摩诃婆罗多 · 章 13.250
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.250.1
पतिमत्या दिवारात्रं वृत्तान्तं श्रूयतां शुभम् ।
पत्युः पूर्वं समुत्थाय प्रातःक्रम समाचरेत् ॥ १३.२५०.१ ॥
忠于丈夫的妻子应当听闻昼夜的吉祥行止:应先于丈夫起身,履行晨间的常规。
13.250.2
पत्युर्भावं विदित्वा तु पश्चात्सम्बोधयेत्तु तम् ।
नित्यं पौर्वाह्णिकं कार्यं स्वयं कुर्याद्यथाविधि ॥ १३.२५०.२ ॥
了解丈夫的心意之后,再唤醒他;上午的日常职责应依规定亲自完成。
13.250.3
निवेद्य च तथाऽऽहारं यथा सम्पद्यतामिति ।
तथैव कुर्यात्तत्सर्वं यथा पत्युः प्रियं भवेत् ॥ १३.२५०.३ ॥
告知备好饭食之后,应当这样做一切,使丈夫感到喜悦。
13.250.4
यथा भर्ता तथा नारी गुरूणां प्रतिपद्यते ॥ १३.२५०.४ ॥
丈夫如何行事,妻子也如何对待长辈。
13.250.5
शुश्रूषापोषणविधौ पतिप्रियचिकीर्षया ।
भर्तुर्निष्क्रमणे कार्यं संस्मरेदप्रमादतः ॥ १३.२५०.५ ॥
在侍奉与供养的规范中,出于愿悦丈夫的心意,应当不懈怠地牢记丈夫外出时所应做之事。
13.250.6
आगतं तु पतिं दृष्ट्वा सहसा परिचारणम् ।
स्वयं कुर्वीत सम्प्रीत्या कायश्रमहरं परम् ॥ १३.२५०.६ ॥
见丈夫归来,应立即亲自以深情侍奉;这是能消除身体疲劳的最上等侍奉。
13.250.7
पाद्यसनाभ्यां शयनैर्वाक्यैश्च हृदयप्रियैः ।
अतिथीनामागमेन प्रीतियुक्ता सदा भवेत् ॥ १३.२५०.७ ॥
以洗足水、座位、床榻和悦耳动心的言语,客人到来时应始终怀着慈爱之心。
13.250.8
कर्मणा वचनेनापि तोषयेदतिथीन्सदा ।
मङ्गलं गृहशौचं च सर्वोपकरणानि च ॥ १३.२५०.८ ॥
以行为和言语,应始终使客人欢喜;吉祥之物、家宅的洁净以及一切所需之物,亦当如此。
13.250.9
सर्वकालमवेक्षेत कारयन्ती च कुर्वती ।
धर्मकार्ये तु सम्प्राप्ते तद्वद्धर्मपरा भवेत् ॥ १३.२५०.९ ॥
她应时时留意,亲自操持并使人去做;遇到宗教之事时,也应同样专心于法。
13.250.10
अर्थकार्ये पुनर्भर्तुः प्रमादालस्यवर्जिता ।
सा यत्नं परमं कुर्यात्तस्यि साहाय्यकारणात् ॥ १३.२५०.१० ॥
在财务事务中,应远离疏忽与懒惰,竭尽全力帮助丈夫。
13.250.11
धुरन्धरा भवेद्भर्तुः साध्वी धर्मार्थयोः सदा ।
विहारकाले वै भर्तुर्ज्ञात्वा भावं हृदि स्थितम् ॥ १३.२५०.११ ॥
贤妻应始终在法与财富中为丈夫分担重任;在游乐之时,应察知丈夫心中所存的情意,据此而行。
13.250.12
अलङ्कृत्य यथायोगं मन्दहाससमन्वितम् ।
वाक्यैर्मधुरसंयुक्तैः स्मयन्ती तोषयेत्पतिम् ॥ १३.२५०.१२ ॥
应适当地打扮,带着淡淡的微笑,以甘美悦耳的言语,含笑让丈夫欢喜。
13.250.13
कठोराणि न वाच्यानि अन्यथा प्रमदान्तरे ।
यस्यां कामी भवेद्भर्ता तस्याः प्रीतिकरी भवेत् ॥ १३.२५०.१३ ॥
