摩诃婆罗多 · 章 13.246
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.246.1
साङ्ख्यज्ञाने नियुक्तानां यथावत्कीर्तितं मया ।
योगधर्मं पुनः कृत्स्नं कीर्तयिष्यामि ते शृणु ॥ १३.२४६.१ ॥
对于专注于数论知识的人,我已如实讲说。现在我将再次完整地向你宣说瑜伽法,你听着。
13.246.2
स च योगो द्विधा भिन्नो ब्रह्मिदेवर्षिसम्मतः ।
समानमुभयत्रापि वृत्तं शास्त्रप्रचोदितम् ॥ १३.२४६.२ ॥
此瑜伽分为两种,为婆罗门、天神与仙人所认可。两者的行为相同,皆为经典所规定。
13.246.3
च चाष्टगुणमैश्वर्यमधिकृत्य विधीयते ।
सायुज्यं सर्वदेवानां योगधर्मं परं श्रिताः ॥ १३.२४६.३ ॥
以八德的自在为目标而被规定,并与诸天神合一(相应);依止最高瑜伽法的人便能得到。
13.246.4
ज्ञानं सर्वस्य योगस्य मूलमित्यवधारय ।
व्रतोपवासनियमैस्तत्सर्वं चापि बृंहयेत् ॥ १३.२४६.४ ॥
应当明白,智慧是一切瑜伽的根本;应以誓愿、斋戒与戒律来增长这一切。
13.246.5
ऐकात्म्यं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ।
आत्मनो वेदितं प्राज्ञे ज्ञानमेतत्तु योगिनाम् ॥ १३.२४६.५ ॥
智力、意念与诸根完全合一,以及智者所知的自我之知,这便是瑜伽行者的智慧。
13.246.6
अर्चयेद्ब्राह्मणानग्निं देवतायतनानि च ।
वर्जयेदशिवं भावं सर्वसत्त्वमुपाश्रितः ॥ १३.२४६.६ ॥
应当供养婆罗门、火与神庙,远离不吉的心念,并依止于一切众生。
13.246.7
दानमध्ययनं श्रुद्धा व्रतानि नियमास्तथा ।
सत्यमाहारशुद्धिश्च शौचमिन्द्रियनिग्रहः।
एतैश्च वर्धते तेजः पापं चाप्यवधूयते ॥ १३.२४६.७ ॥
布施、诵习、信心、誓愿与戒律,以及真实、饮食清净、身心清洁与制约诸根——借此光辉增长,罪过也被抖落。
13.246.8
निर्धूतपापस्तेजस्वी लघ्वाहारो जितेन्द्रियः ।
अमोधो निर्मलो दान्तः पश्चाद्योगं समाचरेत् ॥ १३.२४६.८ ॥
已洗去罪过,光明灿烂,饮食清简,已胜诸根,无过失,清净,自制,然后应修行瑜伽。
13.246.9
अवरुध्यात्मनः पूर्वं मत्स्यघात इवामिषम् ।
एकान्ते विजने देशे सर्वतः संवृते शुचौ।
कल्पयेदासनं तत्र स्वास्तीर्णं मृदुभिः कुशैः ॥ १३.२४६.९ ॥
首先,如渔夫收住钓饵,应当收摄自身。于僻静、无人、四面遮蔽而洁净之处,应以柔软的吉祥草妥善铺设坐席。
13.246.10
उपविश्यासने तस्मिन्नृजुकायशिरोधरः ।
अव्यग्रः सुखमासीनः स्वाङ्गानि न विकम्पयेत्।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३.२४६.१० ॥
坐于座上,身与头端直,专注而安适地坐着,不应使四肢颤动;注视自己的鼻尖,不向四方张望。
13.246.11
मनोऽवस्थापनं देवि योगस्योपनिषद्भवेत् ।
तस्मात्सर्वप्रयत्नेन मनोऽवस्थापयेत्सदा ॥ १३.२४६.११ ॥
女神啊,安住心念正是瑜伽的秘诀。因此应以一切努力,时时使心念安定。
