摩诃婆罗多 · 章 13.236
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.236.1
भगवन्देवदेवेश कथं देयं तिलान्वितम् ।
तस्य तस्य फलं ब्रूहि दत्तस्य च कृतस्य च ॥ १३.२३६.१ ॥
尊贵的主,神中之神,应当如何以芝麻施舍?请告诉我每样的果报,包括所施与所作的。
13.236.2
तिलकल्पविधिं देवि तन्मे शृणु समाहिता ॥ १३.२३६.२ ॥
女神啊,请专心听我说明芝麻仪式(tila-kalpa)的规则。
13.236.3
समृद्धैरसमृद्धैर्वा तिला देया विशेषतः ।
तिलाः पवित्राः पापघ्नाः सुपुण्या इति संस्मृताः ॥ १३.२३६.३ ॥
无论富裕与否,都应特别施舍芝麻。芝麻被称为清净、能除罪、极具功德。
13.236.4
न्यायतस्तु तिलाञ्शुद्धान्संहृत्याथ स्वशक्तिनः ।
तिलराशिं पुनः कुर्यात्पर्वाताभं सुरस्नकम्।
महान्तं यदि वा स्तोकं नानाद्रव्यसमन्वितम् ॥ १३.२३६.४ ॥
依自己的能力合法地收集洁净的芝麻后,应再堆成一座如山般的芝麻堆,犹如诸神的浴场,无论大小,并配以各种物品。
13.236.5
सुवर्णरजताभ्यां च मणिमुक्ताप्रवालकैः ।
अलङ्कृत्य यथायोगं सपताकं सवेदिकम्।
सभूषणं सवस्त्रं च शयनासनसंमितम् ॥ १३.२३६.५ ॥
按照适宜,以金银、宝石、珍珠和珊瑚加以装饰,附以旗幡与祭坛,配以饰物与布帛,大小与床榻和座位相称。
13.236.6
प्रायशः कौमुदीमासे पौर्णमास्यां विशेषतः ।
भोजयित्वा च विधिवद्ब्राह्म्णानर्हतो बहून् ॥ १३.२३६.६ ॥
通常在求穆迪月,尤其在满月之日,依仪轨供养众多值得尊敬的婆罗门之后。
13.236.7
स्वयं कृतोपवासश्च वृत्तशौचसमन्वितः ।
दद्यात्प्रदक्षिणीकृत्य तिलराशिं सदक्षिणम् ॥ १३.२३६.७ ॥
自己禁食,具备良好品行与清净,绕行之后,连同布施(达克希纳)施予一堆芝麻。
13.236.8
एकस्यापि बहूनां वा दातव्यं भूतिमिच्छता ।
तस्य दानफलं देवि अग्निष्टोमेन संयुतम् ॥ १३.२३६.८ ॥
欲求富足者,应施予一人或多人;天神啊,此布施之果与阿格尼什托摩祭相等。
13.236.9
केवलं वा तिलैरेव भूमौ कृत्वा गवाकृतिम् ।
सवस्त्रकं सरत्नं च पुंसा गोदानकाङ्क्षिणा।
तदर्हाय प्रदातव्यं तस्य गोदानतः फलम् ॥ १३.२३६.९ ॥
或者只用芝麻在地上做成牛的形状,连同衣物与宝石,欲行牛施的人应施予相称者;其果报即牛施之果报。
13.236.10
शरावांस्तिलसम्पूर्णान्सहिरण्यान्सचम्पकान् ।
नृपोऽददद्ब्राह्मणाय सु पुण्यफलभाग्भवेत् ॥ १३.२३६.१० ॥
国王若将盛满芝麻的陶碗,连同黄金与金色花(champaka),施予婆罗门,便能分享功德之果。
13.236.11
एवं तिलमयं देयं नरेण हितमिच्छता ।
नानादानफलं भूयः शृणु देवि समाहिता ॥ १३.२३६.११ ॥
如此,欲求福利之人应施予芝麻所做之布施;天神啊,现在请专心听取种种布施的果报。
13.236.12
बलमायुष्यमारोग्यमन्नदानाल्लभेन्नरः ।
पानीयदस्तु सौभाग्यं रसज्ञानं लभेन्नरः ॥ १३.२३६.१२ ॥
以布施食物,人得力量、长寿与健康;施予水者得吉祥与辨味之智。
13.236.13
वस्त्रदानाद्वपुःशोभामलङ्कारं लभेन्नरः ।
दीपदो बुद्धिवैशद्यं द्युतिशोभां लभेन्नरः ॥ १३.२३६.१३ ॥
施舍衣物的人获得身体的美丽与装饰;施舍灯火的人获得智慧的清明与光辉的庄严。
13.236.14
राजपीडाविमोक्षं तु छत्रदो लभते फलम् ।
दासीदासप्रदानात्तु भवेत्कर्मान्तभाङ्नरः।
दासीदासं च विविधं लभेत्प्रेत्य गुणान्वितम् ॥ १३.२३६.१४ ॥
施舍伞盖的人获得免除君王苦难的果报;施舍男女仆役的人得以完成其事业,死后获得各种具备善德的男女仆役。
13.236.15
यानानि वाहनं चैव तदर्हाय ददन्नरः ।
पादरोगपरिक्लेशान्मुक्तः श्वसनवाहवान्।
