Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.233

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.233.1

बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ।
को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते ॥ १३.२३३.१ ॥

婆罗门啊,补鲁沙是众多还是只有一个?此中谁是最殊胜的补鲁沙,又何者被称为根源(yoni)?

13.233.2

बहवः पुरुषा लोके साङ्ग्ययोगविचारणे ।
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥ १३.२३३.२ ॥

在数论与瑜伽的探讨中,世间的补鲁沙是众多的;他们不认为这是唯一的补鲁沙,库鲁族之杰啊。

13.233.3

बहनां पुरुषाणां च यथैका योनिरुच्यते ।
तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ॥ १३.२३३.३ ॥

正如说多位补鲁沙只有一个根源(yoni),我将阐释那遍在的、德性更为殊胜的补鲁沙。

13.233.4

नमस्कृत्वा च गुरवे व्यासाय विदितात्मने ।
तपोयुक्ताय दान्ताय वन्द्याय परमपये ॥ १३.२३३.४ ॥

向知晓自我、具足苦行、自制且值得礼敬的导师毗耶娑致敬之后,我为至上的目的而言。

13.233.5

इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव ।
ऋतं सत्यं च विख्यातमृपिसिंहेन चिन्तितम् ॥ १३.२३३.५ ॥

大王啊,这首补鲁沙赞歌见于一切吠陀中;它被诸仙中的雄狮所思考,并以“理”(ṛta)与真理而闻名。

13.233.6

उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः ।
अध्यान्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ॥ १३.२३३.६ ॥

婆罗多之子啊,以迦毗罗等诸仙为首,依普遍规则与例外,依托对自我的沉思,宣说了诸论典。

13.233.7

समासतेस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् ।
तत्तेऽहं संप्रवक्ष्यामि प्रसादादमितौजसः ॥ १३.२३३.७ ॥

毗耶娑简要说过的“补鲁莎”之一性,我将凭无量威力者的恩典为你详细讲解。

13.233.8

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशांपते ॥ १३.२३३.८ ॥

此处人们也讲述这个古老的故事:梵天与三眼神(湿婆)的对话,人主啊。

13.233.9

क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः ।
वैजयन्त इति ख्यातः पर्वतप्रवरो नृप ॥ १३.२३३.९ ॥

在乳海之中,有一座如金光闪耀的山,名为伏阇衍多,是诸山之首,大王啊。

13.233.10

तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् ।
वैराजसदनान्नित्यं वैजयन्तं निपेवते ॥ १३.२३३.१० ॥

神独自在彼处深思内在精神之道,每日从毗罗遮之居所前往伏阇衍多山静修。

13.233.11

अथ तत्राऽऽसतस्तस्य चतुर्वक्रस्य धीमतः ।
ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया।
आकाशेन महायोगी पुरा त्रिनयनः प्रभुः ॥ १३.२३३.११ ॥

那时,智慧的四面梵天正坐于彼处,他额头所生之子湿婆——大瑜伽士、三眼之主——偶然经由天空而来。

13.233.12

ततः खान्निपपाताशु धरणीधरमूर्धनि ।
अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः ॥ १३.२३३.१२ ॥

随即他迅速从天空降落到山巅,在他面前欢喜地站立,并俯身礼拜他的双足。

13.233.15

त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम ।
कृशलं चाव्ययं चैव सर्वस्य जगतस्त्वथ ॥ १३.२३३.१५ ॥

蒙您的恩典,尊贵的大师,我的诵习与苦行,以及整个世界的安康,都保持良好且不衰。

13.233.16

चिरदृष्टोमि भगवन्वैराजसदने मया ।
ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् ॥ १३.२३३.१६ ॥

尊贵的大师,我很久没在毗罗阇的居所见到您了;于是我来到这座由您的双足所服侍的山上。

13.233.17

कौतूहलं चापि हि मे एकान्तगमनेन ते ।
नैतत्कारणमल्पं हि भविष्यति पितामह ॥ १३.२३३.१७ ॥

祖父啊,您独居静修,也令我心生好奇;其中的原因必定不小。

13.233.19

गन्धर्वैरेप्सरोभिश्च सततं संनिषेवितम् ।
उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि ॥ १३.२३३.१९ ॥

您离开了这座常有乾闼婆与天女侍奉的最殊胜的山,独自来到这里。

13.233.21

बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयंभुव ।
सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट् ॥ १३.२३३.२१ ॥

