Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 13.243

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

13.243.1

देवदेव नमस्तेऽस्तु कालसूदन शङ्कर ।
लोकेषु विविधा धर्मास्त्वत्प्रसादान्मया श्रुताः ॥ १३.२४३.१ ॥

神々の神、時を滅ぼす者シャンカラよ、御身に礼拝いたします。御恩寵によって、私は世界における様々なダルマを聞きました。

13.243.2

विशिष्टं सर्वधर्मेभ्यः शाश्वतं ध्रुवमव्ययम् ।
श्रुतुमिच्छाम्यहं सर्वमत्र मुह्यति मे मनः ॥ १३.२४३.२ ॥

すべてのダルマに勝り、永遠で、不動で、不滅なるものを私は聞きたいと思います。この点で私の心は惑っています。

13.243.3

केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः ।
वानप्रस्थं पुनः केचिद्गार्हस्थ्यं केचिदाश्रमम् ॥ १३.२४३.३ ॥

ある者は解脱を讃え、ある婆羅門は祭祀の果報を讃えます。また、ある者は林住期を、ある者は家住期を、ある者は生活期(アーシュラマ)を讃えます。

13.243.4

राजधर्माश्रयं केचित्केचित्स्वाध्यायमेव च ।
ब्रह्मचर्याश्रमं केचित्केचिद्वाक्संयमाश्रयम् ॥ १३.२४३.४ ॥

ある者は王のダルマに依ることを、ある者はヴェーダの読誦を、ある者は梵行の学生期を讃えます。ある者は言葉の抑制に依ることを讃えます。

13.243.5

मातरं पितरं केचित्सेवमाना दिवं गताः ।
अहिंसया परः स्वर्गे सत्येन च महीयते ॥ १३.२४३.५ ॥

ある者は母と父に仕えて天に赴きました。不殺生によって最上の者は天で尊ばれ、真実によってもまた同様です。

13.243.6

आहवेऽभिमुखाः केचिन्निहतास्त्रिदिवं गताः ।
केचिदुञ्छवृत्ते सिद्धाः स्वर्गमार्गं समाश्रिताः ॥ १३.२४३.६ ॥

ある者は戦場で正面を向いて戦い殺され、天に赴きました。ある者は落ち穂拾いの生活によって成就し、天への道に身を寄せました。

13.243.7

आर्जवेनापरे युक्ता महतां पूजते रताः ।
ऋजवो नाकपृष्ठे तु शुद्धात्मानः प्रतिष्ठिताः ॥ १३.२४३.७ ॥

ある者は正直さに結ばれ、偉大な人々を敬うことを喜ぶ。正直で魂の清らかな者は天の背に安住する。

13.243.8

एवं बहुविधैर्लोके धर्मद्वारैः सुसंवृतैः ।
ममापि मतिराविद्धा मेघलेखेव वायुना ॥ १३.२४३.८ ॥

世にはこのように法の多くの門が堅く閉ざされている。それでも私の心は風に吹かれた雲の筋のように乱される。

13.243.9

एतस्मिन्संशयस्थाने संशयच्छेदकारि यत् ।
वचनं ब्रूहि देवेश निश्चयज्ञानसंज्ञितम् ॥ १३.२४३.९ ॥

この疑いの場で、神々の主よ、疑いを断つ言葉、確信の知と呼ばれるものを語ってください。

13.243.10

एवं पृष्टः स्वया देव्या महादेवः पिनाकधृक् ।
प्रोवाच मधुरं वाक्यं सूक्ष्ममध्यात्मसंश्रितम् ॥ १३.२४३.१० ॥

自らの女神にこのように問われ、ピナーカの弓を持つマハーデーヴァは、甘美で微妙、内なる自己に拠る言葉を述べた。

13.243.11

न्यायतस्त्वं महाभागे श्रोतुकामाऽसि निश्चयम् ।
एतदेव विशिष्टं ते यत्त्वं पृच्छसि मां प्रिये ॥ १३.२४३.११ ॥

当然のことながら、大いなる幸せを持つ者よ、あなたは確信を聞きたいと願っている。愛しき者よ、私に問うこと、それこそがあなたの優れた点だ。

13.243.12

सर्वत्र विहितो धर्मः स्वर्गलोकफलाश्रितः ।
बहुद्वारस्य धर्मस्य नेहास्ति विफलाः क्रियाः ॥ १३.२४३.१२ ॥

どこにおいても定められた法は天界の果報に依拠する。多くの門を持つ法においては、ここでは行為はどれも無益ではない。

13.243.13

यस्मिन्यस्मिंश्च विषये योयो याति विनिश्चयम् ।
तं तमेवाभिजानाति नान्यं धर्मं शुचिस्मिते ॥ १३.२४३.१३ ॥

清らかな微笑の女神よ、どの事柄において人が確信に至るにせよ、人はまさにそれを知るのであり、他のダルマではない。

13.243.14

शृणु देवि समासेन मोक्षद्वारसमनुत्तमम् ।
एतद्धि सर्वधर्माणां विशिष्टं शुभमव्ययम् ॥ १३.२४३.१४ ॥

