Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.217

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.217.1

भगवन्भगनेत्रघ्न कालसूदन शङ्कर ।
इमे वर्णाश्च चत्वारो विहिताः स्वस्वभावतः।
उताहो क्रियया वर्णाः सम्भवन्ति महेश्वर ॥ १३.२१७.१ ॥

尊贵的主啊,毁灭薄伽之眼者,灭除死亡者,湿婆!这四种种姓是依各自的本性而设定的吗?还是种姓由行为而产生?啊,大自在天?

13.217.2

एवं मे संशयप्रश्नस्तं मे छेत्तुं त्वमर्हसि ॥ १३.२१७.२ ॥

我的疑问便是如此;唯有您有资格解答。

13.217.3

स्वभावादेव विद्यन्ते चत्वारो ब्राह्मणादयः ।
एकजात्या सुदुष्प्रापमन्यवर्णत्वमागतम् ॥ १३.२१७.३ ॥

四种种姓——从婆罗门开始——依本性而存在;在一生之中转入另一种姓极为困难。

13.217.4

तच्च कर्मविशेषेण पुनर्जन्मनि जायते ।
तस्मात्तेषां प्रवक्ष्यामि तत्सर्वं कर्मपाकजम् ॥ १३.२१७.४ ॥

这种转变在再生时由特殊的行为而产生;因此我将为你讲述关于他们的一切,即由业报成熟而生的一切。

13.217.5

ब्राह्मणस्तु नरो भूत्वा स्वजातिमनुपालयन् ।
दृढं ब्राह्मणकर्माणि वेदोक्तानि समाचरेत् ॥ १३.२१७.५ ॥

身为婆罗门的人,应当坚守自己的出生种姓,坚定地履行吠陀所载的婆罗门职责。

13.217.6

सत्यार्जवपरो भूत्वा दानयज्ञपरस्तथा ।
सत्यां जात्यां समुदितो जातिधर्मान्न हापयेत् ॥ १३.२१७.६ ॥

专心于真实与正直,同样专心于布施与祭祀,具有真正的出生种姓,不应舍弃本种姓的职责。

13.217.7

एवं संवर्तमानस्तु कालधर्मं गतः पुनः ।
स्वर्गलोके हि जायेत स्वर्गभोगाय भामिनि ॥ १३.२१७.७ ॥

如此行走之人再次走向时间的法则,于天界而生,为享受天界之乐,啊,光辉的女子。

13.217.8

तत्क्षये ब्राह्मणो भूत्वा तथैव नृषु जायते ।
एवंस्वकर्मणा मर्त्यः स्वजातिं लभते पुनः ॥ १३.२१७.८ ॥

当那福德耗尽时,他便成为婆罗门,同样地降生于人间。如此,凡人依其自身行为,重新获得自己的种姓。

13.217.9

अपरस्तु तथा कश्चिद्ब्रह्मयोनिसमुद्भवः ।
अवमत्यैव तां जातिमज्ञानतमसा वृतः ॥ १३.२१७.९ ॥

然而又有另一人,生于婆罗门之胎,轻视那一种姓,被无知的黑暗所笼罩。

13.217.10

अन्यथा वर्तमानस्तु जातिकर्माणि वर्जयेत् ।
शूद्रवद्विचरेल्लोके शूद्रकर्माभिलाषवान्।
शूद्रैः सह चरन्नित्यं शौचमङ्गलवर्जितः। ॥ १३.२१७.१० ॥

若行为不同,便应舍弃种姓之职责,如首陀罗般在世间流浪,渴望首陀罗之所为,常与首陀罗同行,缺乏清净与吉祥。

13.217.11

स चापि कालधर्मस्थो यमलोके सुदण्डितः ।
यदि जायेत मर्त्येषु शूद्र एवाभिजायते ॥ १३.२१७.११ ॥

他也在死亡之后,于阎摩界受到严厉惩罚;若他降生于人间,则只能生为首陀罗。

13.217.12

शूद्र एव भवेद्देवि ब्राह्मणोऽपि स्वकर्मणा ॥ १३.२१७.१२ ॥

啊,女神,即使婆罗门,也因自身的行为而成为首陀罗。

13.217.13

तथैव शूद्रस्त्वपरः शूद्रकर्माणि वर्जयेत् ।
सत्यार्जवपरो भूत्वा दानधर्मपरस्तथा।
मन्त्रब्राह्मणसत्कर्ता मनसा ब्राह्मणप्रियः ॥ १३.२१७.१३ ॥

