摩诃婆罗多 · 章 13.235
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.235.1
भगवन्कानि देयानि धर्ममुद्दिश्य मानवैः ।
तान्यहं श्रोतुमिच्छामि तन्मे शंसितुमर्हसि ॥ १३.२३५.१ ॥
尊贵的主啊,人们为了法(dharma)应当布施哪些物品?我愿听闻,请您为我宣说。
13.235.2
अजस्रं धर्मकार्यं च तथा नैमित्तिकं प्रिये ।
अन्नं प्रतिश्रयो दीपः पानीयं तृणमिन्धनम् ॥ १३.२३५.२ ॥
爱妻啊,既有常恒的法之事,也有随缘而行的事:食物、住所、灯火、饮水、草料与薪柴。
13.235.3
स्नेहो गन्धश्च भैषज्यं तिलाश्च लवणं तथा ।
एवमादि तथाऽन्यश्च दानमाजस्रमुच्यते ॥ १३.२३५.३ ॥
油、香料、药物、芝麻与盐,如此等类及其他之物,都被称为常施之布施。
13.235.4
अजस्रदानात्सततमाजस्रमिति निश्चितम् ।
सामान्यं सर्ववर्णानां दानं शृणु समाहिता ॥ १३.२३५.४ ॥
因常施之布施,恒常之果必定成就,此为确定。通于一切种姓的布施,请专心听来。
13.235.5
अन्नं प्राणो मनुष्याणामन्नदः प्राणदो भवेत् ।
तस्माकदन्नं विशेषेण दातुमिच्छति मानवः ॥ १३.२३५.५ ॥
食物是人的生命;施食者即是施生者。因此人特别愿意布施食物。
13.235.6
ब्राह्मणायाभिरूपाय यो दद्यादन्नमीप्सितम् ।
निदधाति निधिं श्रेष्ठं सोऽनन्तं पारलौकिकम् ॥ १३.२३५.६ ॥
若将所求之食施予合格的婆罗门,便是积藏了最上的财宝,此财宝在来世是无尽的。
13.235.7
श्रान्तमध्वपरिश्रान्तमतिथिं गृहमागतम् ।
अर्चयीत प्रयत्नेन स हि यज्ञो वरप्रदः ॥ १३.२३५.७ ॥
疲惫地从路上来到家中的客人,应当尽力款待;他便是赐予恩惠的祭祀。
13.235.8
कृत्वा तु पातकं कर्म यो दद्यादन्नमर्थिनाम् ।
ब्राह्मणानां विशेषेण सोपहन्ति स्वकं तमः ॥ १३.२३५.८ ॥
若有人造下罪业之后,仍施食于求乞者,尤其是婆罗门,便能消除自身的黑暗。
13.235.9
पितरस्तस्य नन्दन्ति सुवृष्ट्या कर्षका इव ।
पुत्रो यस्य तु पौत्रो वा श्रोत्रियं भोजयिष्यति ॥ १३.२३५.९ ॥
若其子或孙供养博学的学者(śrotriya),其祖先便如农夫遇到好雨般欢喜。
13.235.10
अपि चण्डालशूद्राणामन्नदानं न गर्हते ।
तस्मात्सर्वप्रयत्नेन दद्यादन्नममत्सरः ॥ १३.२३५.१० ॥
即使施食给旃陀罗与首陀罗,也不受谴责;因此应当毫无嫉妒,竭尽全力施食。
13.235.11
कलत्रं पीडयित्वाऽपि पोषयेदतिथीन्सदा ।
जन्मापि मानुषे लोके तदर्थं हि विधीयते ॥ १३.२३५.११ ॥
即便使妻子受苦,也应始终供养宾客;因为人间之生也正是为此而定。
13.235.12
अन्नदानाच्च लोकांस्तान्सम्प्रवक्ष्याम्यनिन्दिते ।
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ॥ १३.२३५.१२ ॥
无瑕者啊,我将宣说因施食而得的那些世界;天上那些高尚者的宫殿辉耀着光明。
13.235.13
अनेकशतभौमानि सान्तर्जलवनानि च ।
वैडूर्यार्चिःप्रकाशपनि हेमरूप्यमयानि च ॥ १३.२३५.१३ ॥
数百层的宫殿,内有水域和树林,闪耀着吠琉璃的光辉,由金银制成。
13.235.14
नानारूपाणि संस्थानां नानारत्नमयानि च ।