梵天啊,自生者啊,您创造了许多众生,还有其他的正在被创造;而那唯一的补鲁莎便是至尊毗罗阇。

13.233.22

को ह्यसौ चिन्त्यते ब्रह्मंस्त्वयैकः पुरुषोत्तमः ।
एतन्मे संशयं छिन्धि महत्कौतूहलं हि मे ॥ १३.२३३.२२ ॥

梵天啊,您独自思惟的那位至上补鲁莎是谁呢?请为我断除这疑惑吧,我的好奇心非常强烈。

13.233.24

आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते ।
बहूनां पुरुषाणां स यथैका योनिरुच्यते ॥ १३.२३३.२४ ॥

我将告诉你那唯一补鲁莎的依托,正如人们说多位补鲁莎只有一个根源。

13.233.26

अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः ।
भूयश्चैव वचः प्राह सृजेमा विविधाः प्रजाः ॥ १३.२३३.२६ ॥

于是哈里再次看见他具有智慧,又说了这些话:“创造这些种种众生吧。”

13.233.27

बाढमित्येव कृत्वाऽसौ यथाऽऽज्ञां शिरसा हरेः ।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधायत ॥ १३.२३३.२७ ॥

他说“好吧”,低头接受哈里的命令;说完这话,那位世尊就在那里隐去了。

13.233.28

प्राप चैनं मुहूर्तेन स्वं स्थानं देवसंज्ञितम् ।
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् ॥ १३.२३३.२८ ॥

顷刻之间,他到达了自己名为“天”的处所;并回到原初的本性,与之合一。

13.233.31

बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः ।
भविष्यन्ति तपोयुक्ता वरानप्राप्स्यन्ति चोत्तमान् ॥ १३.२३३.३१ ॥

大地上将有许多强大的提提耶、檀那婆和罗刹,他们具有苦行,并将获得殊胜的恩赐。

13.233.33

तत्र न्याय्यमिदं कर्तुं भारावतरणं मया ।
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम् ॥ १३.२३३.३३ ॥

在那里,我应当做这件事:减轻大地的重负;然后按次第,借助在大地上以种种方式出生的人们来完成。

13.233.35

मया ह्येषा हि ध्रियते पातालस्थेन भोगिना ।
तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः ॥ १३.२३३.३५ ॥

此大地确实由我借居于地下的蛇王所承托。因此我将降生,拯救大地。

13.233.37

वाराहं नारसिहं च वामनं मानुषं तथा ।
एभिर्मया निहन्तव्याः दुर्विनीताः सुरारयः ॥ १३.२३३.३७ ॥

借这些形象——野猪、人狮、矮人,以及人形——我当杀死那些骄横的诸神之敌。

13.233.38

अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् ।
सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत् ॥ १३.२३३.३८ ॥

于是世界的创造者使“bhoḥ”之声回响,高声诵出萨罗私伐底,于是萨罗私伐多出现了。

13.233.39

अपान्तरतमा नाम सुतो वाक्संभवः प्रभोः ।
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः ॥ १३.२३३.३९ ॥

名为阿般多罗陀摩的儿子,生于主之语言,通晓过去、现在、未来,言语真实,持戒坚定。

13.233.40

तमुवाच नतं मूर्ध्ना देवानामादिवरव्ययः ।
वेदाख्याने श्रुतिः कार्या त्वया मतिमतांवर ॥ १३.२३३.४० ॥

对向他低首行礼的人,诸神中首位、至高而不朽者说道:智者中最优秀者啊,在讲述吠陀时,你应遵循天启之闻(śruti)。

13.233.41

तस्मात्कुरु यथाज्ञप्तं ममैतद्वचनं मुने ।
तेन भिन्नास्तदा वेदा मनोः स्वायंभुवेन्तरे ॥ १३.२३३.४१ ॥

因此,哦,仙人,请遵照我的命令去做这件事。因此,那时在斯瓦扬布瓦摩奴的摩仙陀罗期,吠陀被分开了。

13.233.43

मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः ।
भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः ॥ १३.२३३.४३ ॥

儿啊,在诸摩奴期中,你将如此成为世界的推动者;婆罗门啊,你将永远不动摇、不可战胜。

13.233.44

पुनस्तिष्ये च संप्राप्ते कुरवो नाम भारताः ।
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि ॥ १३.२३३.४४ ॥