在另一女子面前不应说刺耳的话;否则,应使丈夫所爱之人感到愉悦。
13.250.14
अप्रमादं पुरस्कृत्य मनसा तोषयेत्पतिम् ।
अनन्तरमथान्येषां भोजनावेक्षणं चरेत् ॥ १३.२५०.१४ ॥
以谨慎为先,应当真心取悦丈夫;之后再照料他人的饮食。
13.250.15
दासीदासबलीवर्दांश्चण्डालं च शुनस्तथा ।
अनाथान्कृपणांश्चैव भिक्षुकांश्च तथैव च।
पूजयेद्बलिभैक्षेण पत्युर्धर्मं विवर्धयेत् ॥ १३.२५०.१५ ॥
应以供品与布施礼敬婢仆、牲畜、旃陀罗、狗、孤苦、贫穷与乞丐;如此便能增长丈夫的法。
13.250.16
कुपितं वाऽर्थहीनं वा श्रान्तं वोपचरेत्पतिम् ।
यता स तुष्टः स्वस्थश्च तथा सन्तोषयेत्पतिम् ॥ १३.२५०.१६ ॥
无论丈夫愤怒、贫穷或疲惫,妻子都应侍奉他,使他欢喜安泰;如此便应让丈夫满意。
13.250.17
यथा कुटुम्बचिन्तायां विवादे वाऽर्थसञ्चये ।
आहूता तत्सहायार्थं तथा प्रियहितं वदेत् ॥ १३.२५०.१७ ॥
若妻子受召帮助丈夫处理家事、争端或积聚财富,则应说出令人喜悦而有益的话。
13.250.18
अप्रियं च हितं ब्रूयात्तस्य धर्मार्थकाङ्क्षया ।
एकान्तचर्याकथनं कलहं वर्जयेत्परैः ॥ १३.२५०.१८ ॥
出于对丈夫之法与财富的期望,即使是不悦耳的话,只要有益也应说出;应避免谈论独居之事,也应避免与他人争吵。
13.250.19
बहिरालोकनं चैव मोहं व्रीडां च पैशुनम् ।
बह्वाशित्वं दिवास्वप्नमेवमादि विवर्जयेत् ॥ १३.२५०.१९ ॥
向外张望、迷惑、羞怯、搬弄是非、过量饮食、白日睡眠及诸如此类,她应当避免。
13.250.20
रहस्येकासनं साध्वी न कुर्यादात्मजैरपि ।
यद्यद्दद्यान्नियत्स्वेति न्यासवत्परिपालयेत् ॥ १३.२५०.२० ॥
贤淑的妇人不应私下与自己的儿子同坐一席。凡有所赠,她应如保管寄托之物般谨慎守护。
13.250.21
विस्मृतं वाऽपि यद्द्रव्यं प्रतिपद्यात्स्वशौचतः ।
यत्किञ्चित्पतिना दत्तं लब्ध्वा तत्सा सुकी भवेत् ॥ १३.२५०.२१ ॥
即使有财物被遗忘,她也应当凭自己的纯洁将其找回。丈夫所赐予的一切,她应当接受并感到满足。
13.250.22
अतीवाज्ञामतीर्ष्यां च दूरतः परिवर्जयेत् ।
बालवद्वृद्धवद्भार्या सदैवानुचरेत्पतिम् ॥ १३.२५०.२२ ॥
极度的愚昧与过度的嫉妒,她应远远地避开。妻子应当始终侍奉丈夫,像照顾孩童、也像照顾长者一样照料他。
13.250.23
भार्याया व्रतमित्येव कर्तव्यं सततं विभो ।
एतत्पतिव्रतावृत्तमुक्तं देव समासतः ॥ १३.२५०.२३ ॥
主啊,妻子的这一誓愿应当始终奉行。神啊,我已简要地说明了贞节妇人的行为。
13.250.24
न च भोगे न चैश्वर्ये न सुखे न धने तथा ।
स्पृहा यस्यास्तथा भर्तुः सा नारीणां पतिव्रता ॥ १३.२५०.२४ ॥
若她对享乐、权势、安乐和财富都无所贪求,丈夫也同样无此贪求,那么她便是女子中的贞顺之妇。
13.250.25
पतिर्हि दैवतं स्त्रीणां पतिर्बन्धुः पतिर्गतिः ।
नान्यं गतिमहं पश्ये प्रमदाया यथा पतिः ॥ १३.२५०.२५ ॥
