Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.238

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.238.1

पितृमेधः कथं देव तन्मे शंसितुमर्हसि ।
सर्वेषां पितरः पूज्याः सर्वसम्पत्प्रदायिनः ॥ १३.२३८.१ ॥

神啊,祭祖之礼(pitṛmedha)应如何举行?请您为我宣说。众人的祖先皆当尊敬,他们赐予一切福祉。

13.238.2

पितृमेधं प्रवक्ष्यामि यथावत्तन्मना शृणु ।
देशकालौ विधानं च तत्क्रियायाः शुभाशुभम् ॥ १३.२३८.२ ॥

我将如实讲说祭祖之礼,你当专心聆听:地点与时间、仪轨,以及此礼中的吉与凶。

13.238.3

लोकेषु पितरः पूज्या देवतानां च देवताः ।
शुचयो निर्मलाः पुण्या दक्षिणां दिशमाश्रिताः ॥ १३.२३८.३ ॥

在诸世界中,祖先当受敬拜,他们对诸神而言亦是神。他们清净、无垢、有功德,依止于南方。

13.238.4

यथा वृष्टिं प्रतीक्षन्ते भूमिष्ठाः सर्वजन्तवः ।
पितरश्च तथा लोके पितृमेधं शुभेक्षणे ॥ १३.२३८.४ ॥

如同大地上的一切众生期待降雨,世间的祖先也期待祭祖之礼,美目的女子啊。

13.238.5

तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती ।
प्रभासं पुष्करं चेति तेषु दत्तं महाफलम् ॥ १३.२३८.५ ॥

其适宜之地为:俱卢之野(Kurukṣetra)、伽耶(Gayā)、恒河(Gaṅgā)、萨拉斯瓦蒂河(Sarasvatī)、普拉巴萨(Prabhāsa)与普什卡拉(Puṣkara);在这些地方所施之供养,功德极大。

13.238.6

तीर्थानि सरितः पुण्या विविक्तानि वनानि च ।
नदीनां पुलिनानीति देशाः श्राद्धस्य पूजिताः ॥ १३.२३८.६ ॥

圣渡口、神圣河流、幽静的树林,以及河流的沙滩——这些便是为施行祭祀(śrāddha)而受尊崇的地方。

13.238.7

माघप्रोष्ठपदौ मासौ श्राद्धकर्मणि पूजितौ ।
पक्षयोः कृष्णपक्षश्च पूर्वपक्षात्प्रशस्यते ॥ १३.२३८.७ ॥

在祭祖礼(śrāddha)中,摩伽月与普罗斯陀帕陀月受到尊崇。在两个半月中,黑半月比白半月更受赞扬。

13.238.8

अमावास्यां त्रयोदश्यां नवम्यां प्रतिपत्सु च ।
तिथिष्वेतासु तुष्यन्ति दत्तेनेह पितामहाः ॥ १३.२३८.८ ॥

在新月日、第十三日、第九日及初日,以及这些白日(tithi)里,此处所献的供品能使祖先欢喜。

13.238.9

पूर्वाह्णे शुक्लपक्षे च रात्रौ जन्मदिनेषु वा ।
युग्मेष्वहस्सु च श्राद्धं न च कुर्वीत पण्डितः ॥ १३.२३८.९ ॥

上午、白半月、夜间、生日或偶数日,智者不应举行śrāddha。

13.238.10

एष कालो मया प्रोक्तः पितृमेधस्य पूजितः ।
यस्मिंश्च ब्राह्म्णं पात्रं पश्येत्कालः स च स्मृतः ॥ १३.२३८.१० ॥

我已宣说这适于祖先祭礼的时节。当看见合格的婆罗门受施者之时,那便被认作此时。

13.238.11

अपाङ्क्तेया द्विजा वर्ज्या ग्राह्यास्ते पङ्क्तिपावनाः ।
भोजयेद्यदि पापिष्ठाञ्श्राद्धेषु नरकं व्रजेत् ॥ १३.२३८.११ ॥

不合席位的再生族应当避开,而能净化席位者应当接纳。若在śrāddha中供养最恶之人,便会堕入地狱。

13.238.12

वृत्तश्रुतकुलोपेतान्सकलत्रान्गुणान्वितान् ।
तदर्हाञ्श्रोत्रियान्विद्धि ब्राह्मणानयुजः शुभे ॥ १३.२३८.१२ ॥

吉祥者啊,你应知道:具备德行、吠陀学识与良好家世、携带妻子、有德且配得此供的学者婆罗门,应以奇数选来参与śrāddha。

13.238.13

एतान्निमन्त्रयोद्विद्वान्पूर्वेद्युः प्रातरेव वा ।
तत्र श्राद्धक्रियां पश्चादारभेत यथाविधि ॥ १३.२३८.१३ ॥

