Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.220

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.220.1

भगवन्देवदेवेश मम प्रीतिविवर्धन ।
जात्यन्धाश्चैव दृश्यन्ते जाता वा नष्टचक्षुषः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२०.१ ॥

尊贵的主,神中之神,增益我喜悦的人!天生盲者和后来失明者都可以看到。这是由何种业报所致?请告诉我。

13.220.2

हन्त ते कथयिष्यामि शृणु कल्याणि कारणम् ॥ १३.२२०.२ ॥

好吧,我将告诉你原因;听着,吉祥的人。

13.220.3

ये पुरा कामकारेणि परवेश्मसु लोलुपाः ।
परस्त्रियोऽभिवीक्षन्ते दुष्टेनैव स्वचक्षुषाः ॥ १३.२२०.३ ॥

那些往昔因欲望而贪婪,在他人家中以邪恶的眼光看着他人妻子的人,

13.220.4

अन्धीकुर्वन्ति यन्मर्त्यान्क्रोधलोभसमन्विताः ।
लक्षणज्ञाश्च रूपेषु अयथावत्प्रदर्शकाः ॥ १३.२२०.४ ॥

那些充满愤怒与贪婪、使世人失明的人;他们明知相貌的标志,却不能如实地显示形象。

13.220.5

एवं युक्तसमाचाराः कालधर्मवशास्तु ते ।
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये ॥ १३.२२०.५ ॥

行为如此之人,受时间与法则支配,被阎摩的杖所惩罚,久居地狱之中,我的爱人。

13.220.6

यदि चेन्मानुषं जन्म लभेरंस्ते तथापि वा ।
स्वभावतो वा जाता वा अन्धा एव भवन्ति ते।
अक्षिरोगयुता वाऽपि नास्ति तत्र विचारणा ॥ १३.२२०.६ ॥

即使他们获得人身,也会天生盲目,或患上眼疾;此事毫无疑问。

13.220.7

मुखरोगयुताः केचिद्दृश्यन्ते सततं नराः ।
दन्तकण्ठकपोलस्थैर्व्याधिभिर्बहुपीडिताः ॥ १३.२२०.७ ॥

有些人经常被口部疾病所困,因牙齿、喉咙和脸颊的疾病而深受痛苦。

13.220.8

आदिप्रभृति वै मर्त्या जाता वाऽप्यथ कारणात् ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२०.८ ॥

自始以来,凡人因何缘故如此出生?是由何种业报成熟所致?请你为我解说。

13.220.9

हन्त ते कथयिष्यामि शृणु देवि समाहिता ॥ १३.२२०.९ ॥

好吧,我将告诉你;女神啊,请专心听。

13.220.10

कुवक्तारस्तु ये देवि जिह्वया कटुकं भृशम् ।
असत्यं परुषं घोरं गुरून्प्रति परान्प्रति ॥ १३.२२०.१० ॥

女神啊,那些恶言之人,以舌头说出极其苛刻、虚假、粗暴而残忍的话,对长辈或对他人皆然。

13.220.11

जिह्वाबाधां तदाऽन्येषां कुर्वते कोपकारणात् ।
प्रायशोऽनृतभूयिष्ठा नराः कार्यवशेन वा।
तेषां जिह्वाप्रदेशस्था व्याधयः सम्भवन्ति ते ॥ १३.२२०.११ ॥

因愤怒,他们以舌头伤害他人;大多是充满虚妄之人,或为某事所驱使。于是,在他们舌头部位便产生疾病。

13.220.12

कुश्रोतारस्तु ये चार्यं परेषां कर्णनाशकाः ।
कर्णरोगान्बहुविधाँल्लभन्ते ते पुनर्भवे ॥ १३.२२०.१२ ॥

那些阻碍他人聆听高尚之言、损害他人耳朵的恶听者,来世会得到种种耳疾。

13.220.13

दन्तरोगशिरोरोगकर्णरोगास्तथैव च ।
अन्ये दुःखाश्रिता दोषाः सर्वे चात्मकृतं फलम् ॥ १३.२२०.१३ ॥

牙病、头病和耳病也是如此;其余依附于苦的过失,都是自作之业的果报。

13.220.14

पीड्यन्ते सततं देव मानुषेष्वेव केचन ।
कुक्षिपक्षाश्रितैर्दोषैर्व्याधिभिश्चोदराश्रितैः ॥ १३.२२०.१४ ॥

