摩诃婆罗多 · 章 13.242
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.242.1
भगवन्मानुषाः केचित्कालधर्ममुपस्थिताः ।
प्राणमोक्षं कथं कृत्वा परत्रि हितमाप्नुयुः ॥ १३.२४२.१ ॥
尊贵的主啊,某些人在时间之法(死亡)降临时,应当如何舍弃生命之气,从而在来世获得善果?
13.242.2
हन्त ते कथयिष्यामि शृणु देवि समाहिता ।
द्विविधं मरणं लोके स्वभावाद्यत्नतस्तथा ॥ १३.२४२.२ ॥
好吧,我将告诉你;女神啊,请凝神聆听。世间的死亡有两种:一种出于自然,一种出于努力。
13.242.3
तयोः स्वभावं नापायं यत्नतः करणोद्भवम् ।
एतयोरुभयोर्देवि विधानं शृणु शोभने ॥ १३.२४२.३ ॥
这两者之中,自然的死亡并非过失;由努力而来的死亡则产生于行为。女神啊,光辉者,请听这两者的方法。
13.242.4
कल्याकल्यशरीरस्य यत्नजं द्विविधं स्मृतम् ।
यत्नजं नाम मरणमात्मत्यागो मुमूर्षया ॥ १३.२४२.४ ॥
对于合宜或不合宜的身体,由努力所致的死亡被认为有两种。所谓由努力而生的死亡,就是出于求死之心而行的自我牺牲。
13.242.5
तत्राकल्यशरीरस्य जरा व्याधिश्च कारणम् ।
महाप्रस्थानगमनं तथा प्रायोपवेशनम्।
जलावगाहनं चैव अग्निचित्यां प्रवेशनम् ॥ १३.२४२.५ ॥
其中,对于身体不宜者,其原因是衰老与疾病。前往大行之路、坐地绝食至死、投入水中,以及走入火葬的柴堆,也都是(死亡的方式)。
13.242.6
एवं चतुर्विधः प्रोक्त आत्मत्यागो मुमूर्षताम् ।
एतेषां क्रमयोगेन विधानं शृणु शोभने ॥ १३.२४२.६ ॥
如此,那些求死者的自我牺牲被宣说为四种。请按照它们的次第,听其方法,光辉者。
13.242.7
स्वधर्मयुक्तं गार्हस्थ्यं चिरमूढ्वा विधानतः ।
तत्रानृण्यं च सम्प्राप्य वृद्धो वा व्याधितोऽपि वा ॥ १३.२४२.७ ॥
依照自身法度与规定长期过居家生活,并在其中还清债务之后,无论年老或患病,
13.242.8
दर्शयित्वा स्वदौर्बल्यं सर्वानेवानुमान्य च ।
सर्वं विहाय बन्धूंश्च क्रमाणां भरणं तथा ॥ १३.२४२.८ ॥
显示自身的衰弱,征得众人同意,舍弃一切与亲族,并依次交付需要供养者的抚养之责,
13.242.9
दानानि विधिवत्कृत्वा धर्मिकार्यर्थमात्मनः ।
अनुज्ञाप्य जनं सर्वं वाचा मधुरया ब्रुवन् ॥ १३.२४२.९ ॥
依规定为自己的法事布施,向所有人告别,并以温和的言辞说话,
13.242.10
अहतं वस्त्रमाच्छाद्य बद्ध्वा तत्कुशरज्जुना ।
उपस्पृश्च प्रतिज्ञाय व्यवसायपुरसरम् ॥ १३.२४२.१० ॥
披上未曾穿过的新布,以吉祥草绳系之,漱口净身,并以坚定的决心立下誓愿,
13.242.11
परित्यज्य ततो ग्राम्यं धर्मं कुर्याद्यथेप्सितम् ।
महाप्रस्तानमिच्छेच्चेत्प्रतिष्ठेतोत्तरां दिशम् ॥ १३.२४२.११ ॥
然后,舍弃世俗之法,随其所愿而行。若欲大行,则应向北方出发。