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ॥ १३.२३५.१४ ॥
形态各异、由多种宝石制成、洁白如月轮、悬挂着铃铛网的宫殿。
13.235.15
तरुणादित्यवर्णानि स्थावराणि चराणि च ।
यथेष्टभक्ष्यभोज्यानि शयनासनवन्ति च ॥ १३.२३५.१५ ॥
颜色如初升太阳,有静止与可移动之分,饮食随心所欲,配有床榻与座席的宫殿。
13.235.16
सर्वकामफलाश्चात्र वृक्षा भवनसंस्थिताः ।
वाप्यो बह्व्यश्च कूपाश्च दीर्घिकाश्च सहस्रशः ॥ १३.२३५.१६ ॥
此处宫殿之中的树木结出一切所愿之果;还有成千上万的池塘、水井与长形水池。
13.235.17
अरुजानि विशोकानि नित्यानि विविधानि च ।
भवनानि विचित्राणि प्राणदानां त्रिविष्टपे ॥ १३.२३५.१७ ॥
无病无忧、永恒、形式多样而奇妙的宫殿,在三界之中为施予生命者而设。
13.235.18
विवस्वतश्च सोमस्य ब्रह्मणश्च प्रजापतेः ।
विशन्ति लोकांस्ते नित्यं जगत्यन्नोदकप्रदाः ॥ १३.२३५.१८ ॥
他们永远进入毗婆娑、月神、梵天与生主的世界——那些在世间施予食物与水的人。
13.235.19
तत्र ते सुचिरं कालं विहृत्याप्सरसां गणैः ।
जायन्ते मानुषे लोके सर्वकल्याणसंयुताः ॥ १३.२३५.१९ ॥
你们在那里与众阿普莎拉斯同游许久,然后降生于人间,具足一切吉祥。
13.235.20
बलसंहननोपेता नीरोगाश्चिरजीविनः ।
कुलीना मतिमन्तश्च भवन्त्यन्नप्रदा नराः ॥ १३.२३५.२० ॥
他们成为施予食物的人,具有力量与坚实的身体,无病,长寿,出身高贵,并且有智慧。
13.235.21
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता ।
सर्वकालं च सर्वस्य सर्वत्र च सदैव च ॥ १३.२३५.२१ ॥
因此,希望兴盛的人应当特别地、随时地、对所有人、在任何地方、永远施予食物。
13.235.22
सुवर्णदानं परमं स्वर्ग्यं स्वस्त्ययनं महत् ।
तस्मात्ते वर्णयिष्यामि यथावदनुपूर्वशः ॥ १३.२३५.२२ ॥
施予黄金是至上的,能导向天界,是伟大的吉祥仪式。因此我将依次为你如实说明。
13.235.23
अपि पापकृतं क्रूरं दत्तं रुक्मं प्रकाशयेत् ॥ १३.२३५.२३ ॥
即使曾作罪恶残忍之事,所施予的黄金也能使他光明(得以清净)。
13.235.24
सुवर्णं ये प्रयच्छन्ति श्रोत्रिभेभ्यः सुचेतसः ।
देवतास्ते तर्पयन्ति समस्ता इति वैदिकम् ॥ १३.२३५.२४ ॥
心地善良之人若将黄金施予通晓吠陀的婆罗门,便能使一切天神欢喜——这是吠陀之言。
13.235.25
अग्निर्हि देवताः सर्वाः सुवर्णं चाग्निरुच्यते ।
तस्मात्सुवर्णदानेन तृप्ताः स्युः सर्वदेवताः ॥ १३.२३५.२५ ॥
火即是一切神灵,黄金也被称为火。因此,以布施黄金,一切神灵皆得满足。
13.235.26
अग्न्यभावे तु कुर्वन्ति वह्निस्थानेषु काञ्चनम् ।
तस्मात्सुवर्णदातारः सर्वान्कामानवाप्नुयुः ॥ १३.२३५.२६ ॥
若无火,则人们将黄金置于火之处。因此,布施黄金者得遂一切所愿。
13.235.27
आदित्यस्य हुताशस्य लोकान्नानाविधाञ्शुभान् ।
काञ्चनं सम्प्रदायाशु प्रविशन्ति न संशयः ॥ १३.२३५.२७ ॥
布施黄金者迅速进入太阳与献祭之火的种种吉祥世界,此无疑义。
13.235.28
अलङ्कारं कृतं चापि केवलान्प्रविशिष्यते ।