对女人而言,丈夫就是神明,丈夫就是亲人,丈夫就是归宿。我看不到女子有比丈夫更好的归宿。
13.250.26
जातिष्वपि च वै स्त्रीत्वं विशिष्टं मे मतिः प्रभो ।
कायक्लेशेन महता पुरुषः प्राप्नुयात्फलम्।
तत्सर्वं लभते नारी सुखेन पतिपूजया ॥ १३.२५०.२६ ॥
主啊,在一切出生中,我认为女身最为殊胜。男子要以巨大的身体苦行才能获得果报;女子则因侍奉丈夫,轻易便能得到这一切。
13.250.27
यथासुखं पतिमती सर्वं पत्यनुकूलतः ।
ईदृशं धर्मसाकल्यं पश्य त्वं प्रमदां प्रति।
एतद्विसृज्य पच्यन्ते कुस्त्रियः पापमोहिताः ॥ १३.२५०.२७ ॥
忠于丈夫、顺从丈夫的妻子,能轻易得到一切。你看女子身上这般完满的法。那些抛弃它、被罪恶迷惑的恶妇,则要受苦。
13.250.28
तपश्चर्या च दानं च पतौ तस्याः समर्पितम् ।
रूपं कुलं यशस्तेजः सर्वं तस्मिन्प्रतिष्ठितम् ॥ १३.२५०.२८ ॥
她的苦修与布施都奉献给了丈夫。容貌、家族、名誉与光辉,皆安立于他身上。
13.250.29
एवं व्रतसमाचाराः स्ववृत्तेनैव शोभनाः ।
स्वभर्त्रा च सम गच्छेत्पुण्यलोकान्सुकर्मणा ॥ १३.२५०.२९ ॥
如此,誓戒的修持唯因自身的德行而光彩。愿她借善行与丈夫同往福德之界。
13.250.30
वृद्धो विरुपो बीभत्सो धनवान्निर्धनोऽपि वा ।
एवंभूतोपि वै भर्ता स्त्रीणां भूषणमुत्तमम् ॥ १३.२५०.३० ॥
无论年老、丑陋、可厌,或富或贫,即便是这样的丈夫,也是女子最上等的装饰。
13.250.31
आढ्यं वा रूपयुक्तं वा विरूपं धनवर्जितम् ।
या पतिं तोषयेत्साध्वी सा पत्नीनां विशिष्यते ॥ १३.२५०.३१ ॥
无论丈夫富有或英俊,还是丑陋贫穷,能够使丈夫欢悦的贤德妻子,才是妻子中最为卓越的。
13.250.32
दरिद्रांश्च विरूपाश्च प्रमूढान्कुष्टसंयुतान् ।
पतीनुपचरेल्लोकानक्षयान्प्रतिपद्यते ॥ १३.२५०.३२ ॥
即使丈夫贫穷、丑陋、愚昧或患有麻风病,仍然侍奉他的妻子,便能获得不灭的世界。
13.250.33
एवं प्रवर्तमानायाः पतिः पूर्वं म्रियेत चेत् ।
तदाऽनुमरणं गच्छेत्पुनर्धर्मं चरेत वा ॥ १३.२५०.३३ ॥
若行事如此的女子之丈夫先死,她可以殉夫而死,或者再度奉行法道。
13.250.34
एतदेवं मया प्रोक्तं स्त्रियस्तु बहुधा स्मृताः ।
देवदानवगन्धर्वा मनुष्या इति नैकधा ॥ १३.२५०.३४ ॥
我已如此宣说。女子被称为有多种:天神、阿修罗、乾闼婆及人类,如此种种,不一而足。
13.250.35
सौम्यशीलाः शुभाचाराः सर्वास्ताः सम्भवन्ति च ।
यथा शुभं प्रवक्ष्यामि स्त्रीणां धर्मं महेश्वर ॥ १३.२५०.३५ ॥
她们都可以变得性情温和、行为端正。大自在天啊,我将宣说女子之法,如吉祥之道所示。
13.250.36
आसुर्यश्चैव पैशाच्यो राक्षस्यश्च भन्ति हि ।
तासां वृत्तमशेषेण श्रूयतां लोककारणात् ॥ १३.२५०.३६ ॥
另有阿修罗女、毕舍遮女与罗刹女。为世间之故,请完整听闻她们的行为。
13.250.37
