ ॥
君王不应对仆从嘲笑戏谑。如此则君王会陷于卑下,其命令也会被撤回。
13.215.22
भृत्यानां सम्प्रहासेन पार्थिवः परिभूयते ।
अयाच्यानि च याचन्ति अवक्तव्यं ब्रुवन्ति च ॥ १३.२१५.२२ ॥
君王因仆从的嘲笑而受辱。他们请求不该请求之物,说出不该说出之言。
13.215.23
पूर्वमप्यर्पितैर्लोभैः परितोषं न यान्ति ते ।
तस्माद्भृत्येषु नृपतिः सम्प्रहासं विवर्जयेत् ॥ १३.२१५.२३ ॥
即使先前已给予种种贪求之物,他们也不能满足。因此,国王应当避免对仆从嘲笑戏谑。
13.215.24
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
सगोत्रेषु विशेषेण सर्वोपायैर्न विश्वसेत् ॥ १३.२१५.२४ ॥
不可信任不可信之人,即使是可信之人也不可过度信任。尤其是同族之人,无论用何种方法都不可信任。
13.215.25
विश्वासाद्भयमुत्पन्नं हन्याद्वृक्षमिवाशनिः ।
प्रमादाद्धन्यते राजा लोभेन च वशीकृतः।
तस्मात्प्रमादं लोभं च न च कुर्यान्न विश्वसेत् ॥ १३.२१५.२५ ॥
由信任而生的恐惧,如雷电击树般摧毁。君王因疏忽、且为贪欲所controlled而被杀。因此不应疏忽,不应贪婪,也不应轻信。
13.215.26
भयार्तानां भयत्राता दीनानुग्रहकारणात् ।
कार्याकार्यविशेषज्ञो नित्यं राष्ट्रहिते रतः ॥ १३.२१५.२६ ॥
对于被恐惧所困扰者,他是免除恐惧的保护者,因为他施恩于贫弱者;他通晓应做与不应做之别,始终专注于国家的福祉。
13.215.27
सत्यसन्धः स्थितो राज्ये प्रजापालनतत्परः ।
अलुब्धो न्यायवादी च षड्भागमुपजीवति ॥ १३.२१५.२७ ॥
信守诺言、稳居王国、致力于保护臣民、无贪欲、说话公正的君王,依靠臣民所出的六分之一而生活。
13.215.28
कार्याकार्यविशेषज्ञः सर्वं धर्मेण पश्यति ।
स्वराष्ट्रेषु दयां कुर्यादकार्ये न प्रवर्तते ॥ १३.२१५.२८ ॥
通晓应做与不应做之别者,凡事皆依法而观。他应对自己的国土施以慈悲,不从事不应做之事。
13.215.29
ये चैवैनं प्रशंसन्ति ये च निन्दन्ति मानवाः ।
शत्रुं च मित्रवत्पश्येदपराधविवर्जितम्। ॥ १३.२१५.२९ ॥
无论有人赞扬他还是有人谴责他,都应将敌人视如朋友,视其为无过之人。
13.215.30
अपराधानुरूपेण दुष्टं दण्डेन शासयेत् ।
धर्मः प्रवर्तते तत्र यत्र दण्डरुचिर्नृपः।
न धर्मो विद्यते तत्र यत्र राजा क्षमान्वितः ॥ १३.२१५.३० ॥
应依罪行轻重以刑罚惩治恶人。国王喜好刑罚之处,法(dharma)便得以确立;国王怀有宽容之处,则不见法。
13.215.31
अशिष्टशासनं धर्मः शिष्टानां परिपालनम् ।
वध्यांश्च घातयेद्यस्तु अवध्यानपरिरक्षति ॥ १३.२१५.३१ ॥
惩治不守规矩的人,保护善良的人,这便是法。使应当处死者被杀,却不保护不应被杀者的人,
13.215.32
अवध्या ब्राह्मणा गावो दूताश्चैव पिता तथा ।
विद्यां ग्राहयते यश्च ये च पूर्वोपकारिणः।
स्त्रियश्चैव न हन्तव्या यच्च सर्वातिथिर्नरः ॥ १३.२१५.३२ ॥