当提舍时代再度来临时,将有名为库卢的婆罗多族,成为大德之王,在大地上闻名。

13.233.45

तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति ।
परस्परविनाशार्थं त्वामृते द्विजसत्तम ॥ १३.२३३.४५ ॥

从你而生的他们之中,将会产生族群的分裂,导致彼此毁灭;只有你除外,最优秀的再生者啊。

13.233.47

धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा ।
भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे ॥ १३.२३३.४७ ॥

你将成为种种法的作者,也是知识的创造者;虽具苦行,你仍不能从欲望中解脱。

13.233.48

वीतरागश्च पुत्रस्ते परमात्मा भविष्यति ।
महेश्वरप्रसादेन नैतद्वचनमन्यथा ॥ १३.२३३.४८ ॥

你的儿子将成为离欲的至上我;凭大自在天的恩典,此言不虚。

13.233.49

यं मानसं वै प्रवदन्ति विप्राः ।
पितामहस्योत्तमबुद्धियुक्तम्।
वसिष्ठमग्र्यं च तपोनिधानं ।
यस्यातिसूर्यं व्यरिरिच्यते भाः ॥ १३.२३३.४९ ॥

婆施吒,婆罗门称他为梵天意生之子,具足最上智慧,最为殊胜,苦行的宝藏,其光辉超过太阳。

13.233.50

तस्यान्वपे चापि ततो महर्षिः ।
पराशरो नाम महाप्रभावः।
पिता स ते वेदनिधिर्वरिष्ठो ।
महातपा वै तपसो निवासः ॥ १३.२३३.५० ॥

此后出现了威力巨大的大仙帕拉舍罗。他是你的父亲:吠陀的宝库,最优秀者,大苦行者,苦行的居所。

13.233.51

कानीनगर्भः पितृकन्यकायां ।
तस्मादृषेस्त्वं भविता च पुत्रः ॥ १३.२३३.५१ ॥

你将从那位仙人处,于父亲的女儿腹中,以私生子之身而生为他的儿子。

13.233.54

अनादिनिधनं लोके चक्रहस्तं च मां मुने ।
अनुध्यानान्मम मुने नैतद्वचनमन्यथा।
भविष्यति महासत्व ख्यातिश्चाप्यतुला तव ॥ १३.२३३.५४ ॥

哦,仙人,在世间我无始无终,手持法轮。哦,仙人,因我的冥想,此言不会有假。哦,大力者,你的名声也将无与伦比。

13.233.56

यत्किंचिद्विद्यते लोके सर्वं तन्मद्विचेष्टितम् ।
अन्यो ह्यन्यं चिन्तयति स्वच्छन्दं विदधाम्यहम् ॥ १३.२३३.५६ ॥

世间所有存在之物,皆是我的所为。此人思念彼人;而我依自己的意志而决定。

13.233.57

एवं सारस्वतमृषिमपांतरतमं तथा ।
युक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत् ॥ १३.२३३.५७ ॥

如此,自在天对萨罗斯瓦塔仙人阿般荼罗摩说完这些话后,说道:“去完成它。”

13.233.58

सोहं तस्य प्रसादेन देवस्य हरिमेधसः ।
अपांतरतमो नाम्ना ततो जातोऽऽज्ञया हरेः ॥ १३.२३३.५८ ॥

我凭那位神哈里梅达斯的恩典,依毗湿奴之命,从那里以阿般荼罗摩之名而生。

13.233.62

त्रिराप्लुत्य जलाभ्यासे दत्त्वा ब्राह्मणदक्षिणाम् ।
अभ्यर्च्य देवायतनं ततः प्रायाद्यथागतम् ॥ १३.२३३.६२ ॥

在水中沐浴三次,向婆罗门布施,并在神庙中礼拜之后,然后应当从来时的路返回。

13.233.63

एतद्विधानं सर्वेषां तीर्थंतीर्थमिति प्रिये ।
समीपतीर्थस्नानात्तु दूरतीर्थं सुपूजितम् ॥ १३.२३३.६३ ॥

爱妻啊,此规则适用于所有圣渡口,每一处皆然。在近处的圣渡口沐浴,远处的圣渡口也同样得到了很好的尊崇。

13.233.64

आदिप्रभृतिशुद्धस्य तीर्थस्नानं शुभं भवेत् ।
तपोर्थं पापनाशार्थं शौचार्थं तीर्थगाहनम् ॥ १३.२३३.६४ ॥

对于自始清净之人,在圣渡口沐浴是吉祥的。入圣渡口沐浴是为了苦行、消除罪恶和清净。