13.242.12
भूत्वा तावन्निराहारो यावत्प्राणविमोक्षणम् ।
चेष्टाहानौ शयित्वाऽपि तन्मनाः प्राणमुत्सृजेत्।
एवं पुण्यकृतां लोकानमलान्प्रतिपद्यते ॥ १३.२४२.१२ ॥
直至气息断绝之前都绝食;行动止息后,即使躺卧,也心意专注于此而舍弃生命气息。如此便得到行善者的清净世界。
13.242.13
प्रायोपवेशनं चेच्छेत्तेनैव विधिना नरः ।
देशे पुण्यतमे श्रेष्ठे निराहारस्तु संविशेत् ॥ १३.२४२.१३ ॥
若人欲行至死绝食之法,则依同样的规程,在最神圣殊胜之处断食而坐。
13.242.14
अप्राणं तु शुचिर्भूत्वा कुर्वन्दानं स्वशक्तितः ।
पुण्यं परित्यजेत्प्राणानेष धर्मः सनातनः।
एवं कलेवरं त्यक्त्वा स्वर्गलोके महीयते ॥ १३.२४२.१४ ॥
自净其身,随力行施,舍弃生命之气,此乃永恒之法。如此舍弃身体者,在天界受到尊崇。
13.242.15
अग्निप्रवेशनं चेच्छेत्तेनैव विधिना शुभे ।
कृत्वा काष्ठमयं चित्यं पुण्यक्षेत्रे नदीषु वा ॥ १३.२४२.१५ ॥
吉祥者啊,若人欲入火而亡,则依同样规程,在圣地或河岸筑起木柴之柴堆。
13.242.16
दैवतेभ्यो नमस्कृत्वा कृत्वा चापि प्रदक्षिणम् ।
भूत्वा शुचिर्व्यवसितः प्रविशेदग्निसंस्तरम्।
सोपि लोकान्यथान्यायं प्राप्नुयात्पुण्यकर्मणाम् ॥ १३.२४२.१६ ॥
礼敬诸神,行右绕,自净其身,意志坚定,然后入火床。如此,他亦依法得往行善者之诸界。
13.242.17
जलावगाहनं चेच्छेत्तेनैव विधिना शुभे ।
ख्याते पुण्यतमे तीर्थे निमज्जेत्सुकृतं स्मरन् ॥ १३.२४२.१७ ॥
吉祥者啊,若人欲投水而亡,则依同样规程,于著名最神圣的圣渡口沉没,念其善行。
13.242.18
सोपि पुण्यतमाँल्लोकान्निःसङ्गात्प्रतिपद्यते ।
ततः कल्यशरीरस्य संत्यागं शृणु तत्वतः ॥ १३.२४२.१८ ॥
彼亦因无所执著,得往最为有福之诸界。现在,请如实听我说离弃健全身体之法。
13.242.19
रक्षार्थं क्षत्रियः श्रेष्ठः प्रजापालनकारणात् ।
योधानां भर्तृपिण्डार्थं गुर्वर्थं ब्रह्मचारिणाम् ॥ १३.२४२.१९ ॥
为了守护,刹帝利最为殊胜,因为有保护臣民之责;对于战士,为了其主人的供物(pinda);对于梵行者,为了其上师(guru)。
13.242.20
गोब्राह्मणार्थं सर्वेषां प्राणत्यागो विधीयते ।
स्वराज्यरक्षणार्तं वा कुजनैः पीडिताः प्रजाः ॥ १३.२४२.२० ॥
为了牛与婆罗门,对所有人都规定了舍弃生命;或为了保卫自己的王国,或为了被恶人压迫的臣民。
13.242.21
मोक्तुकामस्त्यजेत्प्राणान्युद्धमार्गे यथाविधि ।
सुसन्नद्धो व्यवसितः सम्प्रविश्यापराङ्मुखः।
एवं राजा मृतः सद्यः स्वर्गलोके महीयते ॥ १३.२४२.२१ ॥
欲求解脱者,应依规则在战斗之路上舍弃生命;披甲精良、意志坚定,进入战阵而不背向敌人——如此战死的国王,立即在天界受到尊崇。
