摩诃婆罗多 · 章 13.244
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.244.1
अनुद्विग्नमतेर्जन्तोरस्मिन्संसारमण्डले ।
शोकव्याधिजरादुःखैर्निर्वाणं नोपपद्यते ॥ १३.२४४.१ ॥
在这轮回的世界里,即便心不烦乱的众生,也因忧愁、疾病、衰老与痛苦而无法获得涅槃。
13.244.2
तस्मादुद्वेगजननं मनोऽवस्थानपं तथा ।
ज्ञानं ते सम्प्रवक्ष्यामि तन्मूलममृतं हि वै ॥ १३.२४४.२ ॥
因此,我将为你详细讲述那使心生动荡、又使心得以安定的智慧;它的根本正是不死。
13.244.3
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ १३.२४४.३ ॥
成千上万的忧愁之处和数百的恐惧之处,日复一日地侵入愚人之心,却不侵入智者。
13.244.4
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।
अहो दुःखमिति ध्यायञ्शोकस्य पदमाव्रजेत् ॥ १३.२४४.४ ॥
财富、妻子、儿子或父亲丧失或死亡之时,人若念着「唉,好大的苦啊!」便会陷入悲伤之境。
13.244.5
द्रव्येषु समतीतेषु ये शुभास्तान्न चिन्तयेत् ।
ताननाद्रियमाणस्य शोकबन्धः प्रणश्यति ॥ १३.२४४.५ ॥
财物已经逝去之后,不应去想那些曾经令人喜悦的事物;对它们不加珍视的人,悲伤的束缚便会消散。
13.244.6
सम्प्रयोगादनिष्टस्य विप्रयोगात्प्रियस्य च ।
मानुषा मानसैर्दुःखैः संयुज्यन्तेऽल्पबुद्धयः ॥ १३.२४४.६ ॥
与不喜之物相合、与所爱之物相离,愚昧之人便被心中的苦所缚。
13.244.7
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।
सन्तापेन च युज्येत तच्चास्य न निवर्तते ॥ १३.२४४.७ ॥
悲叹已死或已失之物、已逝之人者,陷于忧苦,而那已逝之物并不会回到他身边。
13.244.8
उत्पन्नमिह मानुष्ये गर्भप्रभृति मानवम् ।
विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥ १३.२४४.८ ॥
生于人世的人,自胎中起,便有种种苦与乐降临于他。
13.244.9
तयोरेकतरो मार्गो यद्येनमभिसंनमेत् ।
सुखं प्राप्य न संहृष्येन्न दुःखं प्राप्य संज्वरेत् ॥ १३.२४४.९ ॥
若二者之一之路朝他而来,得乐时不应欢喜,得苦时不应焦灼。
13.244.10
दोषदर्शी भवेत्तत्र यत्र स्नेहः प्रवर्तते ।
अनिष्टेनान्वितं पश्येद्यथा क्षिप्रं विरज्यते ॥ १३.२४४.१० ॥
爱恋生起之处,应当看见其中的过失;看见它与不悦相连,以便迅速离欲。
13.244.11
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वज्ज्ञातिसमागमः ॥ १३.२४४.११ ॥
譬如两块木头在大海中相遇,相遇之后又相离;亲族的聚会也是如此。
13.244.12
अदर्शनादापतिताः पुनश्चादर्शनं गताः ।
स्नेहस्तत्र न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ १३.२४४.१२ ॥
从不见中来,又复归于不见;不应对他们生起爱恋,因为与他们的分离必定发生。
13.244.13
कुटुम्बपुत्रदारांश्च शरीरं धनसञ्चयम् ।
ऐश्वर्यं स्वस्तिता चेति न मुह्येत्तत्र पण्डितः ॥ १३.२४४.१३ ॥
家族、儿子、妻子、身体、积聚的财富、权势与安乐——智者不应在这些事物上迷惑。
13.244.14
सुखमेकान्ततो नास्ति शक्रस्यापि त्रिविष्टपे ।
तत्रापि सुमहद्दुःखं न नित्यं लभते सुखम् ॥ १३.२४४.१४ ॥
即便在三界之中,因陀罗也没有绝对的快乐;那里同样有巨大的苦,快乐也不能永久获得。
13.244.15
सुखस्यान्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
क्षया निचयाः सर्वे पतनान्ताः समुच्छ्रयाः ॥ १३.२४४.१५ ॥
苦是乐的对立面,乐接续于苦之后。一切积聚终归耗尽,一切崛起终归坠落。
13.244.16
संयोगा मरणान्तं च जीवितम् ।
उच्छ्रयांश्च निपाताश्च दृष्ट्या प्रत्यक्षतस्त्रयम्।
अनित्यमसुखं चेति व्यवस्येत्सर्वमेव च ॥ १३.२४४.१६ ॥
聚合终于死亡,生命亦然。兴盛与衰落,这三者可以直接看见;应当确定一切都是无常而痛苦的。
13.244.17
अर्थानामार्जने दुःखमार्जितानां तु रक्षणे ।
नाशे दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम् ॥ १३.२४४.१७ ॥
获取财富有苦,守护所得有苦;失去有苦,耗费有苦。羞耻啊,这作为苦之容器的财富!