13.246.12
त्वक्छ्रोत्रं च ततो जिह्वा घ्राणं चक्षुश्च संहरेत् ।
पञ्चेन्द्रियाणि सन्धाय मनसि स्थापयेद्बुधः ॥ १३.२४६.१२ ॥
随后应收摄触觉、听觉、味觉、嗅觉与视觉;智者应将五根聚合,安置于意中。
13.246.13
सर्वं चापोह्य सङ्कल्पमात्मनि स्थापयेन्मनः ।
यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि ॥ १३.२४६.१३ ॥
舍弃一切妄念,应将意安置于自我;当这五根与意为第六者安住于自我之时。
13.246.14
प्राणापानौ तदा तस्य युगपत्तिष्ठतो वशे ।
प्राणे हि वशमापन्ने योगसिद्धिर्ध्रुवा भवेत् ॥ १३.२४६.१४ ॥
其时,他的入息与出息同时受制而安住;生命气息一旦受制,瑜伽成就便必然到来。
13.246.15
शरीरं चिन्तयेत्सर्वं विपाट्य च समीपतः ।
अन्तर्देहगतिं चापि प्राणानां परिचिन्तयेत् ॥ १३.२४६.१५ ॥
应观想整个身体,仿佛从近处将其剖开;又应细细思惟体内诸生气的运行。
13.246.16
ततो मूर्धानमग्निं च शरीरं परिपालयेत् ।
प्राणो मूर्धनि च श्वासो वर्तमाने विचेष्टते ॥ १३.२४६.१६ ॥
其后应以顶门与火好好护持身体;生气居于顶门,只要气息存在,它便运作。
13.246.17
सज्जस्तु सर्वभूतात्मा पुरुषः स सनातनः ।
मनो बुद्धिरहङ्कारो भूतानि विषयांश्च सः ॥ १३.२४६.१७ ॥
彼为一切众生之我,永恒的补鲁沙,常自现前;他即是意、觉、我慢、诸大与诸境。
13.246.18
बस्तिर्मूलं गुदं चैव पावकं च समाश्रितः ।
वहन्मूत्रं पुरीषं च सदाऽपानः प्रवर्तते ॥ १३.२४६.१८ ॥
住于膀胱、根部、肛门与火之中,运载尿与粪,阿般那恒常运行。
13.246.19
अतः प्रवृत्तिर्देहषु कर्म चापानसंयुतम् ।
उदीरयन्सर्वधातूनन्त ऊर्ध्वं प्रवर्तते।
उदान इति तं विद्युरध्यात्मकुशला जनाः ॥ १३.२४६.१९ ॥
因此,身体中与阿般那相连的作用得以进行。能够激发体内诸元素而向上运行者,内修精通之人称之为乌陀那。
13.246.20
सन्धौसन्धौ स निर्विष्टः सर्वचेष्टाप्रवर्तकः ।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥ १३.२४६.२० ॥
遍入每一关节,推动一切活动。在人的身体中,它被称为毗耶那。
13.246.21
धातुष्वग्नौ च विततः समानोऽग्निः समीरणः ।
स एव सर्वचेष्टानामन्तकाले निवर्तकः ॥ १३.२४६.२१ ॥
散布于身体诸元素与火中的萨摩那,即火与风。唯有它在临终时收回一切活动。
13.246.22
प्राणानां सन्निपातेषु संसर्गाद्यः प्रजायते ।
ऊष्मा सोग्निरिति ज्ञेयः सोन्नं पचति देहिनाम् ॥ १३.२४६.२२ ॥
应知,诸气相会、相接触时所生之热即是火。它烹煮有身者的食物。
13.246.23
अपानप्राणयोर्मध्ये व्यानोदानावुपाश्रितौ ।
समन्वितः समानेन सम्यक्पचति पावकः ॥ १३.२४६.२३ ॥
阿般那与普拉那之间,毗耶那与乌陀那得以安住。与萨摩那相合的火,能充分地烹煮。
13.246.24