सौवर्णैर्ब्राह्मणं काले तैरलङ्कृत्य भोजयेत् ॥ १३.२३५.२८ ॥
制成的饰物比单纯的黄金更为殊胜。在适当的时候,应以金器庄严婆罗门并供养他饭食。
13.235.29
य एतत्परमं दानं दत्त्वा सौवर्णमद्भुतम् ।
द्युतिं मेधां वपुः कीर्तिं पुनर्जाते लबेद्ध्रुवम् ॥ १३.२३५.२९ ॥
若有人布施此殊胜而奇妙的黄金之施,来世必得光明、智慧、身体与名声。
13.235.30
तस्मात्स्वशक्त्या दातव्यं काञ्चनं भुवि मानवैः ।
न ह्येतस्मात्परं लोकेष्वन्यत्पापात्प्रमुच्यते ॥ १३.२३५.३० ॥
故人当依自身能力于大地布施黄金。世间没有比这更殊胜的,人因此可脱离罪恶。
13.235.31
अत ऊर्ध्वं प्रवक्ष्यामि गवां दानमनिन्दिते ।
नहि गोभ्यः परं दानं विद्यते जगति प्रिये ॥ १३.२३५.३१ ॥
无瑕者啊,现在我将宣说布施牛的功德。爱人啊,世间没有比布施牛更高的布施。
13.235.32
लोकान्सिसृक्षुणा पूर्वं गावः सृष्टाः स्वयंभुवा ।
वृत्त्यर्थं सर्वभूतानां तस्मात्ता मातरः स्मृताः ॥ १३.२३५.३२ ॥
往昔,自存者欲创造诸世界,为了一切众生的生计而创造了牛,因此它们被称为母亲。
13.235.33
लोकज्येष्ठा लोकवृत्त्या प्रवृत्ता ।
मय्यायत्ताः सोमनिष्यन्दभूताः।
सौम्याः पुण्याः प्राणदाः कामदाश्च ।
तस्मात्पूज्याः पुण्यकामैर्मनुष्यैः ॥ १३.२३५.३३ ॥
世间的长者,为世间生计而运行,依赖于我,如同苏摩之流,温和、神圣、赐予生命、满足愿望。因此,求福德的人应当崇敬它们。
13.235.34
धेनुं दत्त्वा निभृतां सुशीलां ।
कल्याणवत्सां च पयस्विनीं च।
यावन्ति रोमाणि भवन्ति तस्या-
स्तावत्समाः स्वर्गफलानि भुङ्क्ते ॥ १३.२३५.३४ ॥
布施一头温顺、柔和、带着好牛犊、产奶丰足的母牛者,享受天界果报的年数等同于其身上毛发的数目。
13.235.35
प्रयच्छते यः कपिलां सचेलां ।
सकांस्यदोहां कनकाग्र्यशृङ्गीम्।
पुत्राश्च पौत्रांश्च कुलं च सर्व-
मासप्तमं तारयते परत्र च ॥ १३.२३५.३५ ॥
布施一头黄褐色、角端镶金、并附有布帛与铜制挤奶器的迦毗罗牛者,能在来世度脱自己的子孙、孙辈,以及直至第七代的整个家族。
13.235.36
अन्तर्जाताः क्रीतका द्यूतलब्धाः ।
प्राणक्रीताः सोदकाश्चौजसा वा।
कृच्छ्रोत्सृष्टाः पोषणार्थागताश्च ।
द्वारैरेतैस्ताः प्रलब्धाः प्रदद्यात् ॥ १३.२३५.३६ ॥
应当布施以这些方式获得的牛:家中所生的、购买的、博彩赢来的、以性命换来的、以水赠予的、强取的、遭困弃置的,或为求供养而来的。
13.235.37
कृसाय बहुपुत्राय श्रोत्रियायाहिताग्नये ।
प्रदाय नीरुजां धेनुं लोकान्प्राप्नोत्यनुत्तमान् ॥ १३.२३५.३७ ॥
若将无病的牛布施给身体瘦弱、多子的人,给精通吠陀的学者,或给守护圣火者,便可获得至上的诸界。
13.235.38
नृशंसस्य कृतघ्नस्य लुब्धस्यानृतवादिनः ।
हव्यकव्यव्यपेतस्य न दद्याद्गाः कथञ्चन ॥ १३.२३५.३८ ॥
决不可将牛以任何方式布施给残忍、忘恩、贪婪、说谎,或弃绝天神与祖先供奉的人。
13.235.39
समानवत्सां यो दद्याद्धेर्नुं विप्रे पयस्विनीम् ।
सुवृत्तां वस्त्रसंछन्नां सोमलोके महीयते ॥ १३.२३५.३९ ॥
