Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 13.251

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

13.251.1

पिनाकिन्भगनेत्रघ्न सर्वलोकनमस्कृत ।
महात्म्यं वासुदेवस्य श्रोतुमिच्छाम शङ्कर ॥ १३.२५१.१ ॥

ピナーキン(弓を持つ者)よ、バガの眼を滅ぼした者よ、全世界から礼拝されるシャンカラよ!我らはヴァースデーヴァの偉大さを聞きたいと思う。

13.251.2

पितामहादपि वरः शाश्वतः पुरुषो हरिः ।
कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः ॥ १३.२५१.२ ॥

祖父(ブラフマー)よりもさらに優れた永遠のプルシャ、ハリ、クリシュナは、ジャンブーナダの金のように輝き、雲一つない空に昇った太陽のようである。

13.251.3

दशबाहुर्महातेजा देवतारिनिषूदनः ।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः ॥ १३.२५१.३ ॥

十本の腕を持つ大いなる光輝の者、神々の敵を滅ぼす者、シュリーヴァトサの印を持つフリシーケーシャ、すべての神々に崇拝される者。

13.251.4

ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः ।
शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुराऽसुराः ॥ १३.२५१.४ ॥

ブラフマーは彼の腹から生まれ、私は彼の頭から生まれた。頭髪から光明が生じ、体毛から神々と阿修羅が生じた。

13.251.5

ऋषयो देहसम्भूतास्तस्य लोकाश्च शाश्वताः ।
पितामहगृहं साक्षात्सर्वदेवगृहं च सः ॥ १३.२५१.५ ॥

聖仙たちは彼の身体から生まれ、彼の世界は永遠である。彼自身がまさに祖父(ブラフマー)の住処であり、すべての神々の住処である。

13.251.6

सोस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः ।
संहर्ता चैव भूतानां स्थावरस्य चरस्य च ॥ १३.२५१.६ ॥

彼はこの大地全体の創造者であり三界の主であり、また不動のものと動くものすべての存在の破壊者でもある。

13.251.7

स हि देववरः साक्षाद्देवनाथः परन्तपः ।
सर्वज्ञः सर्वसंश्लिष्टः सर्वगः सर्वतोमुखः ॥ १३.२५१.७ ॥

彼こそ神々の中で最も尊く、まさに神々の主であり、敵を焼く者である。全知にして万物と結ばれ、遍在し、あらゆる方向に顔を向けている。

13.251.8

परमात्मा हृषीकेशः सर्वव्यापी महेश्वरः ।
न तस्मात्परमं भूतं त्रिषु लोकेषु किञ्चन ॥ १३.२५१.८ ॥

彼は至高の自我、感官の主、遍在者、偉大な主である。三界のなかに彼より高い存在はない。

13.251.9

सनातनो वै मधुहा गोविन्द इति विश्रुतः ।
स सर्वान्पार्तिवान्सङ्ख्ये घातयिष्यति मानदः ॥ १३.२५१.९ ॥

彼は永遠なるマドゥの殺害者であり、ゴーヴィンダの名で知られる。栄誉を与える者は、戦いで全ての王を殺させるであろう。

13.251.10

सुरकार्यार्थमुत्पन्नो मानुषं वपुरास्थितः ।
न हि देवगणाः शक्तास्त्रिविक्रमविनाकृताः ॥ १३.२५१.१० ॥

神々の務めのために、彼は人の身体をとって生まれた。三歩の神トリヴィクラマなしには、神々の群れは実際にはなしえない。

13.251.11

भुवने देवकार्याणि कर्तुं नायकवर्जिताः ।
नायकः सर्वभूतानां सर्वदेवनमस्कृतः ॥ १३.२५१.११ ॥

指導者がいなければ、神々は世界で神々の務めを果たすことができない。彼はあらゆる存在の指導者であり、すべての神々に礼拝される。

13.251.12

एतस्य देवनाथस्य देवकार्यपरस्य च ।
ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च ॥ १३.२५१.१२ ॥

神々の主であり、常に神々の務めに専念し、ブラフマンとなり、ブラフマルシ(梵仙)たちの避難所である彼について。

13.251.13

ब्रह्मा वसति गर्भस्थः शरीरे सुखसंस्थितः ।
शर्वः सुखं संश्रितश्च् शरीरे सुखसंस्थितः ॥ १३.२५१.१३ ॥

ブラフマーは胎内に留まり、身体の中に安楽に住む。シャルヴァもまた身体に安らかに寄り、安楽に住む。

13.251.14

सर्वाः सुखं संश्रिताश्च शरीरे तस्य देवताः ।
स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥ १३.२५१.१४ ॥