13.244.18
अर्थवन्तं नरं नित्यं पञ्चाभिघ्नन्ति शत्रवः ।
राजा चोरश्च दायादा भूतानि क्षय एव च ॥ १३.२४४.१८ ॥
富有之人常被五种敌人侵害:君王、盗贼、继承者、天灾,以及衰败本身。
13.244.19
अर्थमेव ह्यनर्थस्य मूलमित्यवधारय ।
न ह्यनर्थाः प्रबाधन्ते नरमर्तविवर्जितम् ॥ १३.२४४.१९ ॥
要知道,财富正是祸患之根。不执着于财富与朽坏之身的人,祸患不会侵扰他。
13.244.20
अर्थप्राप्तिर्महद्दुःखमाकिञ्चिन्यं परं सुखम् ।
उपद्रवेषु चार्थानां दुःखं हि नियतं भवेत् ॥ १३.२४४.२० ॥
获得财富是大苦;一无所有才是至上的乐。在财富的种种灾难中,痛苦必定随之而来。
13.244.21
धनलोभेन तृष्णाया न तृप्तिरुपलभ्यते ।
लब्धाश्रयो विवर्धेत समिद्ध इव पावकः ॥ १३.२४४.२१ ॥
因贪求财富,渴望永远得不到满足;一旦有了依托,它便如燃烧的火焰般增长。
13.244.22
जित्वाऽपि पृथिवीं कृत्स्नां चतुःसागरमेखलाम् ।
सागराणां पुनः पारं जेतुमिच्छत्यसंशयम् ॥ १३.२४४.२२ ॥
即使征服了被四海环绕的整个大地,他无疑还想征服海洋的彼岸。
13.244.23
अलं परिग्रहेणेह दोषवान्हि परिग्रहः ।
कोशकारः क्रिमिर्देवि बध्यते हि परिग्रहात् ॥ १३.२४४.२३ ॥
此处不必执着于占有,因为占有是有过失的。女神啊,蚕正是被自己的占有所缚。
13.244.24
एकोऽपि पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति च ।
एकस्मिन्नेव राष्ट्रे तु स चापि निवसेन्नृपः ॥ १३.२४४.२४ ॥
一位君王以一统之权治理整个大地,然而这位君王自己也只居住在一个国度之中。
13.244.25
तस्मिन्राष्ट्रेऽपि नगरमेकमेवाधितिष्ठति ।
नगरेऽपि गृहं चैकं भवेत्तस्य निवेशनम् ॥ १३.२४४.२५ ॥
即使在那个王国里,他也只居住在一座城中;而在那座城里,他的住所也只是一座房屋。
13.244.26
एक एव प्रतिष्ठः स्यादावासस्तद्गृहेऽपि च ।
आवासे शयनं चैकं निशि यत्र प्रलीयते ॥ १३.२४४.२६ ॥
他的座位也只有一个;在那座房屋里,他的居所也只有一处。在那居所中只有一张床,夜里他在其中沉入睡眠。
13.244.27
शयनस्यार्धमेवास्य स्त्रियाश्चार्धं विधीयते ।
तदनेन प्रसङ्गेन स्वल्पेनैव हि युज्यते ॥ १३.२४४.२७ ॥
他的床只有一半属于他,另一半则归其妻子所有。因此,他仅凭这一点牵挂便已被束缚。
13.244.28
सर्वं ममेति सम्मूढो बलं पश्यति बालिशः ।
एवं सर्वोपयोगेषु स्वल्पमस्य प्रयोजनम् ॥ १३.२४४.२८ ॥
愚昧的人迷惑于“一切都是我的”,只看到自己的力量。如此,在一切所用之中,他真正的需要其实很少。
