摩诃婆罗多 · 章 13.227
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.227.1
भगवन्देवदेवेश कर्मणैव शुभाशुभम् ।
यथायोगं फलं जन्तुः प्राप्नोतीति विनिश्चयः ॥ १३.२२७.१ ॥
尊贵的主,诸神之主啊,众生唯依业行,依其相应而得善恶之果,这是确定的道理。
13.227.2
परेषां विप्रियं कुर्वन्यथा सम्प्राप्नुयाच्छुभम् ।
यद्येतदस्मिंश्चेद्देहे तन्मे शंसितुमर्हसि ॥ १३.२२७.२ ॥
人若对他人行不悦之事,又如何能得善果?若此身中确有此理,您应当为我讲说。
13.227.3
तदप्यस्ति महाभागे अभिसन्धिबलान्नृणम् ।
हितार्थं दुःखमन्येषां कृत्वा सुखमवाप्नुयात् ॥ १३.२२७.३ ॥
尊贵的女神啊,此事亦有:凭借意念之力,人为他人之利而使其受苦,便可获得快乐。
13.227.4
दण्डयन्भर्त्सयन्राजा जनान्पुण्यमवाप्नुयात् ।
गुरुः सन्तर्जयञ्शिष्यान्भर्ता भृत्यजनान्स्वकान्।
उन्मार्गप्रतिपन्नांश्च शास्ता धर्मफलं लभेत् ॥ १३.२२७.४ ॥
国王以刑罚斥责民众,便得功德;师长斥责弟子,主人斥责自己的仆役,统治者斥责误入歧途者,他们都得法之果报。
13.227.5
चिकित्सकश्च दुःखानि जनयन्हितमाप्नुयात् ।
यज्ञार्थं पशुहिंसां च कुर्वन्नपि न लिप्यते।
एवमन्ये सुमनसो हिंसकाः स्वर्गमाप्नुयुः ॥ १३.२२७.५ ॥
医者使人受苦而得益;为祭祀而杀牲者亦不沾染。同样,心存善念的其他伤害者亦得升天。
13.227.6
एकस्मिन्निहते भद्रे बहवः सुखमाप्नुयुः ।
तस्मिन्हते भवेद्धर्मः कुत एव तु पातकम् ॥ १३.२२७.६ ॥
吉祥的女神啊,一人被杀,众多之人得享安乐;若因其被杀而有法生起,那么罪从何来?
13.227.7
अहिंसतेति हत्वा तु शुद्धे कर्मणि गौरवात् ।
अभिसन्धेरजिह्मत्वाच्छुद्धे धर्मस्य गौरवात्।
एतत्कृत्वा तु पापेभ्यो न दोषं प्राप्नुयुः क्वचित् ॥ १३.२२७.७ ॥
以不杀生之名杀生,但在清净的仪式中,因法的重量与意图的正直,行此者从不因罪过而承担过失。
13.227.8
चतुर्विधानां जन्तूनां कथं ज्ञानमिह स्मृतम् ।
कृत्रिमं तत्स्वभावं वा तन्मे शंसितुमर्हसि ॥ १३.२२७.८ ॥
这里如何讲述四类众生的知识?它是人为的,还是本性的?你应当向我宣说。
13.227.9
स्थावरं जङ्गमं चैव जगद्द्विविधमुच्यते ।
चतस्रो योनयस्तत्र प्रजानां क्रमशो यथा ॥ १३.२२७.९ ॥
世界被称为两类:不动者与动者。其中依次有众生的四种胎生之源。
13.227.10
तेषामुद्भिदजा वृक्षा लतावल्ल्यश्च वीरुधः ।
दंशयूकादयश्चान्ये स्वेदजाः क्रिमिजातयः ॥ १३.२२७.१० ॥
其中,从萌芽而生者为树木、藤蔓、攀援植物与草药;蚊虻、虱子等,以及其他从汗气而生的虫类。
13.227.11
पक्षिणश्छिद्कर्णाश्च प्राणिनस्त्वण्डजा मताः ।
मृगव्यालमनुष्यांश्च विद्धि तेषां जरायुजान् ॥ १३.२२७.११ ॥
鸟类与断耳之类的有情被认为是卵生;鹿、猛兽与人则应知为胎生。
13.227.12
एवं चतुर्विधां जातिमात्मा संसृत्य तिष्ठति ॥ १३.२२७.१२ ॥
如此,自我在四种生类中轮转而住立。
13.227.13
स्पर्शेनैकेन्द्रियेणात्मा तिष्ठत्युद्भिदजेषु वै ।
शरीरस्पर्शरूपाभ्यां स्वेदजेष्वपि तिष्ठति ॥ १३.२२७.१३ ॥
душа借由唯一的触觉感官,存在于从土中萌发的生命之中;借由身体、触觉与形态,它也存在于由汗水所生的生命之中。
13.227.14
पञ्चभिश्चेन्द्रियद्वारैर्जीवन्त्यण्डजरायुजाः ॥ १३.२२७.१४ ॥