न्यायतो वाऽन्यथा प्रोक्ता भावदोषसमन्विताः ।
भर्तॄनुपचरन्त्येव रागद्वेषबलात्कृताः ॥ १३.२५०.३७ ॥
无论依正理或不依正理被称说,具有心性缺陷,受贪爱与憎恶之力所驱使,她们仍然侍奉丈夫。
13.250.38
स्वधर्मविमुखा भूत्वा प्रदूष्यन्ति यतस्ततः ।
प्रवृद्दविषया नित्यं प्रतिकूलं वदन्ति च ॥ १३.२५०.३८ ॥
背离自身之法,她们处处堕落;感官愈加放纵,她们总是说反话。
13.250.39
अर्थान्विनाशयन्त्येवं न गृह्णन्ति हितं क्वचित् ।
स्वबुद्धिनिरता भूत्वा जीवन्ति च यथा तथा ॥ १३.२५०.३९ ॥
如此她们毁坏自己的目的,从不接受有益之事;沉溺于自己的见解,只是随遇而生活。
13.250.40
गुणवत्यः क्वचिद्भूत्वा पतिधर्मपरा इव ।
पुनर्भवन्ति पापिष्ठा विषमं वृत्तमास्थिताः ॥ १३.२५०.४० ॥
有时她们变得贤德,仿佛专注于丈夫之法;然后又成为极其罪恶之人,采取乖戾的行为。
13.250.41
अनवस्थितमर्यादा बहुवेषा व्यवस्थिताः ।
असन्तुष्टाश्च लुब्धाश्च ईर्ष्याक्रोधयुता भृशम् ॥ १३.२५०.४१ ॥
礼法界限不定,多种装扮而立身,不知足且贪婪,充满嫉妒与愤怒。
13.250.42
भोगप्रिया हितद्वेष्याः कामभोगपरायणाः ।
प्रायशोऽनृतभूयिष्ठा गुरूणां प्रतिलोमकाः ॥ १३.२५०.४२ ॥
爱好享乐,憎恶有益之事,专致于欲望的享受,大多充满虚妄,违逆长辈。
13.250.43
एवंवृत्तसमाचारा आसुरं भावमाश्रिताः ।
अपकारपरा नित्यं सततं कलहप्रिया ॥ १३.२५०.४३ ॥
行为如此、已堕入阿修罗本性的女子,始终以伤害他人为务,且总是喜好争吵。
13.250.44
परुषा रुक्षवचना निर्घृणा निरपत्रपाः ।
निःस्नेहाः क्रोधनाश्चैव भर्तृपुत्रस्वबन्धुषु ॥ १३.२५०.४४ ॥
言语粗暴、刻薄无情、毫无羞耻、缺乏情爱,且对丈夫、儿子和亲族易怒。
13.250.45
घोरा मांसप्रिया नित्यं हसन्ति च रुदन्ति च ।
पतीन्व्यभिचरन्त्येव दुर्मार्गेण यथा तथा।
बन्धुभिर्भर्त्सिता भूत्वा गृहकार्याणि कुर्वते ॥ १३.२५०.४५ ॥
她们残忍可怖,常好食肉,时而欢笑,时而哭泣;甚至背叛丈夫,无论如何都走上邪路。受到亲族责备后,才去做家务。
13.250.46
अथवा भर्त्सिता देव निवृत्ताः स्वेषु कर्मसु ।
तथैवात्मवधं घोरं व्यवस्येयुर्न संशयः ॥ १३.२५०.४६ ॥
或者,天神啊,当她们受到责备时,便会背弃自己的本分,同样地决意走向可怕的自我毁灭,这毫无疑问。
13.250.47
निर्दया निरनुक्रोशाः कुटुम्बार्थविलोपकाः ।
धर्मर्थरहिता घोराः सततं कुर्वते क्रियाः ॥ १३.२५०.४७ ॥
她们无情而缺乏慈悲,毁坏家族的福祉;缺乏法与财富,残忍可怖,始终做出这类行为。
13.250.48
अनर्थे निपुणाः पापाः परप्राणेषु निर्दयाः ।
एवंयुक्तसमाचाराः स्त्रियः पैशाचमाश्रिताः ॥ १३.२५०.४८ ॥
擅长作恶、罪孽深重、对他人生命毫无怜悯、行为如此、已堕入鬼怪本性的女子。
13.250.49
अपरा मोहसंयुक्ता निर्लज्जा रोदनप्रियाः ।