13.244.29
तण्डुलप्रस्थमात्रेण यात्रा स्यात्सर्वदेहिनाम् ।
ततो भूयस्तरो योगो दुःखाय तपनाय च ॥ १३.२४४.२९ ॥
一斗米便足以维持一切有身者的生命之路。超出之外更多的牵连,只会带来痛苦与煎熬。
13.244.30
नास्ति तृष्णासमं दुःखं नास्ति त्यागसमं सुखम् ।
सर्वान्कामान्परित्यज्य ब्रह्मभूयाय कल्पते ॥ १३.२४४.३० ॥
没有痛苦能与贪欲相比,也没有快乐能与舍弃相比。舍弃一切欲望的人,便堪能达到梵的境界。
13.244.31
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ १३.२४४.३१ ॥
那难以被愚人舍弃、不随老者衰老、令生命终结的渴爱之病——舍弃它的人便得安乐。
13.244.32
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कुष्णवर्त्मेव भूय एवाभिवर्धते ॥ १३.२४४.३२ ॥
欲望绝不会因享受欲乐而平息;如同以酥油浇灌的火,它只会再三增长。
13.244.33
अलाभेनैव कामानां शोकं त्यजति पण्डितः ।
आयासविटपस्तीव्रः कामाग्निः कर्षणारणिः।
इन्द्रियार्थैश्च सम्मोह्य दहत्यकुशलं जनम् ॥ १३.२४४.३३ ॥
智者正因求欲不得,方才舍弃忧愁。欲火猛烈,枝条是劳苦,犹如钻木之木;以诸根之境迷惑人,焚烧那不善之人。
13.244.34
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य पर्याप्तमिति पश्यन्न मुह्यति ॥ १३.२४४.३४ ॥
看到大地上的稻谷、大麦、黄金、牲畜与女人,即使一人也不足够,这样看待的人便不会迷惑。
13.244.35
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ १३.२४४.३५ ॥
世间的欲乐与天界的大乐,也不及渴爱止息之乐的十六分之一。
13.244.36
इन्द्रियाणीन्द्रियार्थेषु नैव धीरो नियोजयेत् ।
मनःषष्ठानि संयम्य नित्यमात्मनि योजयेत ॥ १३.२४४.३६ ॥
坚定的人不应将诸根投向诸根之境;应当制伏以意为第六的诸根,恒常将其安置于自我之中。
13.244.37
इन्द्रियाणां विसर्गेण दोषमृच्छत्यसंशयम् ।
संनियम्य नु तान्येव ततः सिद्धिमवाप्नुयात् ॥ १३.२४४.३७ ॥
任由诸根放纵,必定招致过失;将其完全制伏之后,方能获得成就。
13.244.38
षण्णामात्मनि युक्तानामैश्वर्यं योऽधिगच्छति ।
न च पापैर्न चानर्थैः संयुज्येत विचक्षणः ॥ १३.२४४.३८ ॥
智者若能掌控与自我相结合的六者,便不会与罪恶或祸患相连。
13.244.39
अप्रमत्तः सदा रक्षेदिन्द्रियाणि विचक्षणः ।
अरक्षितेषु तेष्वाशु नरो नरकमेति हि ॥ १३.२४४.३९ ॥
智者应当时刻警觉地守护诸根;诸根若无守护,人便很快堕入地狱。
13.244.40