神啊,人间有些人不断受腹侧所依的失调与腹中所居的疾病折磨。

13.220.15

तीक्ष्णिशूलैश्च पीड्यन्ते नरा दुःखपरिप्लुताः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२०.१५ ॥

人们陷于苦中,又受锐利的剧痛所苦。这是由哪一种业报成熟而来的?请您告诉我。

13.220.16

ये पुरा मनुजा देवि कामक्रोधवशा भृशम् ।
आत्मार्थमेव चाहारं भुञ्जन्ते निरपेक्षकाः ॥ १३.२२०.१६ ॥

女神啊,往昔那些人,深受欲望与愤怒所支配,只为自己而进食,不顾他人。

13.220.17

अभक्ष्याहारदानैश्च विश्वस्तानां विषप्रदाः ।
अभक्ष्यभक्षदाश्चैव शौचमङ्गलवर्जिताः ॥ १३.२२०.१७ ॥

那些向信任他们的人施以不可食之物与毒药、使人食用不可食之物、且缺乏清净与吉祥的人。

13.220.18

मांसयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
कथञ्चित्प्राप्य मानुष्यं तत्र ते व्याधिपीडिताः ॥ १३.२२०.१८ ॥

行为沾染肉食的人,在美好的再生中虽然侥幸得到人身,却仍在那里受疾病折磨。

13.220.19

तैस्तैर्बहुविधाकारैर्व्याधिभिर्दुःखसंश्रिताः ।
भवन्त्येवं तथा देवि यथा चैवं तथा कृतम् ॥ १३.२२०.१९ ॥

他们因种种不同形态的疾病而陷入苦难之中。女神啊,如其所为,便成为如此。

13.220.20

दृश्यन्ते सततं देव व्याधिभिर्मेहनाश्रितैः ।
पीड्यमानास्तथा मर्त्या अश्मरीशर्करादिभिः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२०.२० ॥

神啊,常见凡人被由小便疾病引发的疾病,以及结石、砂粒等所折磨。这是由何种业报之果所致?你应当告诉我。

13.220.21

ये पुरा मनुजा देवि परदारप्रधर्षकाः ।
तिर्यग्योनिषु धूर्ता वै मैथुनार्थं चरन्ति च ॥ १३.२२०.२१ ॥

女神啊,那些从前侵犯他人妻子的人,那些恶棍,为了交合而在畜生之胎中流转。

13.220.22

कामदोषेणि ये धूर्ताः कन्यासु विधवासु च ।
बलात्कारेण गच्छन्ति रूपदर्पसमन्विताः ॥ १३.२२०.२२ ॥

那些因欲望之过、怀着容貌之傲慢的恶棍,强行接近少女与寡妇。

13.220.23

तादृशा मरणं पुनर्जन्मनि शोभने ।
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः।
मेहनस्थैस्तथा घोरैः पीड्यन्ते व्यधिभिः प्रिये ॥ १३.२२०.२३ ॥

这样的人会死亡。美丽的女子啊,若他们再得人身,成为那样之人,便会被位于泌尿器官的可怕疾病所折磨,亲爱的。

13.220.24

भगवन्मानुषाः केचिद्दृश्यन्ते शोषिणः कृशाः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२०.२४ ॥

尊贵者啊,可见有些人消瘦憔悴、形容枯槁。这是由何种业报之果所致?你应当告诉我。

13.220.25

ये पुरा मनुजा देवि मांसलुब्धाः सुलोलुपाः ।
आत्मार्थे स्वादुगृद्धाश्च परभोगोपतापिनः ॥ १३.२२०.२५ ॥

女神啊,往昔那些贪恋肉食、极为贪欲、为自己而渴望美味、又折磨他人享受的人……

13.220.26

अभ्यसूयाश्चोपतापाः परभोगेषु ये नराः ।
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने ॥ १३.२२०.२६ ॥

嫉妒他人享受并加以折磨的人,行为如此者,啊吉祥的女神,在来世……

13.220.27

शेषव्याधियुतास्तत्र नरा धमनिसंतताः ।
भवन्त्येव नरा देवि पापकर्मोपभोगिनः ॥ १३.२२०.२७ ॥