智者应于前一天或清晨邀请他们,然后依照规定在那里开始祭祖仪式(śrāddha)。

13.238.14

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरा ॥ १३.२३८.१४ ॥

在祭祖仪式中有三样净化之物:外孙、kutapa 与芝麻;此处还赞美三种品德:清净、不发怒与不急躁。

13.238.15

कुतपः खङ्गपात्रं च कुशा दर्भास्तिला मधु ।
कालशाकं गजच्छाया पवित्रं श्राद्धकर्मसु ॥ १३.२३८.१५ ॥

kutapa、犀角器、吉祥草(kuśa)、达婆草(darbha)、芝麻、蜂蜜、黑菜与象影——这些在祭祖仪式中都是净化之物。

13.238.16

तिलानवकिरेत्तत्र नानावर्णान्समन्ततः ।
अशुद्धं पितृयज्ञश्च तिलैः शुध्यति शोभने ॥ १३.२३८.१६ ॥

在那里应当四周撒下各色的芝麻;即便是不净的祖先祭祀,也能以芝麻得到净化,哦,美丽的人。

13.238.17

नीलकाषायवस्त्रं च भिन्नवर्णं नवव्रणम् ।
हीनाङ्गमशुचिं वाऽपि वर्जयेत्तत्र दूरतः ॥ १३.२३८.१७ ॥

身穿深蓝或赭色衣服者、衣着杂色者、有新伤者、肢体有缺陷者或不净者——这些人在那里应远远避开。

13.238.18

कुक्कुटांश्च वराहांश्च नग्नं क्लीबं रजस्वलाम् ।
आयसं त्रपुसीसं च श्राद्धकर्मणि वर्जयेत् ॥ १३.२३८.१८ ॥

公鸡与猪、裸体之人、阉人、经期中的女子、铁、锡与铅——在祭祖仪式中应当避开这些。

13.238.19

मांसैः प्रीणन्ति पितरो मुद्गमाषयवैरिह ।
शशरौरवमांसेन षण्मासं तृप्तिरिष्यते ॥ १३.२३८.१९ ॥

此处,以肉、绿豆、黑豆和大麦供养,祖先便得满足。以兔肉和ruru鹿肉供养,据说可满足六个月。

13.238.20

संवत्सरं च गव्येन हविषा पायसेन च ।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ १३.२३८.२० ॥

以牛所出的供品和乳粥供养,满足可持续一年;以 vārdhrīṇasa 鸟的肉供养,则可持续十二年。

13.238.21

आनन्त्याय भवेद्दत्तं खङ्गमांसं पितृक्षये ।
पायसं सतिलं क्षौद्रं खङ्गमांसेन सम्मितम् ॥ १३.२३८.२१ ॥

若在祖先祭礼中供奉犀牛肉,便得无尽功德。加芝麻的乳粥与蜂蜜被视为与犀牛肉相等。

13.238.22

महाशकलिनो मस्याश्छागो वा सर्वलोहितः ।
कालशाकमितीत्येव तदानन्त्याय कल्पितम् ॥ १३.२३८.२२ ॥

大块鱼肉、全身赤红的山羊,或 kālaśāka 青菜——这些被规定用于无尽功德。

13.238.23

सापूपं सामिषं स्निग्धमाहारमुपकल्पयेत् ।
उपकल्प्य तदाहारं ब्राह्मणानर्चयेत्ततः ॥ १३.२३८.२३ ॥

应备好油腻丰盛的食物,配以饼与肉。备好食物后,再恭敬婆罗门。

13.238.24

श्मश्रुकर्मशिरः स्नातान्समारोप्यासनं क्रमात् ।
सुगन्धमाल्याभरणैः स्नग्भिरेतान्विभूषयेत् ॥ १३.२३८.२४ ॥

将已剃须剪发、沐浴洁净的婆罗门依次安坐于座位上,再以芬芳的花环与饰物庄严他们。

13.238.25

अलङ्कृत्योपविष्टांस्तान्पिण्डावापं निवेदयेत् ॥ १३.२३८.२५ ॥

装饰并让他们就座后,应宣布供奉团饭(piṇḍa)。

13.238.26

ततः प्रस्तीर्य दर्भाणां प्रस्तरं दक्षिणामुखम् ।
तत्समीपेऽग्निमिद्ध्वा च स्वधां च जुहुयात्ततः।
समीपे त्वग्नीषोमाभ्यां पितृभ्यो जुहुयात्तदा ॥ १३.२३८.२६ ॥