हृदि काममयश्चित्रो मोहसञ्चयसम्भवः ।
अज्ञानरूढमूलस्तु विवित्सापरिषेचनः ॥ १३.२४४.४० ॥
心中有一棵由欲望构成、形态多样、由迷惑积聚而生的树;其根深深扎入无明之中,而求知之欲则浇灌着它。
13.244.41
रोषलोभमहास्कन्धः पुरा दुष्कृतसारवान् ।
आयासविटपस्तीव्रशोकपुष्पो भयाङ्कुरः ॥ १३.२४४.४१ ॥
愤怒与贪婪是它巨大的树干;自古以来它便充满恶行的精华;辛劳是它的枝条,剧烈的悲伤是它的花朵,恐惧是它的嫩芽。
13.244.42
नानासङ्कल्पपत्राढ्यः प्रमादात्परिवर्धितः ।
महतीभिः पिपासाभिः समन्तात्परिवेष्टितः ॥ १३.२४४.४२ ॥
枝叶繁茂,由无数的意图之叶构成,因放逸而生长,四面被巨大的渴爱所缠绕。
13.244.43
संरोहत्यकृतप्रज्ञे पादपः कामसम्भवः ।
नैव रोहति तत्वज्ञे रूढो वा छिद्यते पुनः ॥ १३.२४४.४३ ॥
在智慧未成熟者心中,由欲望所生的树便生长;在知真理者心中,它不生长,即便长成,也会再被砍断。
13.244.44
कृच्छ्रोपायेष्वनित्येषु निःसारेषु फलेषु च ।
दुःखादिषु दुरन्तेषु कामयोगेषु का रतिः ॥ १३.२४४.४४ ॥
在艰难的手段中,在无常而无实的果实中,在始于痛苦、终于苦难的欲望结合中,有什么快乐可言?
13.244.45
इन्द्रियेषु च जीर्यत्सु च्छिद्यमाने तताऽऽयुषि ।
पुरस्ताच्च स्थिते मृत्यौ किं सुखं पश्यतासुखे ॥ १३.२४४.४५ ॥
感官衰败,寿命断绝,死亡已站在面前,在这不幸之中你还看到什么快乐?
13.244.46
व्याधिभिः पीड्यमानस्य नित्यं शारीरमानसैः ।
नरस्याकृतकृत्यस्य किं सुखं मरणे सति ॥ १३.२४४.४६ ॥
对于一个不断被身心疾病折磨、事业未成的人,死亡降临之时还有什么快乐可言?
13.244.47
सञ्चिन्वानं तमेवार्थं कामानामवितृप्तकम् ।
व्याघ्रः पशुमिवारण्ये मृत्युरादाय गच्छति ॥ १३.२४४.४७ ॥
那个积累财富、永不满足于欲望的人,死亡将他攫走,正如森林中的老虎抓住野兽拖走一般。
13.244.48
जन्ममृत्युजरादुःखैः सततं समभिद्रुतः ।
संसारे पच्यमानस्तु पापान्नोद्विजते जनः ॥ १३.२४४.४८ ॥
人被生、死、老之苦不断侵扰,在轮回中煎熬,却仍不因罪恶而惶恐。
13.244.49
केनोपायेन मर्त्यानां निवर्त्येते जरान्तकौ ।
यद्यस्ति भगवन्मह्यमेतदाचक्ष्व माचिरम् ॥ १३.२४४.४९ ॥
凡人以何种方法可以遣返衰老与死亡?尊贵的主啊,若对我有此方法,请不要迟延,即刻告诉我。
13.244.50
तपसा वा सुमहता कर्मणा वा श्रुतेन वा ।
रसायनप्रयोगैर्वा केनात्येति जरान्तकौ ॥ १३.२४४.५० ॥
是靠大苦行、靠业行、靠学问,还是靠服用长生药剂?人是借由其中哪一种,才能超越衰老与死亡?