13.242.22
तादृशी सुगतिर्नास्ति क्षत्रियस्य विशेषतः ।
भृत्यो वा भर्तृपिण्डार्थं भर्तृकर्मण्युपस्थिते ॥ १३.२४२.२२ ॥
没有比这更好的去处,尤其对于刹帝利;或者仆从在主人的事务来临时,为了主人的供物(而献身)。
13.242.23
कुर्वंस्तत्र तु साहाय्यमात्मप्राणानपेक्षया ।
स्वाम्यर्थं संत्यजेत्प्राणान्पुण्याँल्लोकान्स गच्छति ॥ १३.२४२.२३ ॥
在那里提供帮助,不顾自己的性命,为主人舍弃生命者,便往有功德的世界而去。
13.242.24
स्पृहणीयः सुरगणैस्तत्र नास्ति विचारणा ।
एवं गोब्राह्मणार्थं वा दीनार्थं वा त्यजेत्तनुम् ॥ १३.२४२.२४ ॥
在那里,他为诸神之众所向往,此无疑问。如此,为了牛与婆罗门,或为了贫苦者,应舍弃身体。
13.242.25
सोपि पुण्यमवाप्नोति आनृशंस्यव्यपेक्षया ।
इत्येते जीवितत्यागे मार्गास्ते समुदाहृताः ॥ १३.२४२.२५ ॥
他也因顾念慈悲而获得功德。如此,舍弃生命的这些途径已向你宣说。
13.242.26
कामक्रोधाद्भयाद्वाऽपि यदि चेत्संत्यजेत्तनुम् ।
सोऽनन्तं नरकं याति आत्महन्तृत्वकारणात् ॥ १३.२४२.२६ ॥
若有人因欲望、愤怒甚至恐惧而舍弃身体,他因自杀之故将堕入无尽的地狱。
13.242.27
स्वभावं मरणं नाम न तु चात्मेच्छया भवेत् ।
यथा मृतानां यत्कार्यं तन्मे शृणु यथाविधि ॥ १३.२४२.२७ ॥
死亡应依其自然而来,而非出于自己的意愿。现在请依规则从我这里听取,对死者应当如何行事。
13.242.28
तत्रापि मरणं त्यागो मूढत्यागाद्विशिष्यते ।
भूमौ संवेशयेद्देहं नरस्य विनशिष्यतः ॥ १३.२४२.२८ ॥
即便如此,接受死亡也胜过愚昧的舍弃。将要死亡之人的身体应当安放在地上。
13.242.29
निर्जीवं वृणुयात्सद्यो वाससा तु कलेवरम् ।
माल्यगन्धैरलङ्कृत्य सुवर्णेन च भामिनि ॥ १३.२४२.२९ ॥
啊,光彩照人的女子!无生命的身体应立即以布覆盖,并以花环、香料和黄金加以装饰。
13.242.30
श्मशाने दक्षिणे देशे चिताग्नौ प्रदहेन्मृतम् ।
अथवा निक्षिपेद्भूमौ शरीरं जीववर्जितम् ॥ १३.२४२.३० ॥
在墓地的南部,应将死者在火葬柴堆的火中焚化;或者将无生命的身体埋入土中。
13.242.31
दिवा च शुक्लपक्षश्च उत्तरायणमेव च ।
मुमूर्षूणां प्रशस्तानि विपरीतं तु गर्हितम् ॥ १३.२४२.३१ ॥
白昼、白半月以及太阳北行之时,对将死之人是被赞许的;与此相反则受到谴责。
13.242.32
औदकं चाष्टकाश्राद्धं बहुभिर्बहुभिः कृतम् ।
आप्यायनं मृतानां तत्परलोके भवेच्छुभम्।
एतत्सर्वं मया प्रोक्तं मानुषाणां हितं वचः ॥ १३.२४२.३२ ॥
多人反复举行的水祭与阿湿太卡祭(aṣṭakā śrāddha),能使亡者得到满足,在彼世也是吉祥的。这一切我都已宣说,是对人类有益的教导。