在那里,那些人会患上残余的疾病,身上布满血管;女神啊,享受罪恶行为果报的人确实会变成这样。

13.220.28

भगवन्मानुषाः केचित्क्लिश्यन्ते कण्ठरोगिणः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२०.२८ ॥

尊贵的主啊,有些人因喉疾而受苦;由于哪种业报成熟而如此?请您告诉我。

13.220.29

ये पुरा मनुजा देवि परेषां रूपनाशनाः ।
आघातवधबन्धैश्च वृथा दण्डेन मोहिताः ॥ १३.२२०.२९ ॥

女神啊,往昔那些毁坏他人形貌的人,因殴打、杀害、捆绑及无谓的刑罚而迷惑……

13.220.30

इष्टनाशकरा ये तु अपथ्याहारदा नराः ।
चिकित्सका वा दुष्टास्च द्वेषलोभसमन्विताः ॥ १३.२२०.३० ॥

毁坏所爱之物、给予不宜饮食的人,或为恶劣的医者,怀有憎恨与贪欲的人……

13.220.31

निर्दयाः प्राणिहिंसायां मलदाश्चित्तनाशनाः ।
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ॥ १३.२२०.३१ ॥

冷酷而伤害众生者、施予污秽者、毁灭心智者,行为如此之人,将在善good的来世(投生)。

13.220.32

यदि वै मानुषं जन्म लभेरंस्तेषु दुःखिताः ।
अत्र ते क्लेशसंयुक्ताः कण्ठरोगशतैर्वृताः ॥ १३.२२०.३२ ॥

若得人身,则在其中受苦;于此世间,他们充满苦恼,被数百种喉病所困扰。

13.220.33

केचित्त्वग्दोषसंयुक्ता व्रणकुष्ठैश्च संयुताः ।
श्वित्रकुष्ठयुता वाऽपि बहुधा कृच्छ्रसंयुताः।
भवन्त्येव नरा देवि यथा तेन कृतं फलम् ॥ १३.२२०.३३ ॥

有些人患皮肤病,被溃疡和麻风所困扰,或患白癜风麻风;多种多样地陷于苦难,成为人,女神啊,正如他所作之业的果报。

13.220.34

भगवन्मानुषाः केचिदङ्गहीनाश्च पङ्गव ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२०.३४ ॥

世尊啊,有些人缺失肢体、跛足——是由何种业报的成熟所致?您应当为我宣说。

13.220.35

ये पुरा मनुजा देवि लोभमोहसमावृताः ।
प्राणिनां प्राणहिंसार्थमङ्गविघ्नं प्रकुर्वते।
शस्त्रेणोत्कृत्य वा देवि प्राणिनां चेष्टनाशकाः ॥ १३.२२०.३५ ॥

那些从前,女神啊,被贪欲与迷惑所蒙蔽的人,为了伤害众生的性命,而阻碍众生的肢体;用兵器切割,女神啊,毁灭众生的动作。

13.220.36

एवं युक्तसमाचाराः पुनर्जन्मनि शोभने ।
तदङ्गहीना वै प्रेत्य भवन्त्येव न संशयः।
स्वभावतो वा जाता वा पङ्गवश्च भवन्ति ते ॥ १३.२२०.३६ ॥

行为如此者,在来世善生中,死后必定缺失那些肢体,毫无疑问。有些人生来或天性便跛足。

13.220.37

भगवन्मानुषाः केचिद्ग्रन्थिभिः पिलकैस्तथा ।
क्लिश्यमानाः प्रदृश्यन्ते तन्मे शंसितुमर्हसि ॥ १३.२२०.३७ ॥

尊贵的主啊,可见有些人被疙瘩和脓疮折磨。请您向我说明此事。

13.220.38

ये पुरा मनुजा देवि ग्रन्थिभेदकरा नृणाम् ।
मुष्टिप्रहारपरुषा नृशंसाः पापकारिणः।
पाटकास्तोटकाश्चैव शूलतुन्नास्तथैव च ॥ १३.२२०.३८ ॥

女神啊,往昔那些破坏人身疙瘩、以拳击为严酷、残忍、作恶、撕裂、折断、并被长矛刺穿的人,同样……

13.220.39

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
ग्रन्थिभिः पिलकैश्चैव क्लिश्यन्ते भृशदुःखिताः ॥ १३.२२०.३९ ॥

