摩诃婆罗多 · 章 13.241
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.241.1
मानुषेष्वेव जीवत्सु गतिर्विज्ञायते न वा ।
यथा शुभगतिर्जीवो नासौ त्वशुभभागिति ॥ १३.२४१.१ ॥
人在活着的时候,其归宿能否被知晓?为何具有善趣的众生不会分享不幸?
13.241.2
एतदिच्छाम्यहं श्रोतुं तन्मे शंसितुमर्हसि ॥ १३.२४१.२ ॥
我想听这件事;您应当为我宣说。
13.241.3
तदहं ते प्रवक्ष्यामि जीवितं विद्यते यथा ।
द्विविधाः प्राणिनो लोके दैवमासुरमाश्रिताः ॥ १३.२४१.३ ॥
因此,我将告诉你生命是怎样的。世间众生有两类:依托神性或依托魔性的。
13.241.4
मनसा कर्मणा वाचा प्रतिकला भवन्ति ये ।
तादृशानासुरान्विद्धि मर्त्यास्ते नरकालयाः ॥ १३.२४१.४ ॥
应知凡以意、业、语而与之相反者,皆为此类阿修罗;这些凡人住于地狱。
13.241.5
हिंस्राश्चोराश्च धूर्ताश्च परदाराभिमर्शकाः ।
नीचकर्मरता ये च शौचमङ्गलवर्जिताः ॥ १३.२४१.५ ॥
暴虐者、盗贼与欺诈者,染指他人之妻者,沉溺于卑劣行为者,以及缺乏清净与吉祥者;
13.241.6
शुचिविद्वेषिणः पापा लोकचारित्रदूषकाः ।
एवं युक्तसमाचारा जीवन्तो नरकालयाः ॥ १३.२४१.६ ॥
憎恶清净的、罪恶的、败坏世间行为的人,如此行事而生存的人,即使活着也居住于地狱。
13.241.7
लोकोद्वेगकराश्चान्ये पशवश्च सरीसृपाः ।
वृक्षाः कण्टकिनो रूक्षास्तादृशान्विद्धि चासुरान् ॥ १३.२४१.७ ॥
其他使世界惶恐不安者、走兽与爬虫、多刺而枯槁的树木,应当知道这些都是阿修罗。
13.241.8
अपरान्देवपक्षांस्तु शृणु देवि समाहिता ॥ १३.२४१.८ ॥
现在,女神啊,请专心听那些属于天神一方的其他人。
13.241.9
मनोवाक्कर्मभिर्नित्यमनुकूला भवन्ति ये ।
तादृशानमरान्विद्धि ते नराः स्वर्गगामिनः ॥ १३.२४१.९ ॥
那些以意、口、身常常善顺者,应当知道他们是不死者;这些人会升往天界。
13.241.10
शौचार्जवपरा धीराः परार्थं नाहरन्ति ये ।
ये समाः सर्वभूतेषु ते नराः स्वर्गगामिनः ॥ १३.२४१.१० ॥
坚守清净与正直、不夺取他人之利、对一切众生平等的智者——这些人会升往天界。
13.241.11
भयाद्वा वृत्तिहेतोर्वा अनृतं न वदन्ति ये ।
सत्यं वदन्ति सततं ते नराः स्वर्गगामिनः ॥ १३.२४१.११ ॥
无论因恐惧或为谋生,从不说谎,而常说真话的人——这些人会升往天界。
13.241.12
धार्मिकाः शौचसम्पन्नाः शुक्ला मधुरवादिनः ।
नाकार्यं मनसेच्छन्ति ते नराः स्वर्गगामिनः ॥ १३.२४१.१२ ॥
奉行正法、具足清净、心地光明、言语温和,连心中都不欲为不当之事的人——这些人会升往天界。
13.241.13
स्वदुःखमिव मन्यन्ते परेषां दुःखवेदनम् ।
दरिद्रा अपि ये केचिद्याचिताः प्रीतिपूर्वकम्।
ददत्येव च यत्किञ्चित्ते नराः स्वर्गगामिनः ॥ १३.२४१.१३ ॥
那些将他人的痛苦视同己苦、即使贫穷、在被求助时也怀着慈爱施予些许之物的人,这些人将升往天界。
13.241.14
आस्तिका मङ्गलपराः सततं वृद्धसेविनः ।
पुण्यकर्मपरा नित्यं ते नराः स्वर्गगामिनः ॥ १३.२४१.१४ ॥
那些信奉正道、常行吉祥之事、不断侍奉长者、时常致力于功德善业的人,这些人将升往天界。
13.241.15
व्रतिनो दानशीलाश्च धर्मशीलाश्च मानवाः ।
ऋजवो मृदवो नित्यं ते नराः स्वर्गगामिनः ॥ १३.२४१.१५ ॥
持守誓愿、慷慨布施、性情守法、始终正直温和的人,这些人将升往天界。
13.241.16
गुरुशुश्रूषणपरा देवब्राह्मणपूजकाः ।
कृजज्ञाः कृतविद्याश्च ते नराः स्वर्गगामिनः ॥ १३.२४१.१६ ॥
专心侍奉师长、礼敬诸神与婆罗门、懂得感恩、精通学问的人,这些人将升往天界。
13.241.17
जितेन्द्रिया जितक्रोधा जितमानमदाः स्मृताः ।
लोभमात्सर्यहीना ये ते नराः स्वर्गगामिनः ॥ १३.२४१.१७ ॥
已战胜诸根、战胜愤怒、战胜傲慢与骄狂,并且远离贪婪与嫉妒的人,这些人将升往天界。
13.241.18
निर्मा निरहङ्कारः सानुक्रोशाः स्वबन्धुषु ।
दीनानुकम्पिनो नित्यं ते नराः स्वर्गगामिनः ॥ १३.२४१.१८ ॥
无我执、无傲慢,对自家亲族怀有悲悯,常对困苦之人慈悲相待的人,这些人将升往天界。
13.241.19
ऐहिकेन तु वृत्तेन पारत्रमनुमीयते ।
एवंविधा नरा लोके जीवन्तः स्वर्गगामिनः ॥ १३.२४१.१९ ॥
从今世的行为可以推知来世;这样的人在世间活着时便升入天界。
13.241.20
यदन्यच्च शुभं लोके प्रजानुग्रहकारि च ।
पशवश्चैव वृक्षाश्च प्रजानां हितकारिणः।
तादृशान्देवपक्षस्थानिति विद्धि शुभानने ॥ १३.२४१.२० ॥
世间其他吉祥而施恩于众生之物,以及对众生有益的走兽与草木——你要知道它们属于天神一方,善颜者啊。
13.241.21
शुभाशुभप्रयं लोके सर्वं स्थावरजङ्गमम् ।
दैवं शुभमिति प्राहुरासुरं चाशुभं प्रिये ॥ १३.२४१.२१ ॥
世间一切静止与运动之物,都是善与恶的混合;善称为神圣,恶称为阿修罗之性,爱妻啊。