विचित्र रमणीयं च लभते यानवाहनम् ॥ १३.२३६.१५ ॥
人若将车乘与坐骑施予配得之人,便脱离足疾的苦恼,得到奇妙可爱、骏马如风的车乘与坐骑。
13.236.16
प्रतिश्रयप्रदानं च तदर्हाय तदिच्छते ।
वर्षाकाले तु रात्रौ वा लभेत्पक्षबलं शुभम् ॥ १३.२३६.१६ ॥
施舍住所给配得之人,以及给愿望者;于雨季或夜间,可获得吉祥的羽翼之力。
13.236.17
सेतुकूपतटाकानां कर्ता तु लभते नरः ।
दीर्घायुष्यं च सौभाग्यं तता प्रेत्य गतिं शुभां ॥ १३.२३६.१७ ॥
修建桥梁、水井与池塘的人,获得长寿与福运,死后获得吉祥的去处。
13.236.18
वृक्षसंरोपको यस्तु छायापुष्पफलप्रदः ।
प्रेत्यभावे लभेत्पुण्यमभिगम्यो भवेन्नरः ॥ १३.२३६.१८ ॥
种植树木、给予荫蔽、花与果实的人,死后获得福德,并在众人之中受到亲近和尊敬。
13.236.19
यस्तु सङ्क्रमकृल्लोके नदीषु जलहारिणाम् ।
लभेत्पुण्यफलं प्रेत्य व्यसनेभ्यो विमोक्षणम् ॥ १३.२३६.१९ ॥
在世间为在河中担水之人修建渡口者,死后获得功德之果,并从灾难中解脱。
13.236.20
मार्गकृत्सततं मर्त्यो भवेत्सन्तानवान्नरः ।
कायदोषविमुक्तस्तु तीर्थकृत्सततं भवेत् ॥ १३.२३६.२० ॥
常修道路之人得有子嗣;修建圣渡者则脱离身体的过失,常保清净。
13.236.21
औषधानां प्रदानात्तु सततं कृपयाऽन्वितः ।
भवेद्व्याधिविहीनश्च दीर्घायुश्च विशेषतः ॥ १३.२३६.२१ ॥
常怀慈悲施予药物者,免于疾病,尤其得享长寿。
13.236.22
अनाथान्पोषयेद्यस्तु कृपणान्धकपङ्गुकान् ।
स च पुण्यफलं प्रेत्य लभते कृच्छ्रमोक्षणम् ॥ १३.२३६.२२ ॥
供养孤苦、贫穷、盲者与跛者之人,死后获得功德之果,并脱离苦难。
13.236.23
वेदगोष्ठाः शुभाः शाला भिक्षूणां च प्रतिश्रयम् ।
यः कुर्याल्लभते नित्यं नरः प्रेत्य फलं शुभम् ॥ १३.२३६.२३ ॥
为诵读吠陀建造吉祥的厅堂,为比丘建造住所者,死后常得吉祥之果。
13.236.24
प्रासादवासं विविधं यक्षशोभां लभेत्पुनः ।
विविधं विविधाकारं भक्ष्यभोज्यगुणान्वितम् ॥ १३.२३६.२४ ॥
他又得以居住在种种楼阁之中,获得夜叉般的光彩,形态各异,具备饮食的种种美妙。
13.236.25
रम्यं तं दैवगोवाटं यः कुर्याल्लभते नरः ।
प्रेत्य भावे शुभां जातिं व्याधिमोक्षं तथैव च ॥ १३.२३६.२५ ॥
建造那座可爱神圣牛栏的人,死后将获得吉祥的出生与摆脱疾病。
13.236.26
एवं नानाविधं द्रव्यं दानकर्ता लभेत्फलम् ॥ १३.२३६.२६ ॥
如此,布施种种财物的人便获得其果报。
13.236.27
कृतं दत्तं यथा यावत्तस्य तल्लभते फलम् ।
एतन्मे देवदेवेश तत्र कौतूहलं महत् ॥ १३.२३६.२७ ॥
他所作所施,多少与如何,他如何获得其果报?天神之主啊,我对此极为好奇。
13.236.28
प्रेत्यिभावे शृणु फलं दत्तस्य च कृतस्य च ।
दानं षङ्गुणयुक्तं तु तदर्हाय यथाविधिः।
यथाविभवतो दानं दातव्यमिति मानवैः ॥ १३.२३६.२८ ॥
请听死后所施与所作之果报。具足六种功德的布施,人应依规则,按自己的财力,施予值得之人。
13.236.29
बुद्धिमायुष्यमारोग्यं बलं भाग्यं तथाऽऽगमम् ।
रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम् ॥ १३.२३६.२९ ॥
智慧、长寿、健康、力量、福运与财富的到来——以此七种形式,人身必定结出果实。
13.236.30
इदं दत्तमिदं देयमित्येवं फलकाङ्क्षया ।
यद्दत्तं तत्तदेव स्यान्न तु किञ्चन लभ्यते ॥ १३.२३६.३० ॥
若怀着求果之心而想着“这已施予,这应当施予”,所施之物便只是所施之物而已;由此毫无所得。
13.236.31
ध्रुवं देव्यत्तमे दानं मध्यमे त्वधमं फलम् ॥ १३.२३६.३१ ॥
女神啊,上等的布施必得上等的果报,中等的布施则得最低的果报。