13.244.51
नैतदस्ति महाभागे जरामृत्युनिवर्तनम् ।
सर्वलोकेषु जानीहि मोक्षादन्यत्र भामिनि ॥ १३.२४४.५१ ॥
没有这样能遣返衰老与死亡的方法,尊贵的女神啊。光明的女士,你要知道,在一切世界中,除解脱之外没有别的途径。
13.244.52
न धनेन न राज्येन नोग्रेण तपसाऽपि वा ।
मरणं नातितरते विना मुक्त्या शरीरिणः ॥ १३.२४४.५२ ॥
无论财富、王权,甚至严苛的苦行,有形之身也无法超越死亡;若无解脱,它便不能胜过死亡。
13.244.53
अश्वमेधसहस्राणि वाजपेयशतानि च ।
न तरन्ति जरामृत्यू निर्वाणाधिगमाद्विना ॥ १३.२४४.५३ ॥
千次马祭与百次婆阇波夷祭,若不得涅槃,也无法使人越过衰老与死亡。
13.244.54
ऐस्वर्यं धनधान्यं च विद्यालाभस्तपस्तथा ।
रसायनप्रयोगाद्वै न तरन्ति जरान्तकौ ॥ १३.२४४.५४ ॥
权势、财富与粮食、获得学问、苦行,以及服用长生药剂——凭这些,人也无法超越衰老与死亡。
13.244.55
दानयज्ञतपःशीलरसायनविदोऽपि वा ।
स्वाध्यायनिरता वाऽपि न तरन्ति जरान्तकौ ॥ १३.२४४.५५ ॥
即使是精通布施、祭祀、苦行、德行与长生药者,或专注于吠陀诵习者,也无法超越衰老与死亡。
13.244.56
देवदानवगन्धर्वकिन्नरोरगराक्षसान् ।
स्ववशे कुरुते कालो न कालस्यास्त्यगोचरः ॥ १३.२४४.५६ ॥
时间使诸天神、檀那婆、乾闼婆、紧那罗、龙蛇与罗刹都受其支配;对时间而言,没有任何事物不可见。
13.244.57
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः ।
स्रेयं प्रपद्यते ध्यानमजस्रं ध्रुवमव्ययम् ॥ १३.२४४.५७ ॥
日子不会回返,月份也不会,夜晚也不再复来。最上的禅定不断地证得那恒定不灭的真实。
13.244.58
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव ।
आयुरादाय मर्त्यानामहोरात्रेषु सन्ततम् ॥ १३.२४४.५८ ॥
如同河流的水流奔涌而去不再回返,时间也夺取凡人的寿命,日日夜夜不断流逝。
13.244.59
जीवितं सर्वभूतानामक्षयः क्षपयन्नसौ ।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ १३.२४४.५९ ॥
一切众生的寿命并非不灭;那太阳一边削减它,一边落下,又一次又一次地升起。
13.244.60
यस्यां रात्र्यां व्यतीतायामायुरल्पतरं भवेत् ।
गाधोदके मत्स्य इव किन्नु तस्य कुमारता ॥ १३.२४४.६० ॥
每当一夜过去,寿命便更短一分,如深水中的鱼;那么他的童年又在哪里呢?
13.244.61
मरणं हि शरीरस्य नियतं ध्रुवमेव च ।
तिष्ठन्नपि क्षणं सर्वः कालस्यैति वशं पुनः ॥ १३.२४४.६१ ॥
身体的死亡是确定而必然的。即使站立片刻的人,也会再次落入时间的掌控之中。
13.244.62
न म्रियेरन्न जीर्येरन्यदि स्युः सर्वदेहिनः ।
न चानिष्टं प्रवर्तेत शोको वा प्राणिनं क्वचित् ॥ १३.२४४.६२ ॥
若所有有身之物不死也不老,便不会有任何灾祸,悲伤也永远不会落到任何生灵身上。
13.244.63
अप्रमत्तः प्रमत्तेषु कालो भूतेषु तिष्ठति ।
अप्रमत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते ॥ १३.२४४.६३ ॥
时间在不放逸者中,于放逸的众生之间停驻;被不放逸的时间所毁灭的人,不得解脱。
13.244.64
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
कोपि तद्वेद यत्रासौ मृत्युना नाभिवीक्षितः ॥ १३.२४४.६४ ॥
明日之事应今日完成,上午之事应在下午之前完成。谁知道他在何处尚未被死亡所见?