若将一头与小牛同色、产奶、温顺并覆以布匹的母牛布施给婆罗门,便会在月神之界受到尊崇。
13.235.40
समानवत्सां यो दद्यात्कृष्णां धेनुं पयस्विनीम् ।
सुवृत्तां वस्त्रसंछन्नां लोकान्प्राप्नोत्यपांपतेः ॥ १३.२३५.४० ॥
若布施一头与小牛同色、黑色、产奶、温顺并覆以布匹的母牛,便可获得水主伐楼那的诸界。
13.235.41
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसम्पन्नां यान्ति कौकबेरसद्मनः ॥ १३.२३५.४१ ॥
布施一头金色、眼睛呈黄褐色、带着小牛、配有青铜挤奶器、以布装饰的母牛,人便可前往俱毗罗的居所。
13.235.42
वायुरेणुसवर्मां च सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसम्पन्नां वायुलोके महीयते ॥ १३.२३५.४२ ॥
施舍一头披着如风尘般覆被、带着小牛与铜制挤奶器、并备有衣物的母牛者,将在风神(Vāyu)的世界受到尊崇。
13.235.43
समानवत्सां यो धेनुं दत्त्वा गौरीं पयस्विनीम् ।
सुवृत्तां वस्त्रसंछन्नामग्निलोके महीयते ॥ १३.२३५.४३ ॥
施舍一头同类小牛相伴、洁白、多乳、体态端正、覆以布帛的母牛者,将在火神(Agni)的世界受到尊崇。
13.235.44
युवानं बलिनं श्यामं शतेन सह यूथपम् ।
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलंकृतम् ॥ १३.२३५.४४ ॥
应将一头年轻、强壮、黑色、为百头牛之群首、牛中之王、饰有众多牛角的公牛,施予婆罗门中最尊贵者。
13.235.45
ऋषभं ये प्रयच्छन्ति श्रोत्रियाणां महात्मनाम् ।
ऐश्वर्यमभिजायन्ते जायमानाः पुनःपुनः ॥ १३.२३५.४५ ॥
施舍公牛予有大德的博学婆罗门者,将一再投生,并在每次出生时获得尊荣与权力。
13.235.46
गवां मूत्रपुरीषाणि नोद्विजेन कदाचन ।
न चासां मांसमश्नीयाद्गोषु भक्तः सदा भवेत् ॥ १३.२३५.४६ ॥
对牛的尿与粪,绝不可心生厌恶,也不可食用其肉;应当始终对牛虔诚。
13.235.47
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं शुचि ।
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥ १३.२३५.४७ ॥
应当一年之中保持清净,将一把草料施予他人的母牛,而自己不进食(即禁食);此誓能成就一切愿望。
13.235.48
गवामुभयतः काले नित्यं स्वस्त्ययनं वदेत् ।
न चासां चिन्तयेत्पापमिति धर्मविदो विदुः ॥ १३.२३५.४८ ॥
对于牛,应当在早晚两时常念吉祥祝福之语,且不应对它们生起罪恶之念——知法者如是说。
13.235.49
गावः पवित्रं परमं गोषु लोकाः प्रतिष्ठिताः ।
कथञ्चिन्नावमन्तव्या गावो लोकस्य मातरः ॥ १३.२३५.४९ ॥
牛极为清净;诸世界安立于牛之中。无论如何不可轻视牛,因为牛是世间的母亲。
13.235.50
तस्मादेव गवां दानं विशिष्टमिति कथ्यते ।
गोषु पूजा च भक्तिश्च नरस्यायुष्यतां वहेत् ॥ १३.२३५.५० ॥
因此说布施牛尤为殊胜;对牛的供养与虔敬能为人带来长寿。
13.235.51
अतःपरं प्रवक्ष्यामि भूमिदानं महाफलम् ।
भूमिदानसमं दानं लोके नास्तीति निश्चयः ॥ १३.२३५.५१ ॥
接下来我将说明能结大果的布施土地;世间没有与布施土地相等的布施——这是确定的。
13.235.52
गृहयुक्क्षेत्रयुग्वाऽपि भूमिभागः प्रदीयते ।