同样,另一位首陀罗应当舍弃首陀罗的行为,专心于真实与正直,也专心于布施之法,尊敬吠陀诵文和婆罗门典籍,并在内心受婆罗门喜爱。

13.217.14

एवं युक्तसमाचारः शूद्रोपि मरणं गतः ।
स्वर्गलोके हि जायेत तत्क्षये नृषु जायते।
ब्राह्मणानां कुले मुख्ये वेदस्वाध्यायसंयुते ॥ १३.२१७.१४ ॥

如此,行为端正的首陀罗死后生于天界;当那福报耗尽时,他便转生为人,生于婆罗门中最尊贵、精研吠陀的家族。

13.217.15

एवमेव सदा लोके शूद्रो ब्राह्मण्यमाप्नुयात् ॥ १३.२१७.१५ ॥

同样,在世间,首陀罗也可以获得婆罗门的地位。

13.217.16

एवं क्षत्रियवैश्याश्च जातिधर्मेण संयुताः ।
स्वकर्मणैव जायन्ते विशिष्टेष्वधमेषु च ॥ १३.२१७.१६ ॥

同样,刹帝利与吠舍依其种姓之法,凭自己的行为生于尊贵或卑下的家族。

13.217.17

एवं जातिविपर्यासः प्रेत्यभावे भवेन्नृणाम् ।
अन्यथा तु न शक्यं तल्लोकसंस्थितिकारणात् ॥ १३.२१७.१७ ॥

如此,人在死后可能发生这样的种姓颠倒;否则不可能,因为这正是世界得以稳定的原因。

13.217.18

तस्माज्जातिं विशिष्टां तु कथंचित्प्राप्य पण्डितः ।
सर्वथा तां तथा रक्षेन्न पुनर्भ्रश्यते यथा।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ १३.२१७.१८ ॥

因此智者若以某种方式获得了尊贵的种姓,应当全力守护,使其不再堕落。女神啊,这已经告诉你了;你还想再听什么呢?

13.217.19

जन्मप्रभृति कः शुद्धो लभेज्जन्मफलं नरः ।
शोभनाशोभनं सर्वमधइकारवशात्स्वकम् ॥ १३.२१७.१९ ॥

从出生起,哪个人能保持清净并获得生命的果报?受自身低劣习气的支配,他要承受一切善与恶。

13.217.20

कर्म कुर्वन्न लिप्येत आर्जवेन समाचरेत् ।
आत्मैव तच्छुभं कुर्यादशुभे योजयेत्परान् ॥ १३.२१७.२० ॥

即使行事,也不应被其所染;应以正直行事。应自己行善,不要使他人陷于恶行。

13.217.21

शठेषु शठवत्कुर्योदार्यष्वार्यवदाचरेत् ।
आपत्सु नावसीदेच्च घोरान्सङ्ग्रामयेत्परात्।
साम्नैव सर्वकार्याणि कर्तुं पूर्वं समारभेत् ॥ १३.२१७.२१ ॥

对待狡诈之人应以狡诈相待,对待高尚之人应以高尚相待。遭遇困境不可沉沦;不可把他人驱入残酷的战斗。一切事务应首先以和解之道着手。

13.217.22

अनर्थाधर्मशोकानां यथा न प्राप्नुयात्स्वयम् ।
प्रीयते तत्तथा कर्तुमेतद्वृत्तं समासतः ॥ १३.२१७.२२ ॥

为使灾祸、非法与忧愁不临于自身,应当践行此种行为;简言之,此行为令人欢喜。

13.217.23

एवं वृत्तं समासाद्य गृहमाश्रित्य मानवाः ।
निराहारा निरुद्वेगाः प्राप्नुवन्त्युत्तमां गतिम् ॥ १३.२१७.२३ ॥

若采取如此行为,依托家居生活,人们便能远离贪食与烦扰,获得最高之归宿。

13.217.24

एतज्जन्मफलं नित्यं सर्वेषां गृहवासिनाम् ।
एवं गृहस्थितैर्नित्यं वर्तितव्यमिति स्थितिः।
एतत्सर्वं मया प्रोक्तं किं भूयः श्रोतुमिच्छसि ॥ १३.२१७.२४ ॥

这对所有居家之人而言,始终是生命的果报。居家者应始终如此行事——这便是既定的准则。我已将这一切宣说;你还想听什么?