13.244.65
वर्षास्विदं करिष्यामि इदं ग्रीष्मवसन्तयोः ।
इति बालश्चिन्तयति अन्तरायं न बुध्यति ॥ १३.२४४.६५ ॥
“雨季我要做这个,夏天与春天做那个”——孩童如此盘算,却不察觉中间的阻碍。
13.244.66
इदं मे स्यादिदं मे स्यादित्येवं मनसा नराः ।
अनवाप्तेषु कामेषु ह्रियन्ते मरणं प्रति ॥ १३.२४४.६६ ॥
世人心中念着“这要归我,这要归我”,在欲望未得满足之时,便被牵引向死亡。
13.244.67
कालपाशेन बद्धानामहन्यहनि जीर्यताम् ।
का श्रद्धा प्राणिनां मार्गे विषमे भ्रमतां सदा ॥ १३.२४४.६७ ॥
被时间之索束缚、日复一日衰老、永远在崎岖之路上漂泊的众生,有何可信之处?
13.244.68
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् ।
फलानामिव पक्वानां सदा हि पतनाद्भयम् ॥ १३.२४४.६८ ॥
应当在年少时就持守法义,因为生命没有任何预兆;如同熟透的果实,总有坠落之惧。
13.244.69
मर्त्यस्य किं धनैर्दारैः पुत्रैर्भोगैः प्रियैरपि ।
एकाह्ना सर्वमुत्सृज्य मृत्योस्तु वशमन्वियात्। ॥ १३.२४४.६९ ॥
对于凡人而言,财富、妻子、儿子、享乐乃至亲人又有何用?一日之间,他必须舍弃一切,归于死亡的掌控。
13.244.70
जायामानांश्च सम्प्रेक्ष्य म्रियमाणांस्तथैव च ।
न संवेगोस्ति चेत्पुंसः काष्ठलोसमो हि सः ॥ १३.२४४.७० ॥
若人见他人生与死,仍无一丝震动,那他便如木头或土块一般。
13.244.71
विनाशिनो ह्यध्रुवजीवितस्य ।
किं बन्धुभिर्मित्रपरिग्रहैश्च।
विहाय यद्गच्छति सर्वमेवं ।
क्षणेन गत्वा न निवर्तते च ॥ १३.२४४.७१ ॥
对于生命无常、终将消逝之人,亲族与朋友的聚集又有何用?他舍弃一切而去;一瞬间离去的人,便不再回来。
13.244.72
एवं चिन्तयतो नित्यं सर्वार्थानामनित्यताम् ।
उद्वेगो जायते शीघ्रं निर्वाणस्य पुरस्सरः ॥ १३.२४४.७२ ॥
若人时常如此思惟一切事物的无常,不久便会生起忧惧,那是解脱的先导。
13.244.73
तेनोद्वेगेन चाप्यस्य विमर्शो जायते पुनः ।
विमर्शो नाम वैराग्यं सर्वद्रव्येषु जायते ॥ १३.२४४.७३ ॥
因此那动荡使他心中再次生起思惟;这思惟便称为离欲,即对一切事物的无着。
13.244.74
वैराग्येण परां शान्तिं लभन्ते मानवाः शुभे ।
मोक्षस्योपनिषद्दिव्यं वैराग्यमिति निश्चितम् ॥ १३.२४४.७४ ॥
吉祥者啊,人们借由离欲而获得至上的寂静。离欲确定就是解脱的神圣秘密教义。
13.244.75
एतत्ते कथितं देवि वैराग्योत्पादनं वचः ।
एवं सञ्चिन्त्य सञ्चिन्त्य मुच्यन्ते हि मुमुक्षवः ॥ १३.२४४.७५ ॥
女神啊,我已将这能生起离欲的话语告诉你。如此反复思惟,求解脱者必定得解脱。