通过五种感官之门,卵生与胎生的生命得以存活。
13.227.15
तथा भूम्यम्बुसंयोगाद्भवन्त्युद्भिदजाः प्रिये ।
शीकतोष्णयोस्तु संयोगाज्जायन्ते स्वेदजाः प्रिये।
अण्डजाश्चापि जायन्ते संयोगात्क्लेदबीजयोः ॥ १३.२२७.१५ ॥
同样,由土与水相合,爱人啊,生出从土中萌发的生命;由寒与热相合,爱人啊,生出由汗水所生的生命;由湿润与种子相合,也生出卵生的生命。
13.227.16
शुक्लशोणितसंयोगात्सम्भवन्ति जरायुजाः ।
जरायुजानां सर्वेषां मानुषं पदमुत्तमम् ॥ १३.२२७.१६ ॥
由精与血相合,生出胎生的生命。在所有胎生者之中,人的境界最为殊胜。
13.227.17
अतःपरं तमोत्पत्तिं शृणु देवि समाहिता ।
द्विविधं हि तमो लोके शार्वरं देहजं तथा ॥ १३.२२७.१७ ॥
女神啊,请专心听我说黑暗的起源。世间的黑暗有两种:夜晚的黑暗,以及由身体所生的黑暗。
13.227.18
जोतिर्भिश्च तमो लोके नाशं गच्छति शार्वरम् ।
देहजं तु तमो लोके तैः समस्तैर्न शाम्यते ॥ १३.२२७.१८ ॥
在世间,夜晚的黑暗会被光明消除;但由身体所生的黑暗,即使借助所有这些光明,在世间也无法平息。
13.227.19
तमसस्तस्य नाशार्थं नोपायमधिजग्मिवान् ।
तपश्चचार वलिपुलं लोककर्ता पितामहः ॥ १३.२२७.१९ ॥
未能找到消除那黑暗的方法,创造世界的祖父以布满皱纹的身躯修行苦行。
13.227.20
चरतस्तु समुद्भूता वेदाः साङ्गाः सहोत्तराः ।
ताँल्लब्ध्वा मुमुदे ब्रह्मा लोकानां हितकाम्यया।
देहजं तु तमो घोरमभूत्तैरेव नाशितम् ॥ १३.२२७.२० ॥
他修苦行时,连同支分与补充部分的吠陀显现出来。梵天得到它们,出于对世界福祉的愿望而欢喜。由他身体所生的可怕黑暗,正是被它们消除的。
13.227.21
कार्याकार्यमिदं चेति वाच्यावाच्यमिदं त्विति ।
यदि चेन्न भवेल्लोके श्रुतं चारित्रदैशिकम्।
पसुभिर्निर्विशेषं तु चेष्टन्ते मानुषा अपि ॥ १३.२२७.२१ ॥
若世间没有教导行为的学问——“此可为,此不可为;此可言,此不可言”——那么人也会像牲畜一样不加分别地行事。
13.227.22
यज्ञादीनां समारम्भः श्रुतेनैव विधीयते ।
यज्ञस्य फलयोगेन देवलोकः समृद्ध्यते ॥ १३.२२७.२२ ॥
祭祀等事的开始,唯由吠陀所规定。通过获得祭祀的果报,天界得以繁盛。
13.227.23
प्रीतियुक्ताः पुनर्देवा मानुषाणां भवन्त्युत ।
एवं नित्यं प्रवर्धेते रोदसी च परस्परम् ॥ १३.२२७.२३ ॥
诸神再次欢喜,便对人类友善。如此,天与地便彼此不断增长。
13.227.24
लोकसन्धारणं तस्माच्छ्रुतमित्यवधारय ।
ज्ञानाद्विशिष्टं जन्तूनां नास्ति लोकत्रयेऽपि च ॥ १३.२२७.२४ ॥
因此你应当确知:是圣学支撑着世界。对众生而言,三界之中再没有比智慧更殊胜的。
13.227.25
सहजं तत्प्रधानं स्यादपरं कृत्रिमं स्मृतम् ।
उभयं यत्र सम्पन्नं भवेत्तत्र तु शोभनम् ॥ १३.२२७.२५ ॥
天性是根本,另一种则称为后天所成。二者兼备之处,才是善美。
13.227.26
सम्प्रगृह्य श्रुतं सर्वं कृतकृत्यो भवत्युत ।
उपर्युपरि मर्त्यानां देववत्सम्प्रकाशते ॥ १३.२२७.२६ ॥
若能完整领会所闻的一切,人便真正成就其事,在凡人之中愈加显耀,如同神明一般。
13.227.27
कामं क्रोधं भयं दर्पमज्ञानं चैव बुद्धिजम् ।
तच्छ्रुतं नुदति क्षिप्रं यथा वायुर्बलाहकान् ॥ १३.२२७.२७ ॥
所闻之学能迅速驱散欲望、愤怒、恐惧、傲慢以及由心智而生的无知,正如风吹散云朵。