随后,在朝南铺开的吉祥草垫旁点燃火,应献上 svadhā;在附近还应向阿耆尼和苏摩以及祖先献祭。

13.238.27

तथा दर्भेषु पिण्डांस्त्रीन्निर्वपेद्दक्षिणामुखः ।
अपसव्यमपाङ्गुष्ठं नामधेयपुरस्कृतम् ॥ १३.२३८.२७ ॥

同样,应在吉祥草上朝南供献三个团饭,以左旋(apasavya)方式,拇指移开,先念诵名字。

13.238.28

एतेन विधिना दत्तं पितॄणामक्षयं भवेत् ।
ततो विप्रान्यथाशक्ति पूजयेन्नियतः शुचिः।
सदक्षिणं ससम्भारं यथा तुष्यन्ति ते द्विजाः ॥ १३.२३८.२८ ॥

依此仪轨所献,对祖先而言便成为不尽之物。随后,应自我克制、保持清净,依自己的能力,以布施与供物礼敬婆罗门,使这些再生者感到满足。

13.238.29

यत्र तत्क्रियते तत्र न जल्पन्न जपेन्मिथः ।
नियम्य वाच्यं देहं च श्राद्धकर्म समारभेत् ॥ १३.२३८.२९ ॥

在举行此仪式之处,不应彼此交谈,也不应低声念诵;约束言语与身体后,方可开始祭祖仪式(śrāddha)。

13.238.30

ततो निर्वपने वृत्ते तान्पिण्डांस्तदनन्तरम् ।
ब्राह्मणोऽग्निरजो गौर्वा भक्षयेदप्सु वा क्षिपेत् ॥ १३.२३८.३० ॥

团饭供献完毕后,应由婆罗门、火、山羊或牛食用,或将其投入水中。

13.238.31

पत्नीं वा मध्यमं पिण्डं पुत्रकामो हि प्राशयेत् ।
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् ॥ १३.२३८.३१ ॥

或者,希望有子的人应让妻子吃中间的团。愿祖先使其怀孕——一个佩戴莲花花环的男孩。

13.238.32

तृप्तानुत्थाप्य तान्विप्रानन्नशेषं निवेदयेत् ।
तच्छेषं बहुभिः पश्चात्सभृत्यो भक्षयेन्नरः ॥ १३.२३८.३२ ॥

扶起那些已经满足的婆罗门,应献上剩余的食物。之后,人应与仆从及众多他人一同食用那剩余之物。

13.238.33

एष प्रोक्तः समासेन पितृयज्ञः सनातनः ।
पितरस्तेन तुष्यन्ति कर्ता च फलमाप्नुयात् ॥ १३.२३८.३३ ॥

此永恒的祭祖之祀已简要宣说。由此祖先欢喜,行者获得果报。

13.238.34

अहन्यहनि वा कुर्यान्मासेमासेऽथवा पुनः ।
संवत्सरं द्विः कुर्याच्च चतुर्वाऽपि स्वशक्तितः ॥ १३.२३८.३४ ॥

应当每日或每月行之,或一年两次,甚至四次,依自己的能力而定。

13.238.35

दीर्घायुश्च भवेत्स्वस्थः पितृमेधेन वा पुनः ।
सपुत्रो बहुभृत्यश्च प्रभूतधनधान्यवान् ॥ १३.२३८.३५ ॥

凭借祖先之祀,人得长寿而健康;他拥有子嗣、众多仆从,以及丰厚的财富与粮食。

13.238.36

श्राद्धदः स्वर्गमाप्नोति निर्मलं विविधात्मकम् ।
अप्सरोगणसंघुष्टं विरजस्कमनन्तरम् ॥ १३.२३८.३६ ॥

行施拉达祭的人得到天界——清净、形态多样,充满天女群的喧鸣,无尘垢——随后。

13.238.37

श्राद्धानि पुष्टिकामा वै ये प्रकुर्वन्ति पण्डिताः ।
तेषां पुष्टिं प्रजां चैव दास्यन्ति पितरः सदा ॥ १३.२३८.३७ ॥

智者若为求福祉而行施祭(śrāddha),祖先便永远赐予他们福祉与子孙。

13.238.38

धन्यं यशस्यमायुष्यं स्वर्ग्यं शत्रुविनाशनम् ।
कुलसन्धारकं चेति श्राद्धमाहुर्मनीषिणः ॥ १३.२३८.३८ ॥

智者称,施祭(śrāddha)吉祥、增益声誉、延长寿命、通往天界、摧灭仇敌,并能延续家族。

13.238.39

भगवन्देवदेवेश मृतास्ते भुवि जन्तवः ।
नानाजातिषु जायन्ते शीघ्रं कर्मवशात्पुनः ॥ १३.२३८.३९ ॥

尊贵的主、诸神之主啊!死于大地的众生,因业力所驱,很快便会再次投生于各种不同的种类之中。

13.238.40

पितरः स्वस्ति ते तत्र कथं तिष्ठन्ति देववत् ।
पितॄणां कतमो देशः पिण्डानश्नन्ति वै कथम् ॥ १३.२३८.४० ॥

愿祖先赐你平安!他们在那里如何像神灵一样生活?祖先的居所在何处?他们又如何享用供献的饭团(piṇḍa)?