女神よ、簡潔に聞け。これは解脱の最も至高の門である。これこそ一切のダルマの中で最も優れ、吉祥で、不滅である。

13.243.15

नास्ति मोक्षात्परं देवि मोक्ष एव परा गतिः ।
सुखमात्यन्तिकं श्रेष्ठमनिवृत्तं च तद्विदुः ॥ १३.२४३.१५ ॥

女神よ、解脱より高いものはない。解脱こそ最高の帰趣である。人々はそれを究極にして最善の、もはや還らぬ安楽と呼ぶ。

13.243.16

नात्र देवि जरा मृत्युः शोको वा दुःखमेव वा ।
अनुत्तममचिन्त्यं च तद्देवि परमं सुखम् ॥ १३.२४३.१६ ॥

女神よ、ここには老いも死も、悲しみも苦しみもない。それは無上にして思議しがたい、最高の安楽である。

13.243.17

ज्ञानानामुत्तमं ज्ञानं मोक्षज्ञानं विदुर्बुधाः ।
ऋषिभिर्देवसङ्घैश्च प्रोच्यते परमं पदम् ॥ १३.२४३.१७ ॥

諸知の中で最上の知は解脱の知であると賢者たちは知る。聖仙と神々の集団によって、それが最高の境地と宣べられる。

13.243.18

नित्यमक्षरमक्षोभ्यमजेयं शाश्वतं शिवम् ।
विशन्ति तत्पदं प्राज्ञाः स्पृहणीयं सुरोत्तमैः ॥ १३.२४३.१८ ॥

永遠で不滅、動じず、征服されえず、常住で吉祥なるもの。賢者たちはその境地に入る。それは諸神の中の最上の者たちが望む境地である。

13.243.19

दुःखादिश्च दुरन्तश्च संसारोयं प्रकीर्तितः ।
शोकव्याधिजरादोषैर्मरणेन च संयुतः ॥ १३.२४३.१९ ॥

このサンサーラは苦から始まり、終わりがないと説かれる。悲しみ・病・老いという過失と死に結ばれている。

13.243.20

यथा ज्योतिर्गणा व्योम्नि विवर्तन्ते पुनःपुनः ।
तस्य मोक्षस्य मार्गोऽयं श्रुयतां शुभलक्षणे ॥ १३.२४३.२० ॥

空に星々の群れが幾度も巡るように、これが解脱への道である。吉相の人よ、聞きなさい。

13.243.21

ब्रह्मादिस्थावरान्तश्च संसारो यः प्रकीर्तितः ।
संसारे प्राणिनः सर्वे निवर्तन्ते यथा पुनः ॥ १३.२४३.२१ ॥

梵天から不動のものに至るまで説かれたこのサンサーラの中で、すべての生き物は幾度も戻ってくる。

13.243.22

तत्र संसारचक्रस्य मोक्षो ज्ञानेन दृश्यते ।
अध्यात्मतत्वविज्ञानं ज्ञानमित्यभिधीयते ॥ १३.२४३.२२ ॥

そのサンサーラの輪において、解脱は知によって見られる。内なる自己の真理を知ることこそ知と呼ばれる。

13.243.23

ज्ञानस्य ग्रहणोपायमाचारं ज्ञानिनस्तथा ।
यथावत्सम्प्रवक्ष्यामि तत्त्वमेकमनाः शृणु ॥ १३.२४३.२३ ॥

知を得る方法と智者の行いを、ありのままに説こう。一心に真理を聞きなさい。

13.243.24

ब्राह्मणः क्षत्रियो वाऽपि भूत्वा पूर्वं गृहे स्थितः ।
आनृण्यं सर्वतः प्राप्य ततस्तान्संत्यजेद्गृहान् ॥ १३.२४३.२४ ॥

バラモンであれクシャトリヤであれ、先に家住者であった者は、あらゆる負債から解放された後に、その家を捨てるべきである。

13.243.25

ततः संत्यज्य गार्हस्थ्यं निश्चितो वनमाश्रयेत् ॥ १३.२४३.२५ ॥

そして家住期を捨て、決意を固めて森に身を寄せるべきである。

13.243.26

वने गुरुं समाज्ञाय दीक्षितो विधिपूर्वकम् ।
दीक्षां प्राप्य यथान्यायं स्ववृत्तं परिपालयेत् ॥ १३.२४३.२६ ॥

森で師を正しく見定め、規則どおりに入門し、正しく灌頂を受けて、自らの務めを守るべきである。

13.243.27

गृह्णीयादप्युपाध्यायान्मोक्षज्ञानमनिन्दितः ।
द्विविधं च पुनर्मोक्षं साङ्ख्ययोगमिति स्मृतिः ॥ १३.२४३.२७ ॥