13.217.25

सुरासुरपते देव वरद प्रीतिवर्धन ।
मानुषेष्वेव ये के चिदाढ्याः क्लेशविवर्जिताः।
भुञ्जाना विविधान्भोगान्दृश्यन्ते निरुपद्रवाः ॥ १३.२१७.२५ ॥

众神与阿修罗之主啊,天神,赐恩者,增益喜悦者!人世间有些人富有而无苦恼,享受种种欢乐,安然无扰。

13.217.26

अपरे क्लेशसंयुक्ता दरिद्रा भोगवर्जिताः ॥ १३.२१७.२६ ॥

其他人则充满苦难、贫穷,且失去享受。

13.217.27

किमर्थं मानुषे लोके न समत्वेन कल्पिताः ।
एतच्छ्रोतुं महादेव कौतूहलमतीव मे ॥ १३.२१७.२७ ॥

为何人间的众生不是平等被创造的?大天神啊,我极其想听闻此事。

13.217.28

न्यायतस्त्वं महाभागे श्रोतुकामासि भामिनि ।
शृणु तत्सर्वमखिलं मानुषाणां हितं वचः ॥ १३.२१७.२८ ॥

大福之女,贤淑的夫人啊,你想听闻是合理的。请听这全部对人类有益的教导。

13.217.29

आदिसर्गे पुरा ब्रह्मा समत्वेनासृजत्प्रजाः ।
नित्यं न भवतो ह्यस्य रागद्वेषौ प्रजापतेः।
तदा तस्मात्सुराः सर्वे बभूवुः समतो नराः ॥ १३.२१७.२९ ॥

在最初的创造中,古时梵天以平等创造众生。主宰众生者并非时时生起爱憎;那时,因此,诸神与人类都处于平等之中。

13.217.30

एवं संवर्तमाने तु युगे कालविपर्ययात् ।
केचित्प्रपेदिरे तत्र विषमं बुद्धिमोहिताः ॥ १३.२१७.३० ॥

当时代如此转变,由于时间的颠倒,一些人心智迷惑,便在那里陷入了不平等。

13.217.31

तेषां हानिं ततो दृष्ट्वा तुल्यानामेव भामिनि ।
ब्राह्मणास्ते समाजग्मुस्तत्तत्कारणवेदकाः ॥ १३.२१७.३१ ॥

光辉的女士啊,他们看到衰退,即使在平等者之中,那些知晓每个原因的婆罗门便聚集起来。

13.217.32

कर्तुं नार्हसि देवेश पक्षपातं त्वमीदृशम् ।
पुत्रभावे समे देव किमर्थं नो भवेत्कलिः ॥ १३.२१७.३२ ॥

诸神之主,你不应如此偏袒。神啊,既然作为子嗣的地位相同,为何迦利时代要降临于我们?

13.217.33

एवमेतैरुपालब्धो ब्रह्मा वचनमब्रवीत् ।
यूयं मा ब्रूत मे दोषं स्वकृतं स्मरथ प्रजाः ॥ १३.२१७.३३ ॥

梵天被他们如此责备,便说道:你们不要说我的过错,众生啊,要记住你们自己所造的业。

13.217.34

युष्माभिरेव युष्माकं ग्रथितं हि शुभाशुभम् ।
यादृशं कुरुते कर्म तादृशं फलमश्नुते।
स्वकृतस्य फलं भुङ्क्ते नान्यस्तद्बोक्तुमर्हति ॥ १३.२१७.३४ ॥

你们的善与恶,正是由你们自己编织的。人作何种业,便得何种果。自作之果由自己享受,他人不应承受。

13.217.35

एवं संबोधितास्तेन कालकर्त्रा स्वयंभुवा ।
पुनर्विवृत्य कर्माणि शुभान्येव प्रपेदिरे ॥ १३.२१७.३५ ॥

