Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.23

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.23.1

श्रुत्वा तु वचनं मातुः क्रुद्धायास्ते भुजङ्गमाः ।
कृच्छ्रेणैवान्वमोदन्त केचिद्धित्वा दिशो गताः ॥ १३.२३.१ ॥

众蛇听到愤怒的母亲之言,其中一些勉强表示同意,另一些则离开了方位而去。

13.23.2

ये प्रतस्थुर्दिशस्तत्र क्रुद्धा तानशपद्भृशम् ।
भुजङ्गमानां माताऽसौ कद्रूर्वैरकरी तदा ॥ १३.२३.२ ॥

那些奔向那些方位的蛇,愤怒的蛇母、制造仇恨的迦都罗,当时便严厉地诅咒了它们。

13.23.3

उत्पत्स्यति हि राजन्यः पाण्डवो जनमेजयः ।
चतुर्थो धन्विनां श्रेष्ठात्कुन्तीपुत्राद्धनञ्जयात् ॥ १३.२३.३ ॥

般度之子、王者逝那闍耶(Janamejaya)将诞生,他是箭术最精的昆提之子达那阇耶之后的第四代。

13.23.4

स सर्पसत्रमाहर्ता क्रुद्धः कुरुकुलोद्वहः ।
तस्मिन्सत्रेऽग्निना युष्मान्पञ्चत्वमुपनेष्यति ॥ १३.२३.४ ॥

那承担俱卢家族重任的人,愤怒地主持蛇祭,在那祭祀中以火使你们走向死亡。

13.23.5

एवं क्रुद्धाऽशपन्माता पन्नगान्धर्मचारिणः ।
गुरोः परित्यागकृतं नैतदन्यद्भविष्यति ॥ १३.२३.५ ॥

愤怒的蛇母就这样诅咒了奉行法的众蛇:“这是因为你们背弃了师长(母亲),此外不会有别的。”

13.23.6

एवं शप्ता दिशः प्राप्ताः पन्नगा धर्मचारिणः ।
विहाय मातरं क्रुद्धा गता वैरकरीं तदा ॥ १३.२३.६ ॥

这样受咒的奉行法的众蛇前往各方;愤怒之下,它们便离开了制造仇恨的母亲而去。

13.23.7

तत्र ये वृजिनं तस्या अनापन्ना भुजङ्गमाः ।
ते तस्य वाजिनो वाला बभूवुरसितप्रभाः ॥ १३.२३.७ ॥

那里,未陷入她恶行的蛇变成了这匹马的黑色闪亮的毛发。

13.23.8

तान्दृष्ट्वा वालधिस्थांश्च पुत्रान्कद्रूरथाब्रवीत् ।
विनतामथ संहृष्टा हयोसौ दृश्यतामिति ॥ १३.२३.८ ॥

卡德鲁看见那些站在尾巴上的儿子,高兴地对毗娜塔说:"看那匹马。"

13.23.9

एकवर्णो न वा भद्रे पणो नौ सुव्यवस्थितः ।
उतकादुत्तरन्तं तं हयं चैव च भामिनि ॥ १३.२३.९ ॥

善良的女士,那匹马是单一颜色还是不是?让我们的赌约确定下来。光彩照人的女士,看那匹正从乌达卡河渡过来的马。

13.23.10

सा त्ववक्रमतिर्देवी विनता जिह्मगामिनीम् ।
अब्रवीद्भगिनीं किञ्चिद्विहसन्तीव भारत ॥ १३.२३.१० ॥

然而心地歪斜的天女毗娜塔,仿佛微笑着对她的姐妹说了几句,婆罗多啊。

13.23.11

हन्त पश्याव गच्छावः सुकृतो नौ पणः शुभे ।
दासी वा ते भविष्यामि त्वं वा दासी भविष्यसि ॥ १३.२३.११ ॥

来,我们去看看。我们的赌约已经立好了,吉祥的人:我将成为你的婢女,或者你将成为我的婢女。

13.23.12

एवं स्थिरं पणं कृत्वा हयं ते तं ददर्शतुः ।
कृत्वा साक्षिणमात्मानं भगिन्यौ कुरुसत्तम ॥ १३.२३.१२ ॥

如此立定赌约后,两姐妹看那匹马,库鲁中最优秀的人啊,她们以自己为见证。

13.23.13

सा दृष्ट्वैव हयं मन्दं विनता शोककर्शिता ।
श्वेतं चन्द्रांशुवालं तं कालवालं मनोजवम् ॥ १३.२३.१३ ॥

维纳塔因悲伤而憔悴,一见那匹缓慢的马,便望着它:它洁白,尾如月光,尾色黑,快如思念。

13.23.14

तत्र सा व्रीलिता वाक्यं विनता साश्रुबिन्दुका ।
उवाच कालवालोऽयं तुरगो विजितं त्वया ॥ १३.२३.१४ ॥

维纳塔羞愧地含泪说道:"这匹黑尾的马,已被你赢去了。"

13.23.15

दासी मां प्रेषय स्वार्थे यथा कामवशां शुभे ।
दास्यश्च कामकारा हि भर्तृणां नात्र संशयः ॥ १३.२३.१५ ॥

"美丽的人啊,请为了你的目的把我当作仆人派遣,就像一个受欲望支配的人;仆人本就听从主人的意愿,这一点毫无疑问。"