摩诃婆罗多 · 章 13.237
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.237.1
भगवन्देवदेवेश विशिष्टं यज्ञमुच्यते ।
लौकिकं वैदिकं चैव तन्मे शंसितुमर्हसि ॥ १३.२३७.१ ॥
尊贵的神中之神啊!据说祭祀是殊胜的。请为我讲说世俗的祭祀与吠陀的祭祀。
13.237.2
देवतानां तु पूजा या यज्ञेष्वेव समाहिता ।
यज्ञा वेदेष्वधीताश्च वेदा ब्राह्मणसंयुताः ॥ १३.२३७.२ ॥
对诸神的供奉唯在祭祀之中确立。祭祀在吠陀中被学习,而吠陀与梵书相连。
13.237.3
इदं तु सकलं दिव्यं दिवि वा भुवि वा प्रिये ।
यज्ञार्थं विद्धि तत्सृष्टं लोकानां हितकाम्यया ॥ १३.२३७.३ ॥
爱人啊!你当知道,天上地下这一切神圣的造化,都是为了祭祀而创造的,出于对众世界福祉的愿望。
13.237.4
एवं विज्ञाय तत्कर्ता सदारः सततं द्विजः ।
प्रेत्यभावे लभेल्लोकान्ब्रह्मकर्मसमाधिना ॥ १३.२३७.४ ॥
明白此理的再生者,与妻子一同、恒常行之,死后当以专注于梵行之仪而获得诸世界。
13.237.5
ब्राह्मणेष्वेव तद्ब्रह्म नित्यं देवि समाहितम् ।
तस्माद्विप्रैर्यथाशास्त्रं विधिदृष्टेन कर्मणा ॥ १३.२३७.५ ॥
女神啊,那梵常住于婆罗门之中。因此婆罗门应依据经典,以规定之仪轨行事。
13.237.6
यज्ञकर्मि कृतं सर्वं देवता अभितर्पयेत् ।
ब्राह्मणाः क्षत्रियाश्चैव यज्ञार्थं प्रायशः स्मृताः ॥ १३.२३७.६ ॥
行祭者所作的一切,都应使诸神完全满足。婆罗门与刹帝利大多被认为是为祭祀而设的。
13.237.7
अग्निष्टोमादिभिर्यज्ञैर्वेदेषु परिकल्पितैः ।
सुशुद्धैर्यजमानैस्च ऋत्विग्भिश्च यथाविधिः।
शुद्धैर्द्रव्योपकरणैर्यष्टव्यमिति निश्चयः ॥ १३.२३७.७ ॥
应依吠陀所规定的阿耆尼通摩等祭祀,由充分清净的施祭者与祭司,依规则,以清净的物品与器具而行祭:这是确定的结论。
13.237.8
तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत् ।
तुष्टेषु सर्वदेवेषु यज्वा यज्ञफलं लभेत् ॥ १३.२३७.८ ॥
如此举行祭祀,诸神便得满足;诸神皆满足时,施祭者便获得祭祀的果报。
13.237.9
देवाः सन्तोषिता यज्ञैर्लोकान्संवर्धयन्त्युत ।
उभयोर्लोकयोर्भूतिर्देवि यज्ञे प्रदृश्यते ॥ १३.२३७.९ ॥
诸神因祭祀而满足,也使世界兴旺。女神啊,在祭祀中可见两界的昌盛。
13.237.10
तस्माद्यज्वा दिवं गत्वा अमरैः सह मोदते ।
नास्ति यज्ञसमं दानं नास्ति यज्ञसमो निधिः ॥ १३.२३७.१० ॥
因此,施祭者升至天界,与不死者同乐。没有与祭祀相等的布施,也没有与祭祀相等的宝藏。
13.237.11
सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः ।
एषा यज्ञकृता पूजा लौकिकीमपरां शृणु ॥ १३.२३७.११ ॥
女神啊,祭祀中蕴含着一切法的精要。这是以祭祀所行的礼拜;现在请听另一种世俗的礼拜。
13.237.12
देवसत्कारमुद्दिश्य क्रियते लौकिकोत्सवः ॥ १३.२३७.१२ ॥
为了尊敬诸神而举行世俗的节庆。
13.237.13
देवगोष्ठेऽधिसंस्कृत्य चोत्सवं यः करोति वै ।
यागान्देवोपहारांश्च शुचिर्भूत्वा यथाविधि।
देवान्सन्तोषयित्वा स देवि धर्ममवाप्नुयात् ॥ १३.२३७.१३ ॥