婆罗门、牛、使者以及父亲,皆不可杀;使人得受教育者、先前有恩于人者、女人,以及作为一切人之客人的人,也不可杀。
13.215.33
धरणीं गां हिरण्यं च सिद्धान्नं च तिलान्घृतम् ।
ददन्नित्यं द्विजातिभ्यो मुच्यते राजकिल्बिषात् ॥ १३.२१५.३३ ॥
常向再生族施舍土地、牛、黄金、熟食、芝麻与酥油的人,便能免除国王的罪过。
13.215.34
एवं चरति यो नित्यं राजा राष्ट्रहिते रतः ।
तस्य राष्ट्रं धनं धर्मो यशः कीर्तिश्च वर्धते।
न च पापैर्न चानर्थैर्युज्यते स नराधिपः ॥ १३.२१५.३४ ॥
国王如此行事,常以国家之利为乐,则其国、财富、法、名誉与声望皆得增长;这位人主既不沾染罪恶,也不遭受灾祸。
13.215.35
षड्भागमुपभुञ्जानः प्रजा राजा न रक्षति ।
स्वचक्रपरचक्राभ्यां धर्मैर्वा विक्रमेण वा ॥ १३.२१५.३५ ॥
享受六分之一之税而不以法或勇力保护臣民、使其免受己方或敌军侵害的国王……
13.215.36
निरुद्योगो नृपो यश्च परराष्ट्रनिघातने ।
स्वराष्ट्रं निष्प्रतापस्य परचक्रेण हन्यते ॥ १३.२१५.३६ ॥
不努力攻击他国、缺乏威势的国王,会眼看自己的国家被敌军摧毁。
13.215.37
यत्पापं सकलं राजा हतराष्ट्रः प्रपद्यते ।
मातुलं भागिनेयं वा मातरं श्वशुरं गुरुम्। ॥ १३.२१५.३७ ॥
国土沦丧之王所招致的全部罪孽——无论是杀死舅父、外甥、母亲、岳父或师长。
13.215.38
पितरं वर्जयित्वैकं हन्याद्धातकमागतम् ॥ १३.२१५.३८ ॥
除了父亲之外,对前来行凶的刺客可以杀之。
13.215.39
स्वस्य राष्ट्रस्य रक्षार्थं युद्यमानश्च यो हतः ।
सङ्ग्रामे परचक्रेण श्रूयतां तस्य या गतिः ॥ १३.२१५.३९ ॥
请听:为保卫自己的国家而战,在战场上被敌军杀死者所得的归宿。
13.215.40
विमानेन वरारोहे अप्सरोगणसेवितः ।
शक्रलोकमितो याति सङ्ग्रामे निहतो नृपः ॥ १३.२१५.४० ॥
美腰的女子啊,战死沙场的国王乘天车,由众阿普萨拉斯伺候,从此处前往因陀罗界。
13.215.41
यावन्तो रोमकूपाः स्युस्तस्य गात्रेषु सुन्दरि ।
तावद्वर्षसहस्राणि शक्रलोके महीयते ॥ १३.२१५.४१ ॥
美人啊,他身上有多少毛孔,便在因陀罗界受尊崇多少千年。
13.215.42
यदि वै मानुषे लोके कदाचिदुपपद्यते ।
राजा वा राजमात्रो वा भूयो भवति वीर्यवान् ॥ १३.२१५.४२ ॥
若他有朝一日再生于人间,为王或王臣,便再次成为有力量的人。
13.215.43
तस्माद्यत्नेन कर्तव्यं स्वराष्ट्रपरिपालनम् ।
व्यवहाराश्च चारश्च सततं सत्यसन्धता ॥ १३.२१५.४३ ॥
因此应当努力保护自己的国土,维持审判事务与间谍体系,并始终恪守诚实的承诺。
13.215.44
अप्रमादः प्रमोदश्च व्यवसायेऽप्यचण्डता ।
भरणं चैव भृत्यानां वाहनानां च पोषणम् ॥ १३.२१५.४४ ॥
警觉与欢悦,即使行事也不暴烈;供养仆从,养育车骑。
13.215.45
योधानां चैव सत्कारः कृते कर्मण्यमोघता ।
श्रेय एव नरेन्द्राणामिह चैव परत्र च ॥ १३.२१५.४५ ॥
尊敬战士,对所做之事给予不落空的报偿,这便是君王今世与来世的福祉。