सुखभोगं निराक्रोशं वास्तुपूर्वं प्रकल्प्य च ॥ १३.२३५.५२ ॥
也可布施附有房屋或田地的土地;从宅基开始,安排妥当,使其能安乐受用而无烦扰。
13.235.53
ग्रहीतारमलङ्कृत्य वस्त्रपुष्पानुलोपनैः ।
सभृत्यं सपरीवारं भोजयित्वा यथेष्टतः।
यो दद्याद्दक्षिणां काले त्रिरद्भिर्गृह्यतामिति ॥ १३.२३५.५३ ॥
施主以衣服、花朵与香油装饰受施者,随其所愿与其侍从眷属共同供养饮食,于适当时候奉上布施,并以水三次说道:「请接受此物。」
13.235.54
एवं भूम्यां प्रदत्तायां श्रद्धया वीतमत्सरैः ।
यावत्तिष्ठति सा भूमिस्तावद्दत्तफलं विदुः ॥ १३.२३५.५४ ॥
如此,若无嫉妒之人以信心施舍土地,则施舍之果报便与大地长存,智者如是知晓。
13.235.55
भूमिदः स्वर्गमारुह्य रमते शाश्वतीः समाः ।
अचला ह्यक्षया भूमिः सर्वकामान्दुधुक्षति ॥ १३.२३५.५५ ॥
施舍土地之人升入天界,永享无尽岁月的快乐;因为不动、不灭的大地如乳牛一般满足一切愿望。
13.235.56
यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्शितः ।
अपि गोकर्णमात्रेण भूमिदानन मुच्यते ॥ १३.२३५.५६ ॥
凡因生计所困之人所犯的任何罪过,即便施舍一块牛耳大小的土地,也能得解脱。
13.235.57
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च ।
सर्वमेतन्महाभागे भूमिदाने प्रतिष्ठितम् ॥ १३.२३५.५७ ॥
金、银、衣物、宝石、珍珠与财富——大福之人啊,这一切都建立在施舍土地之中。
13.235.58
भर्तुर्निः श्रेयसे युक्तास्त्यक्तात्मानो रणे हताः ।
ब्रह्मलोकाय संसिद्धा नातिक्रामन्ति भूमिदम् ॥ १३.२३५.५८ ॥
为主人的至善而奉献、舍弃生命战死沙场者,得以成就并往生梵天界;然而他们并不能超越施舍土地之人。
13.235.59
हलकृष्टां महीं दद्यात्सर्वबीजफलान्विताम् ।
सुकूपशरणां वाऽपि सा भवेत्सर्वकामदा ॥ १३.२३५.५९ ॥
应施予以犁耕作、具备各种种子与果实的土地,或以良井为依托的土地;此等土地能满足一切愿望。
13.235.60
निष्पन्नसस्यां पृथिवीं यो ददाति द्विजन्मनाम् ।
विमुक्तः कलुषैः सर्वैः शकलोकं स गच्छति ॥ १३.२३५.६० ॥
施予二生者满是成熟庄稼的土地者,脱离一切污秽,往生帝释天界。
13.235.61
यथा जनित्री क्षीरेणि स्वपुत्रमभिवर्धयेत् ।
एवं सर्वफलैर्भूमिर्दातारमभिवर्धयेत् ॥ १३.२३५.६१ ॥
如母以乳哺育己子,大地以一切果实增益施主。
13.235.62
ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम् ।
ग्राहयित्वा निजां भूमिं न यान्ति यमसादनम् ॥ १३.२३५.६२ ॥
将自己的田地交予德行具足、供奉圣火、持守净戒的婆罗门者,不往阎摩之居。
13.235.63
यथा चन्द्रमसो वृद्धिरहन्यहनि दृश्यते ।
तथा भूमेः कृतं दानं सस्येसस्ये विवर्धते ॥ १३.२३५.६३ ॥
如月亮的盈长日日可见,施予土地之功德随每一季庄稼而增长。
13.235.64
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले ।
तथा कामाः प्ररोहन्ति भूमिदानगुणार्जिताः ॥ १३.२३५.६४ ॥
如种子散落地上而生芽,以施地之功德所得之愿望也如是萌发。
13.235.65