行为如此者,在来世善生中,被疙瘩和脓疮所折磨,极为痛苦。

13.220.40

भगवन्मानुषाः केचित्पादरोगसमन्विताः ।
दृश्यन्ते सततं देव तन्मे शंसितुमर्हसि ॥ १३.२२०.४० ॥

尊贵的主啊,常见有些人患有足病。神啊,请您向我说明此事。

13.220.41

ये पुरा मनुजा देवि क्रोधलोभसमन्विताः ।
मनुजा देवतास्थानं स्वपादैर्भ्रंशयन्त्युत।
जानुभिः पार्ष्णिभिश्चैव प्राणिहिंसां प्रकुर्वते ॥ १३.२२०.४१ ॥

女神啊,往昔那些充满愤怒与贪婪的人,甚至用脚将神明之地踢倒;他们用膝与足跟伤害众生。

13.220.42

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
पादरोगैर्बहुविधैर्बाध्यन्ते विपदादिभिः ॥ १३.२२०.४२ ॥

美丽的女神啊,行为如此之人,在来世会被种种足疾以及灾祸等所折磨。

13.220.43

भगवन्मानुषाः केचिद्दृश्यन्ते बहवो भुवि ।
वातजैः पित्तजै रोगैर्युगपत्सान्निपातकैः ॥ १३.२२०.४३ ॥

尊贵的主啊,世间可见许多人饱受风病、胆病以及同时发作的混合性疾病之苦。

13.220.44

रोगैर्बहुविधैर्देव क्लिश्यमानाः सुदुःखिताः ।
असमस्तैः समस्तैश्च आढ्या वा दुर्गतास्तथा।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२०.४४ ॥

天神啊,那些饱受种种疾病折磨、深感痛苦、或部分或全身患病、富有或贫穷之人,是由于何种业报之果而如此?请你告诉我。

13.220.45

तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥ १३.२२०.४५ ॥

我将告诉你其中的原因;听着,吉祥的女神。

13.220.46

ये पुरा मनुजा देवि त्वासुरं भावमाश्रिताः ।
स्ववशाः कोपनपरा गुरुविद्वेषिणस्तथा ॥ १३.२२०.४६ ॥

女神啊,往昔那些依附阿修罗之性、任性而易怒、憎恶师长的人,也是如此。

13.220.47

परेषां दुःखजनका मनोवाक्कायकर्मभिः ।
छिन्दन्भिन्दन्स्तुदन्नेव नित्यं प्राणिषु निर्दयाः ॥ १३.२२०.४७ ॥

以心、口、身之业使他人受苦,斩击、破坏、刺伤,对众生始终无情。

13.220.48

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
यदि वै मानुषं जन्म लभेरंस्ते तथाविधाः।
तत्र ते बहुभिर्घोरैस्तप्यन्ते व्याधिभिः प्रिये ॥ १३.२२०.४८ ॥

若行为如此之人在吉祥的来世得生为人,那么,爱妻,他们在那里会被许多可怕的疾病折磨。

13.220.49

केचिद्वातादिसंयुक्ताः केचित्काससमन्विताः ।
ज्वरातिसारतृष्णाभिः पीड्यमानास्तथा परे ॥ १३.२२०.४९ ॥

有人患风病等疾,有人咳嗽,另一些人则为发热、腹泻与口渴所折磨。

13.220.50

पादगुल्मैश्च बहुभिः श्लेष्मदोषसमन्विताः ।
पादरोगैश्च विविधैर्व्रणकुष्ठभगंदरैः।
आढ्या वा दुर्गता वाऽपि दृश्यन्ते व्याधिपीडिताः। ॥ १३.२२०.५० ॥

患有许多足部肿块与痰病,各种足疾、疮疡、麻风与痔瘘,无论富贵或贫穷,都可见被疾病折磨。

13.220.51

एवमात्मकृतं कर्म भुञ्जन्ते तत्रतत्र ते ।
अभिभूतुं न शक्यं हि केनचित्स्वकृतं फलम्।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ १३.२२०.५१ ॥

如此,他们在各处享受自己所作之业的果报,因为无人能避免自己所造的果报。女神,我已如此告诉你;你还想再听什么?