非難なき者は師から解脱の知識を受けるべきである。伝承によれば解脱は二つ、サーンキヤとヨーガの道である。

13.243.28

पञ्चविंशतिविज्ञानं साङ्ख्यमित्यभिधीयते ।
ऐश्वर्यं देवसारूप्यं योगशास्त्रस्य निर्णयः।
तयोरन्यतरं ज्ञानं शृणुयाच्छिष्यतां गतः ॥ १३.२४३.२८ ॥

二十五の原理の知はサーンキヤと呼ばれる。自在と神々との同等性はヨーガ学の結論である。弟子となって、この二つのうちいずれかの知を聴くべきである。

13.243.29

नाकालो नाप्यकाषायी नाप्यसंवत्सरोषितः ।
नासाङ्ख्ययोगो नाश्राद्धं गुरुणा स्नेहपूर्वकम्।
समः शीतोष्णहर्षादीन्विषहेत स वै मुनिः ॥ १३.२४३.२९ ॥

不適切な時でなく、赭色の衣なしでなく、一年を過ごさずにでなく、サーンキヤとヨーガなしでなく、師が慈しみをもって行う祖霊祭なしでなく。平静な心で寒暑や喜びなどに耐える者こそ、真の聖者である。

13.243.30

अमृष्यः क्षुत्पिपासाभ्यामुचितेभ्यो निवर्तयेत् ।
त्यजेत्सङ्कल्पजान्ग्रन्थीन्सदा ध्यानपरो भवेत् ॥ १३.२४३.३० ॥

飢えと渇きに耐えられないなら、ふさわしい務めからさえ身を引くべきである。意図から生じた結び目を断ち、常に瞑想に専念すべきである。

13.243.31

कुण्डिकाचमसं शिक्यं छत्रं यष्टिमुपानहौ ।
चेलमित्येव नैतेषु स्थापयेत्साम्यमात्मनः ॥ १३.२४३.३१ ॥

水瓶、飲み碗、吊り籠、傘、杖、履物、布——これらに自己の同一化を置いてはならない。

13.243.32

गुरोः पूर्वं समुत्तिष्ठेज्जघन्यं तस्य संविशेत् ।
नैवाविज्ञाप्य भर्तारमावश्यकमपि व्रजेत् ॥ १३.२४३.३२ ॥

師より先に立ち、師の後に座るべきである。主人に知らせずに、必要な用事であっても出かけてはならない。

13.243.33

द्विरह्नि स्नानशाटेन संध्ययोरभिषेचनम् ।
एककालाशनं चास् विहितं यतिभिः पुरा ॥ १३.२४३.३३ ॥

一日に二度、浴布を用いて沐浴し、両方の黄昏に灌水し、一度だけ食事をすること——これは古来より遊行者に定められている。

13.243.34

भैक्षं सर्वत्र गृह्णीयाच्चिन्तयेत्सततं निशि ।
कारणे चापि सम्प्राप्ते न ज्ञाप्येत कदाचन ॥ १३.२४३.३४ ॥

施しはどこからでも受け、夜は絶えず思惟すべきである。事情が生じても、決してそれを人に知らせてはならない。

13.243.35

ब्रह्मिचर्यं वने वासं शौचमिन्द्रियसंयमः ।
दया च सर्वभूतेषु तस्य धर्मः सनातनः ॥ १३.२४३.३५ ॥

梵行、森での住まい、清浄、感官の制御、そして一切の生きものへの慈悲——これが彼の永遠の法である。

13.243.36

विमुक्तः सर्वपापेभ्यो लघ्वाहारो जितेन्द्रियः ।
आत्मयुक्तः परां बुद्धिं लभते पापनाशिनीम् ॥ १३.२४३.३६ ॥

あらゆる罪から解放され、食は少なく、感官を征服し、自己に専念する者は、罪を滅する最高の智慧を得る。

13.243.37

यदा भावं न कुरुते सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्र्हम सम्पद्यते तदा ॥ १३.२४३.३७ ॥

人がすべての生き物に対して行為においても心においても言葉においても悪しき心を抱かないとき、その時、彼はブラフマンに至る。

13.243.38

अनिष्ठुरोऽनहङ्कारो निर्द्वन्द्वो वीतमत्सरः ।
वीतशोकभयाबाधं पदं प्राप्नोत्यनुत्तमम् ॥ १३.२४३.३८ ॥

厳しくなく、我慢がなく、二元対立を超え、嫉妬がなく、悲しみ・恐れ・苦悩から離れた者は、最高の境地に達する。

13.243.39

तुल्यनिन्दास्तुतिर्मौनी समलोष्टाश्मकाञ्चनः ।
समः शत्रौ च मित्रे च निर्वाणमधिगच्छति ॥ १३.२४३.३९ ॥

非難と賞賛を等しく見、沈黙し、土くれ・石・黄金を等しく見、敵にも友にも平等な者は、涅槃に至る。

13.243.40

एवं युक्तसमाचारस्तत्परोऽध्यात्मचिन्तकः ।
ज्ञानाभ्यासेन तेनैव प्राप्नोति परमां गतिम् ॥ १३.२४३.४० ॥

このように行いを律し、それに専念し、内なる自己を思う者は、まさにその知識の修習によって至高の境地に達する。