शरीरमध्ये नाभिः स्यान्नाभ्यामग्निः प्रतिष्ठितः ।
अग्नौ प्राणाश्च संयुक्ताः प्राणेष्वात्मा व्यवस्थितः ॥ १३.२४६.२४ ॥
身体中部是肚脐;火安住于肚脐之中。火与诸气息相连,而自我安立于诸气息之中。
13.246.25
पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयस्तथा ।
नाभिर्मध्ये शरीरस्य सर्वप्राणाश्च संश्रिताः ॥ १३.२४६.२५ ॥
熟肠位于肚脐之下,生胃同样位于其上。肚脐在身体中央,一切诸气息皆依附于它。
13.246.26
स्थिताः प्राणादयः सर्वे तिर्यगूर्ध्वमधश्वराः ।
वहन्त्यन्नरसान्नाड्यो दशप्राणाग्निचोदिताः ॥ १३.२४६.२६ ॥
以命气为首的一切诸气,横行、上行、下行而安立。由十气与火所推动的脉络,承载食物的精华。
13.246.27
योगिनामेष मार्गस्तु पञ्चस्वेतेषु तिष्ठति ।
जितश्रमः समासीनो मूर्धन्यात्मानमादधेत् ॥ १३.२४६.२७ ॥
这是瑜伽行者之道,安立于这五者之中。已克服疲劳者应稳坐,将自我安置于头顶。
13.246.28
मूर्धन्यात्मानमाधाय भ्रुवोर्मध्ये मनस्तथा ।
सन्निरुध्य ततः प्राणानात्मानं चिन्तयेत्परम् ॥ १३.२४६.२८ ॥
将自我安置于头顶,将心置于双眉之间,然后制止诸气息,应当思念至上之我。
13.246.29
प्राणे त्वपानं युञ्जीत प्राणांश्चापानकर्मणि ।
प्राणापानगती रुद्ध्वा प्राणायामपरो भवेत् ॥ १३.२४६.२९ ॥
应使下行气与上行气相合,使诸气息与下行气之作用相合。止住上行气与下行气的运行后,应专注于调息(prāṇāyāma)。
13.246.30
एवमन्तः प्रयुञ्जीत पञ्च प्राणान्परस्परम् ।
विजने सम्मिताहारो मुनस्तूष्णीं निरुच्छ्वसन् ॥ १३.२४६.३० ॥
如此,在内心将五种生命气息彼此相连;在僻静处,饮食有节的贤者默然不出声地呼气,应当修习。
13.246.31
अश्रान्तश्चिन्तयेद्योगी उत्थाय च पुनःपुनः ।
तिष्ठन्गच्छन्स्वपंस्चापि युञ्जीतैवमतन्द्रितः ॥ १३.२४६.३१ ॥
瑜伽士应不倦地思惟,反复起身;站立、行走、甚至睡眠时,也应这样无懈怠地修习。
13.246.32
एवं नियुञ्जतस्तस्य योगिनो युक्तचेतसः ।
प्रसीदति मनः क्षिप्रं प्रसन्ने दृश्यते परम् ॥ १३.२४६.३२ ॥
对于如此修习、心意专一的瑜伽士,心很快便会澄明;心澄明时,至上者便会显现。
13.246.33
विधूम इव दीप्तोऽग्निरादित्य इव रश्मिवान् ।
वैद्युतोऽग्निरिवाकाशे पुरुषो दृश्यतेऽव्ययः ॥ १३.२४६.३३ ॥
如无烟燃烧的火,如放射光芒的太阳,如天空中闪电的火,不灭的补卢沙便显现出来。
13.246.34
दृष्ट्वा तदात्मनो ज्योतिरैश्वर्याष्टगुणैर्युतः ।
प्राप्नोति परमं स्थानं स्पृहणीयं सुरैरपि ॥ १३.२४६.३४ ॥
见到自身的那道光明,具足自在的八种功德,他便证得连诸天也向往的最高境界。
13.246.35
इमान्योगस्य दोषांश्च दशैव परिचक्षते ।
दोषैर्विघ्ने वरारोहे योगिनां कविभिः स्मृताः ॥ १३.२४६.३५ ॥