13.227.28
अल्पमात्रं कृतो धर्मो भवेज्झानवतां महान् ।
महानपि कृतो धर्मो ह्यज्ञानान्निष्फलो भवेत् ॥ १३.२२७.२८ ॥
对有智慧的人而言,哪怕少量行持的法也会变得宏大;而在无知中行持的大法,则归于徒劳。
13.227.29
परावरझो भूतानां ज्ञानवांस्तत्वविद्भवेत् ।
एवं श्रुतफलं सर्वं कथितं ते शुभक्षणे ॥ १३.२२७.२९ ॥
能知晓众生之高下者,便成为有智慧、通达真理之人。如此,所闻之学的全部果报,已在这吉祥之时为你宣说。
13.227.30
भगवन्मानुषाः केचिज्जातिस्मरणसंयुताः ।
किमर्थमभिजायन्ते जानन्तः पौर्वदैहिकम्।
एतन्मे तत्वतो देव मानुषेषु वदस्व भो ॥ १३.२२७.३० ॥
尊贵的主啊,有些人具足宿命记忆。他们既知前世之身,为何仍要投生?天神啊,请就世人之事如实告诉我。
13.227.31
तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता ॥ १३.२२७.३१ ॥
因此我将告诉你,请专心聆听真理。
13.227.32
ये मृताः सहसा मर्त्या जायन्ते सहसा पुनः ।
तेषां पौराणिको बोधः कञ्चित्कालं हि तिष्ठति ॥ १३.२२७.३२ ॥
那些突然死去又突然再生的凡人,前世的觉知会保留一段时间。
13.227.33
तस्माज्जातिस्मरा लोके जायन्ते बोधसंयुताः ।
तेषां विवर्धतां संज्ञा स्वप्नवत्सा प्रणश्यति।
परलोकस्य चास्तित्वे मूढानां कारणं च तत् ॥ १३.२२७.३३ ॥
因此,在世上记得前世的人带着觉知出生。随着他们的觉知增长,那段记忆便如梦般消逝。这正是愚昧之人怀疑彼岸世界存在的原因。
13.227.34
भगवन्मानुषाः केचिन्मृता भूत्वाऽपि सम्प्रति ।
निवर्तमाना दृश्यन्ते देहेष्वेव पुनर्नराः ॥ १३.२२७.३४ ॥
尊贵的主啊,有些人虽已死去,如今却被看到归来,又以人的身体再次出现。
13.227.35
तदहं ते प्रवक्ष्यामि कारणं शृणु शोभने ॥ १३.२२७.३५ ॥
因此,光彩照人的你,我将告诉你其中的缘由,请听。
13.227.36
प्राणैर्वियुज्यमानानां बहुत्वात्प्राणिनां वधे ।
तथैव नामसामान्याद्यमदूता नृणां प्रति ॥ १३.२२७.३६ ॥
因为众生众多,在被杀害时气息断绝,同样因为名字相似,阎摩的使者便被派往凡人那里。
13.227.37
वहन्ति ते क्वचिन्मोहादन्यं मर्त्यं तु यामिकाः ।
निर्विकारं हि तत्सर्वं यमो वेद कृताकृतम् ॥ १३.२२७.३७ ॥
阎摩的使者有时因迷惑而带走另一个凡人;但阎摩无误地知晓一切已做与未做之事。
13.227.38
तस्मात्संयमनीं प्राप्य यमेनैकेन मोक्षिताः ।
पुनरेव निवर्तन्ते शेषं भोक्तुं स्वकर्मणः।
स्वकर्मण्यसमाप्ते तु निवर्तन्ते हि मानवाः ॥ १३.२२७.३८ ॥
因此,到达三眠尼并仅由阎摩释放的人,会再回来享受自己业报的剩余部分。若自己的业尚未完结,人便会返回。
13.227.39
भगवन्सुप्तमात्रेण प्राणिनां स्वप्नदर्शनम् ।
किं तत्स्वभावमन्यद्वा तन्मे शंसितुमर्हसि ॥ १३.२२७.३९ ॥
世尊,为何众生一入睡便会梦见?其本性是什么,或者另有缘由?请您为我宣说。
13.227.40
सुप्तानां तु मनश्चेष्टा स्वप्न इत्यभिधीयते ।
अनागतमतिक्रान्तं पश्यते सञ्चरन्मनः ॥ १३.२२७.४० ॥
睡眠者心神的活动称为梦。游荡的心能看见未来与已逝之事。
13.227.41
निमित्तं च भवेत्तस्मात्प्राणिनां स्वप्नदर्शनम् ।
एतत्ते कथितं देवि भूयः श्रोतु किमिच्छसि ॥ १३.२२७.४१ ॥
因此,众生之梦也可成为吉凶的征兆。女神,此事已为你宣说。你还想再听什么?