अशुद्धा मलदिग्धाङ्ग्य पानमांसरता भृशम्।
वदन्त्यनृतवाक्यानि हसन्ति विलपन्ति च। ॥ १३.२५०.४९ ॥
其他女人充满迷惑,无耻而喜好哭泣,身体不净,肢体沾满污秽,极度沉溺于饮酒与肉食。她们说虚假的话,笑,又哀号。
13.250.50
दुष्पसादा महाक्रोधाः स्वप्नशीला निरन्तरम् ।
तामस्यो नष्टतत्वार्था मन्दशीला महोदराः।
भुञ्जते विविधं सिद्धं भोजनं तीव्रसम्भ्रमाः ॥ १३.२५०.५० ॥
难以取悦,极易发怒,经常贪睡,为昏暗所支配,失去了真实之义,性情迟钝,腹部硕大。她们急急忙忙地吃各种烹制好的食物。
13.250.51
गुणरूपवयोयुक्तं पतिं कामिनमुत्तमम् ।
हित्वाऽन्येनैव गच्छन्ति सर्वधा भृशतापिताः ॥ १३.२५०.५१ ॥
抛弃具备德行、美貌和青春、优秀而多情的丈夫,她们极度痛苦,却全然地投奔另一个男人。
13.250.52
निर्लज्जा धर्मसन्दिग्धाः प्रतिकूलाः समन्ततः ।
एवंरूपसमाचाराः स्त्रियो राक्षसमाश्रिताः ॥ १३.२५०.५२ ॥
无耻、对法有疑、处处违逆,行为如此的女人便投靠罗刹的本性。
13.250.53
एवंविधानां सर्वासां न परत्र महासुखम् ।
नरकाद्विप्रमुक्तानां मानुष्यं दुर्लभं भवेत् ॥ १३.२५०.५३ ॥
凡是这样的女人,在来世都得不到大的快乐;即使从地狱中解脱出来,人身对她们来说也很难获得。
13.250.54
कष्टं तत्रापि भुञ्जन्ते स्वकृतं दुःखजं बहु ।
दरिद्राः क्लेशभूयिष्ठा विरूपाः कुत्सिताः परैः।
विधवा दुर्भगा वाऽपि लभन्ते दुःखमीदृशम् ॥ १३.२५०.५४ ॥
她们在那里也要承受大量因自身所作而生的痛苦:贫穷、充满苦恼、丑陋、被他人轻视的人,或寡居、命运不幸的人,都会遭受这样的苦难。
13.250.55
शतवर्षसहस्राणि निरयं व्यभिचारिणी ।
व्रजेत्पतिं च पापेन संयोज्य स्वकुलं तथा ॥ १३.२५०.५५ ॥
通奸的妇人会在地狱中停留数十万年,并因她的罪过,也把她的丈夫和自己的家族拖入其中。
13.250.56
एतद्विज्ञाय पतितं पुनश्चेद्धितमात्मनः ।
कुर्याद्भर्तारमाश्रित्य तथा धर्मवमाप्नुयात् ॥ १३.२५०.५६ ॥
若堕落的女子明白此理,为了自身的利益重新依托丈夫而行事,她便能得到法。
13.250.57
अतिसंयान्ति ताँल्लोकान्पुण्यान्परमशोभनान् ।
अवमत्य च याः पूर्वं पतिं दुष्टेन चेतसा ॥ १३.२५०.५७ ॥
那些过去轻慢丈夫、怀着恶念行事的女子,不能到达那些功德之处、极其庄严美好的世界。
13.250.58
वर्तमानास्च सततं भर्तॄणां प्रतिकूलतः ।
भर्त्रानुमरणं काले याः कुर्वन्ति तथाविधाः ॥ १३.२५०.५८ ॥
那些常常违逆丈夫、又在适当时候随夫殉死(随死)的女子,便是这类人。
13.250.59
कामात्क्रोधाद्भयाल्लोभादपहास्या भवन्ति ताः ।
आदिप्रभृति कुस्त्रीणां तथाऽनुमरणं वृथा ॥ १३.२५०.५९ ॥
因欲望、愤怒、恐惧与贪婪,她们成为被嘲笑的对象;对于恶劣的女子,随夫而死自始便是徒劳。
13.250.60
आदिप्रभृति या साध्वी पत्युः प्रियपरायणा ।