在诸神庙中按仪轨举行节庆、洁净后依法供奉祭祀与祭品的人,啊女神,能使诸神欢喜,从而获得法。
13.237.14
गन्धमाल्यैश्च विविधैः परमान्नेन धूपनैः ।
बह्वीभिः स्तुतिभिश्चैव स्तुवद्भिः प्रयतैर्नरैः ॥ १३.२३७.१४ ॥
以香花花环、各色上等食物、焚香与众多赞歌供奉,由自制的人们歌颂。
13.237.15
नृत्तैर्वाद्यैश्च गान्धर्वैरन्यैर्दृष्टिविलोभनैः ।
देवसत्कारमुद्दिश्य कुर्वते ये नरा भुवि ॥ १३.२३७.१५ ॥
世间之人以舞蹈、乐器、乾闼婆之乐及其他悦目的表演,为敬奉诸神而行之。
13.237.16
तेषां भक्तिकृतेनैव सत्कारेणैव पूजिताः ।
तेनैव तोषं संयान्ति देवि देवास्त्रिविष्टपे ॥ १३.२३७.१६ ॥
诸神因人们虔诚的敬奉而受尊崇,啊女神,天界之神仅因此而欢喜。
13.237.17
मानुषैश्चोपकारैर्वा शुचिभिः सत्परायणैः ।
ब्रह्मचर्यपरैरेतत्कृतं धर्मफलं लभेत् ॥ १३.२३७.१७ ॥
由清净、专注善行、持守梵行之人所行,或以对人的助益而行,此可得法之果报。
13.237.18
केवलैः स्तुतिभिर्देवि गन्धमाल्यसमाहितैः ।
प्रयतैः शुद्धगात्रैस्तु शुद्धदेशे सुपूजिताः।
सन्तोषं यान्ति ते देवा भक्तैः सम्पूजितास्तथा ॥ १३.२३७.१८ ॥
啊女神,诸神若在清净之处,由自制、身体洁净、佩戴香花之人,仅以赞颂妥善供奉,便会欢喜;由信徒充分供奉时,也同样欢喜。
13.237.19
देवान्सन्तोषयित्वैव देवि धर्ममवाप्नुयात् ॥ १३.२३७.१९ ॥
女神啊,唯有使诸神欢喜,方能获得法。
13.237.20
त्रिविष्टपस्था वै भूमौ देवा मानुषचेष्टितम् ।
कथं ज्ञास्यन्ति विधिवत्तन्मे शंसितुमर्हसि ॥ १३.२३७.२० ॥
居于天界的诸神,如何能如法地知晓大地上人间的行为?请你为我说明。
13.237.21
तदहं तेप्रवक्ष्यामि यथा तैर्विद्यते प्रिये ।
प्राणिनां तु शरीरेषु अन्तरात्मा व्यवस्थितः ॥ १३.२३७.२१ ॥
因此,爱人啊,我将告诉你他们如何知晓。内在的我安住于众生的身体之中。
13.237.22
आत्मानं परमं देवमिति विद्धि शुभेक्षणे ।
आत्मा मनोव्यवस्थानात्सर्वं वेत्ति शुभाशुभम् ॥ १३.२३७.२२ ॥
吉目之女啊,应知自我即是至高之神。心意安定时,自我便知晓一切善与恶。
13.237.23
आत्मैव देवास्तद्विद्युरव्यग्रमनसा कृतम् ।
सतां मनोव्यवस्थानाच्छुभं भवति वै नृणाम् ॥ १३.२३७.२३ ॥
自我即是诸神;他们知晓以专一之心所作之事。因善人之心安定,世人便得吉祥。
13.237.24
तस्माद्देवाऽभिसम्पूज्या ब्राह्मणानां तथैव च ।
यज्ञाश्च धर्मकार्याणि गुरुपूजा च शोभने ॥ १३.२३७.२४ ॥
因此,光彩照人的女子啊,应当恭敬供养诸神,同样也要供养婆罗门;还有祭祀、法行,以及尊敬师长。
13.237.25
शुद्धगात्रैर्व्रतयुतैस्तन्मयैस्तत्परायणैः ।
एवं व्यवस्थितैर्नित्यं कर्तव्यमिति निश्चयः ॥ १३.२३७.२५ ॥
身体清净、持守誓戒、专注其中、以之为归依者,如此安住,应当恒常行之,此为决定。
13.237.26
एवं कृत्वा शुभाकाङ्क्षी परत्रेह च मोदते ।
अन्यथा मन आविश्य कृतं न फलति प्रिये।
ऋतेऽपि तु मनो देवि अशुभं फलति ध्रुवम् ॥ १३.२३७.२६ ॥
若求善而如此行者,今世与来世皆得欢喜。否则,心未投入而作的事不结果。然而,女神啊,即便无心,不善之事必定结果。