13.238.41

अन्ने दत्ते मृतानां तु कथमाप्यायनं भवेत् ।
एवं मया संशयितं भगवन्वक्तुमर्हसि ॥ १३.२३८.४१ ॥

若以食物供奉亡者,他们如何得到滋养与满足?尊贵的主啊,您应当为我解说这一疑惑。

13.238.42

एतद्विरुद्धं पृच्छन्त्यां रुद्राण्यां परिषद्भृशम् ।
बभूव सर्वा मुदिता श्रोतुं हि परमं हितम् ॥ १३.२३८.४२ ॥

鲁陀罗尼(Rudrāṇī)提出这看似矛盾的问题时,整个会众大为欢喜,因为他们想听闻最为有益的教诲。

13.238.43

स्थाने संशयितं देवि शृणु कल्याणि तत्वतः ।
गुह्यानां परमं गुह्यं हितानां परमं हितम् ॥ १३.२३८.४३ ॥

女神啊,此问恰当。吉祥者啊,请如实听来:这是诸秘中最秘、诸益中最益者。

13.238.44

यथा देवगणा देवि तथा पितृगणाः प्रिये ।
दक्षिणस्यां दिशि शुभे सर्वे पितृगणाः स्थिताः ॥ १३.२३८.४४ ॥

女神、爱妻啊,如诸神之众,祖灵之众亦复如是。吉祥者啊,南方之中,诸祖灵众皆住于此。

13.238.45

प्रेतानुद्दिश्य या पूजा क्रियते मानुषैरिह ।
तेन तुष्यन्ति पितरो न प्रेताः पितरः स्मृताः ॥ १३.२३८.४५ ॥

人在此向亡灵所行的供奉,并不能使祖灵欢喜;亡灵不被称为祖灵。

13.238.46

उत्तरस्यां यथा देवा रमन्ते यज्ञकर्मभिः ।
दक्षिणस्यां तथा देवि तुष्यन्ति विविधैर्मखैः ॥ १३.२३८.४६ ॥

如北方诸神以祭祀之业而欢喜,女神啊,南方则以种种祭祀而令其欢悦。

13.238.47

द्विविधं क्रियते कर्म हव्यकव्यसमाश्रितम् ।
तयोर्हव्यक्रिया देवान्कव्यमाप्यायते पितॄन्। ॥ १३.२३८.४७ ॥

以献祭于神(havya)与献祭于祖(kavya)为基础的行为有两种;其中,havya之仪питае诸神,kavya则养育祖灵。

13.238.48

प्रसव्यं मङ्गलैर्द्रव्यैर्हव्यकर्म विधीयते ।
अपसव्यममङ्गल्यैः कव्यं चापि विधीयते ॥ १३.२३८.४८ ॥

havya之仪以右旋(prasavya)之法、用吉祥之物而被规定;kavya亦以左旋(apasavya)之法、用不吉之物而被规定。

13.238.49

सदेवासुरगन्धर्वाः पितॄनभ्यर्चयन्ति च ।
आप्यायन्ते च ते श्राद्धैः पुनराप्याययन्ति तान् ॥ १३.२३८.४९ ॥

诸天、阿修罗与乾闼婆也礼敬祖先;他们因施食仪式(śrāddha)而得满足,并又使行仪者得到满足。

13.238.50

अनिष्टा च पितॄन्पूर्वं यः क्रियां प्रकरोति चेत् ।
रक्षांसि च पिशाचाश्च फलं भोक्ष्यन्ति तस्य तत् ॥ १३.२३८.५० ॥

若有人先以不吉的方式为祖先行祭,罗刹与毕舍遮将享受其果报。

13.238.51

हव्यकव्यक्रियास्तस्मात्कर्तव्या भुवि मानुषैः ।
कर्मक्षेत्रं हि मानुष्यं तदन्यत्र न विद्यते ॥ १३.२३८.५१ ॥

因此,人在世间应当行havya与kavya之祭:人身乃行动的场域,此外别处不可得。

13.238.52

कव्येन सन्ततिर्दृष्टा हव्ये भूतिः पृथग्विधाः ।
इति ते कथितं देवि देवगुह्यं सनातनम् ॥ १३.२३८.५२ ॥

以供祖先之祭可得子嗣;以供神明之祭可得种种富足。女神,诸天的这一永恒秘密已为你宣说。