被创造时间的自生者如此教导,他们便重新转变其行为,只取善业。

13.217.36

एवं विज्ञाततत्वास्ते दानधर्मपरायणाः ।
शुभानि विधिवत्कृत्वा कालधर्मगताः पुनः।
तानि दानफलान्येव भुञ्जते सुखभोगिनः ॥ १३.२१७.३६ ॥

如此明了真理后,他们专心于布施之法。依规矩行善之后,走到其时限的终点,又只享受布施的果报,成为享乐之人。

13.217.37

स्वकृतं तु नरस्तस्मात्स्वयमेव प्रपद्यते ॥ १३.२१७.३७ ॥

因此人自身会获得自己所作之业的果报。

13.217.38

अपरे धर्मकामेभ्यो निवृत्ताश्च शुभेक्षणे ।
कदर्या निरनुक्रोशाः प्रायेणात्मपरायणाः ॥ १३.२१७.३८ ॥

美目之人啊,另有一些人远离追求法的人;他们吝啬、无慈悲,大多只顾自己。

13.217.39

तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने ।
दरिद्राः क्लेशभूयिष्ठा भवन्त्येव न संशयः ॥ १३.२१७.३९ ॥

美人啊,这样的人死后,在来世会变得贫穷,充满苦难,此事毫无疑问。

13.217.40

मानुषेष्वथ ये केचिद्धनधान्यसमन्विताः ।
भोगहीनाः प्रदृश्यन्ते सर्वभोगेषु सत्स्वपि।
न भुञ्जते किमर्थं ते तन्मे शंसितुमर्हसि ॥ १३.२१७.४० ॥

人中有些人拥有财富和粮食,所有享乐都在,却似乎毫无享受,并不去享用——这是什么缘故?请你告诉我。

13.217.41

परैः संचोदिता धर्मं कुर्वते न स्वकामतः ।
स्वयं श्रद्धां बहिष्कृत्य कुर्वन्ति च रुदन्ति च ॥ १३.२१७.४१ ॥

他们受他人催促才行法,并非出于自愿;自己抛弃了信心而去做,还会哭泣。

13.217.42

तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने ।
फलानि तानि सम्प्राप्य भुञ्जते न कदाचन।
रक्षन्तो वर्धयन्तश्च आसते निधिपालवत् ॥ १३.२१७.४२ ॥

美人啊,这样的人死后,即使在来世获得了那些果报,也从不享用;他们只是守护并增益财物,如同守藏之人一般坐守。

13.217.43

केचिद्धनवियुक्ताश्च भोगयुक्ता महेश्वर ।
मानुषाः सम्प्रदृश्यन्ते तन्मे शंसितुमर्हसि ॥ १३.२१७.४३ ॥

有些人失去财富,却仍享有欢乐。大自在天啊,请你告诉我这是为什么。

13.217.44

आनृशंस्यपरा ये तु धर्मकामाश्चि दुर्गताः ।
परोपकारं कुर्वन्ति दीनानुग्रहकारणात् ॥ १३.२१७.४४ ॥

那些专心于慈悲、向往正法的人,即便处于困厄,也因怜悯贫弱而利益他人。

13.217.45

प्रतिपद्युः परधनं नष्टं वाऽन्यैर्नरैर्हृतम् ।
नित्यं ये दातुमनसो नरा वित्तेष्वसत्स्वपि ॥ १३.२१७.४५ ॥

常怀施舍之心的人,即使无财,也能获得他人之财,或是失去、被他人夺走的财物。

13.217.46

कालधर्मवशं प्राप्ताः पुनर्जन्मनि ते नराः ।
एते धनविहीनाश्च भोगयुक्ता भवन्त्युत ॥ १३.२१७.४६ ॥

那些受时间与正法之力支配的人,便进入来世轮回;而这些无财之人,也会变得享有欢乐。

13.217.47

धर्मदानोपदेशं वा कर्तव्यमिति निश्चयः ।
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ १३.२१७.४७ ॥

当传授正法与布施之教,这是决定。女神啊,这已对你说了;你还想听什么?