智者宣说瑜伽的这些过失,实为十种。美髋者啊,诗人们记载说,瑜伽士的障碍正由这些过失而生。
13.246.36
कामः क्रोधो भयं स्वप्नः स्नेहमत्यशनं तथा ।
वैचित्यं व्याधिरालस्यं लोभं च दशमं स्मृतम् ॥ १३.२४६.३६ ॥
欲望、愤怒、恐惧、睡眠、执着、过量饮食,以及心神散乱、疾病、懈怠和贪婪——这被称为第十种。
13.246.37
एतैस्तेषां भवेद्विघ्नो दशभिर्देवकारितैः ।
तस्मादेतानपास्यादौ युञ्जीत च परं मनः ॥ १३.२४६.३७ ॥
瑜伽士因这十种由神所造的障碍而受到阻碍。因此,应先舍弃它们,然后将心专注于至上。
13.246.38
इमानपि गुणानष्टौ योगस्य परिचक्षते ।
गुणैस्तैरष्टभिर्द्रव्यमैश्वर्यमधिगम्यते ॥ १३.२४६.३८ ॥
瑜伽的这八种功德也被宣说。
13.246.39
अणिमा महिमा चैव प्राप्तिः प्राकाम्यमेव हि ।
ईशित्वं च वशित्वं च यत्र कामावसायिता ॥ १३.२४६.३९ ॥
微细(aṇimā)、广大(mahimā)、获得(prāpti)、意愿无碍(prākāmya);主宰(īśitva)与control(vaśitva);以及愿望得以成就之境。
13.246.40
एतानष्टौ गुणान्प्राप्य कथञ्चिद्योगिनां वराः ।
ईशाः सर्वस्य लोकस्य देवानप्यतिशेरते ॥ १३.२४६.४० ॥
瑜伽士中的卓越者若以某种方式获得这八种功德,便成为一切世界的主宰,甚至超越诸神。
13.246.41
योगोस्ति नैवात्यशिनो न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य नातिजागतरस्तथा ॥ १३.२४६.४१ ॥
过量饮食者不得瑜伽,完全绝食者也不得;嗜睡者不得,过度醒着者也不得——同样如此。
13.246.42
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १३.२४६.४२ ॥
对于饮食与游乐有节、行事有度、睡眠与醒觉有节制的人,瑜伽便成为消除苦难的力量。
13.246.43
अनेनैव विधानेन सायुज्यं तत्प्रकल्प्यते ।
सायुज्यं देवसात्कृत्वा प्रयुञ्जीतात्मभक्तितः ॥ १३.२४६.४३ ॥
正是以此方法,那合一得以成就。使合一成为神性之境后,应以对自我的虔诚修习瑜伽。
13.246.44
अनन्यमनसा देवि नित्यं तद्गतचेतसा ।
सायुज्यं प्राप्यते देवैर्यत्नेन महता चिरात् ॥ १३.२४६.४४ ॥
女神啊,以专一之心,恒常将心念系于他身,诸神也须以极大努力、经过长久才能获得合一。
13.246.45
हविर्भिरर्चनैर्होमैः प्रणामैर्नित्यचिन्तया ।
अर्चयित्वा यथाशक्ति स्वकं देशं विशन्ति ते ॥ १३.२४६.४५ ॥
以供品、礼拜、火祭、敬礼与恒常的冥想,依自己的能力供奉之后,他们便进入自己的居所。
13.246.46
सायुज्यानां विशिष्टं च मामकं वैष्णवं तथा ।
मां प्राप्य न निवर्तन्ते विष्णु वा शुभलोचने ॥ १३.२४६.४६ ॥
在获得合一者之中,我的世界与毗湿奴的世界最为殊胜。得到我或毗湿奴者不再返回,美目的女神啊。
13.246.47
इति ते कथितो देवि योगधर्मः सनातनः ।
न शक्यः प्रष्टुमन्येन योगधर्मस्त्वया विना ॥ १३.२४६.४७ ॥
女神啊,我已将永恒的瑜伽法向你宣说。除你之外,他人无法询问这瑜伽法。