पितरः पितृलोकस्था देवताश्च दिवि स्थिताः ।
सन्तर्पयन्ति भोगैस्तं यो ददाति वसुन्धराम् ॥ १३.२३५.६५ ॥
居于祖界之祖先与住于天界之诸神,以享乐令施予大地者满足。
13.235.66
दीर्घायुष्यं वराङ्गत्वं स्फीतां च श्रियमुत्तमाम् ।
परत्र लभते मर्त्यः सम्प्रदाय वसुन्धराम् ॥ १३.२३५.६६ ॥
凡人若布施大地,便能在来世获得长寿、殊胜的身体以及丰厚至上的福德。
13.235.67
एतत्सर्वं मयोद्दिष्टं भूमिदानस्य यत्फलम् ।
श्रद्दधानैर्नरैर्नित्यं श्राव्यमेतत्सनातनम् ॥ १३.२३५.६७ ॥
布施大地的全部福报,我已宣说。有信之人应当常常闻听此永恒的教导。
13.235.68
अतः परं प्रवक्ष्यामि कन्यादानं यथाविधि ।
कन्या देया महादेवि परेषामात्मनोपि वा ॥ १३.२३५.६८ ॥
接下来我将依规则宣说施予少女之法。大天神啊,少女应当施予他人,或由自己施予。
13.235.69
कन्यां शुद्धव्रताचारां कुलरूपसमन्विताम् ।
यस्मै दित्सति पात्राय तेनापि भृशकामिताम् ॥ १३.२३५.६९ ॥
具清净戒行与品德、出身良好且容貌端正的少女,即使是想要施予的那位合适受施者,也应当深深地珍视她。
13.235.70
प्रथमं तत्समाकल्प्य बन्धुभिः कृतनिश्चयः ।
कारयित्वा गृहं पूर्वं दासीदासपरिच्छदैः ॥ १३.२३५.७० ॥
先与亲族商定,预先建造一座配备男女仆人与器物的房屋,并加以安排。
13.235.71
गृहोपकरणैश्चैव पशुधान्येन संयुताम् ।
तदर्थिने तदर्हाय कन्यां तां समलङ्कृताम् ॥ १३.२३५.७१ ॥
这位装饰得体、备有家用器具、牲畜与五谷的少女,应当施予那位求娶她且配得上她的人。
13.235.72
सविवाहं यथान्यायं प्रचच्छेदग्निसाक्षिकम् ।
वृत्त्यातीं यथा कृत्वा सद्गृहे तौ निवेशयेत् ॥ १३.२३५.७२ ॥
依法行婚礼,以火神为证,应行嫁女之礼;使其有生计之资,然后让二人安居于良好的家庭。
13.235.73
एवं कृत्वा वधूदानं तस्य दानस्य गौरवात् ।
प्रेत्यभावे महीयेत स्वर्गलोके यथासुखम् ॥ १३.२३५.७३ ॥
如此行嫁女之施者,因此施之尊贵,死后将在天界受到尊崇,享受安乐。
13.235.74
पुनर्जातस्य सौभाग्यं कुलवृद्धिं तथाऽऽप्नुयात् ॥ १३.२३५.७४ ॥
再度投生者,亦将获得福运与家族的兴旺。
13.235.75
विद्यादानं तथा देवि पात्रभूताय वै ददत् ।
प्रेत्यभावे लभेन्मर्त्यो मेधां वृद्धिं धृतिं स्मृतिम् ॥ १३.२३५.७५ ॥
女神啊,同样,凡人若将知识之施予值得之人,死后便能获得智慧、增长、坚定与记忆。
13.235.76
अनुरूपाय शिष्याय यश्च विद्यां प्रयच्छति ।
यथोक्तस्य प्रदानस्य फलमानन्त्यमश्नुते ॥ १३.२३५.७६ ॥
凡将知识传授于合适弟子者,将无尽地享受所述布施之果报。
13.235.77
दापनं त्वथ विद्यानां दरिद्रेभ्योऽर्थवेदनैः ।
स्वयं दत्तेन तुल्यं स्यादिति विद्धि शुभानने ॥ १३.२३५.७७ ॥
然而,善颜者啊,你当知道:以财物使贫者得受知识之施,与自己亲自施予同等。
13.235.78
एवं ते कथितान्येव महादानानि मानिनि ।
त्वत्प्रियार्थं मया देवि भूयः श्रोतुं किमिच्छसि ॥ १३.२३५.७८ ॥
如此,我已向你讲述了大施舍,尊贵的女士。女神,为了你所珍爱之事,你还想再听什么?