ऊर्ध्वं गच्छति सा पूता भर्त्राऽनुमरणं गता ॥ १३.२५०.६० ॥
从一开始就一心让丈夫欢喜的贤德妇人,随夫殉死后,便得清净,向上而去。
13.250.61
एवं मृताया वै लोकानहं पश्यामि चक्षुषा ।
स्पृहणीयान्सुरगणैर्यान्गच्छन्ति पतिव्रताः ॥ १३.२५०.६१ ॥
如此殉死之妇,我亲眼看见她们所往的世界——连诸天神众也羡慕的,贞节妻子所去的世界。
13.250.62
अथवा भर्तरि मृते वैधव्यं धर्ममाश्रिताः ।
तूष्णीं भौमं जले नित्यमञ्जलिस्नानमुत्तमम्।
व्रतं च पतिमुद्दिश्य कुर्यश्चैव विधिं ततः ॥ १३.२५०.६२ ॥
或者,丈夫死后,她应当持守寡妇之法,默然卧于地上,每日以合掌之礼在水中沐浴,这是至上的誓愿;并应念着丈夫行其仪轨。
13.250.63
एवं गच्छति सा नारी पतिलोकमनुत्तमम् ।
रमणीयमनिर्देश्यं दुष्प्रापं देवमानुषैः ॥ १३.२५०.६३ ॥
如此,这位女子便往丈夫至上的世界而去——那是可爱、不可言说、连神与人都难以到达的境界。
13.250.64
प्राप्नुयात्तादृशं लोकं केवलं या पतिव्रता ।
इति ते कथितं देव स्त्रीणां धर्मिमनुत्तमम् ॥ १३.२५०.६४ ॥
能到达这样世界的,唯有贞节妻子。天神啊,这样,我已为您讲说了女子至上的法。
13.250.65
भवतः प्रियकामिन्या यन्मयोक्तं तवाग्रतः ।
चापल्यान्मम देवेश तद्भवान्क्षन्तुमर्हति ॥ १३.२५०.६५ ॥
我身为您所爱之人,在您面前所说的话,是出于轻率。天神之主啊,请您宽恕我。
13.250.66
एवं वदन्तीं रुद्राणीं लज्जाभावसमन्विताम् ।
प्रशशंस च देवेशो वाचा सञ्जनयन्प्रियम् ॥ १३.२५०.६६ ॥
诸神之主赞美了这样说话、心怀羞涩的鲁陀罗尼,以言语令她欢喜。
13.250.67
ऋषयो देवगन्धर्वाः प्रमदाश्च सहस्रशः ।
प्रणम्य शिरसा देवीं स्तुतिभिश्चाभितुष्टुवुः ॥ १३.२५०.६७ ॥
诸仙人、天神、乾闼婆与成千上万的女子,向女神低头致礼,以颂歌充分赞美她。
13.250.68
पूजयामासुरपरे देवदेव मुदा युताः ।
संवादं चिन्तयन्त्यन्ते श्रद्दधानाः सुचेतसः ॥ १३.२५०.६८ ॥
其他人欢喜地礼拜,诸神之神啊;随后,怀着信心与善良之心,他们开始思索这段对话。
13.250.69
ततस्तु देवदेवेशो देवीं वचनमब्रवीत् ।
शृणु कल्याणि मद्वाक्यं संवादोऽयं मया तव।
पुण्यं पवित्रं ख्यातं च भविता नात्र संशयः ॥ १३.२५०.६९ ॥
于是天神之主对女神说:“吉祥者啊,听我的话;我们的这段对话将是功德的、圣洁的、并且闻名的,此中无疑。”
13.250.70
य इमं श्रावयेद्विद्वान्संवादं चावयोः प्रिये ।
शुचिर्भूत्वा नरान्युक्तान्स तैः स्वर्गं व्रजेत्सुखम् ॥ १३.२५०.७० ॥
凡有智者,将我们的这段对话,爱人啊,讲给合宜之人听,他便清净,与他们一同欢乐地升入天界。
13.250.71
यस्त्वेनं शृणुयान्नित्यं संवादं चावयोः शुभम् ।
कीर्तिमायुष्यमारोग्यं लभते स गतिं पराम् ॥ १३.२५०.७१ ॥
若有人时常聆听我们这段吉祥的对话,便得名声、长寿与健康,并达到至高的归宿。