彼の身体には諸神がみな安らかに宿る。その神は蓮華眼、シュリーの胎であり、シュリーと共に住まう。

13.251.15

शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वज ।
उत्तमेन स शीलेन दमेन च शमेन च ॥ १३.२५१.१५ ॥

シャールンガの弓と円盤を武器とし、剣を執り、すべての蛇の敵を旗印とする。彼は最上の品行、自制、寂静を備える。

13.251.16

पराक्रमेण वीर्येण वपुषा दर्शनेन च ।
आरोहेणि प्रमाणेन धैर्येणार्जवसम्पदा ॥ १३.२५१.१६ ॥

武勇、力、身体、容貌、身長、適度な均整、忍耐、そして直き心の富を備える。

13.251.17

आनृशंस्येन रूपेण बलेन न समन्वितः ।
अस्त्रैः समुदितः सर्वैर्दिव्यैरद्भुतदर्शनैः ॥ १३.२५१.१७ ॥

慈悲、美しさ、力を備え、すべての神聖で見事な外観の武器を具える。

13.251.18

योगमायः सहस्राक्षो निरपायो महामनाः ।
वीरो मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः ॥ १३.२५१.१८ ॥

ヨーガ・マーヤーの主、千眼、誤りなき者、大心の英雄、友に讃えられ、親族に愛される者。

13.251.19

क्षमावांश्चानहंवादी ब्रह्मण्यो ब्रह्मनायकः ।
भयहर्ता भयार्तानां मित्राणां नन्दिवर्धनः ॥ १३.२५१.१९ ॥

彼は忍耐強く、驕らず、バラモンを敬い、梵の知の導き手である。恐れに苦しむ者の恐れを取り除き、友の喜びを増す。

13.251.20

शरण्यः सर्वभूतानां दीनानां पालने रतः ।
श्रुतवानर्थसम्पन्नः सर्वभूतनमस्कृतः ॥ १३.२५१.२० ॥

彼は一切の生き物の拠り所であり、弱き者を守ることを喜ぶ。学識があり、富に恵まれ、すべての生き物から礼拝される。

13.251.21

समाश्रितानां वरदः शत्रूणामपि धर्मवित् ।
नीतिज्ञो नीतिसम्पन्नो ब्रह्मवादी जितेन्द्रियः ॥ १३.२५१.२१ ॥

彼は帰依する者に恩恵を与え、敵に対してさえ法を知る。政略を知り、政略に秀で、梵の言葉を語り、感官を制している。

13.251.22

भवार्थमिह देवानां बुद्ध्या परमया युतः ।
प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते ॥ १३.२५१.२२ ॥

ここで神々の利益のため、最高の智慧を備えた彼は、プラジャーパティの吉祥の道、法によって洗練された人の道に現れるであろう。

13.251.23

समुत्पत्स्यति गोविन्दो मनोर्वंशे महात्मनः ।
अङ्गो नाम मनोः पुत्रो अन्तर्धामा ततः परः ॥ १३.२५१.२३ ॥

ゴーヴィンダは偉大なるマヌの系統に生まれるであろう。マヌの息子の名はアンガ、その次がアンタルダーマーである。

13.251.24

अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः ।
प्राचीनबर्हिर्भविता हविर्धाम्नः सुतो महान् ॥ १३.२५१.२४ ॥

アンタルダーマーの息子はハヴィルダーマーで、無垢なる生主である。ハヴィルダーマーの偉大な息子はプラーチーナバルヒとなるであろう。

13.251.25

तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः ।
प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः ॥ १३.२५१.२५ ॥

彼にはプラチェタスを筆頭とする十人の息子が生まれ、プラチェタスの後にはダクシャがここで生類の主となる。

13.251.26

दाक्षायण्यास्तथाऽऽदित्यो मनुरादित्यतस्तथा ।
मनोश्च वंशज इला सुद्युम्नश्च भविष्यति ॥ १३.२५१.२६ ॥

ダークシャーヤニーからアーディティヤが生まれ、アーディティヤからマヌが生まれる。マヌの系統にはイラーが生まれ、スドゥユムナも生まれる。

13.251.27

बुधात्पुरूरवाश्चापि तस्मादायुर्भविष्यति ।
नहुषो भविता तस्माद्ययातिस्तस्य चात्मजः ॥ १३.२५१.२७ ॥

ブダからプルーラヴァスが生まれ、彼からアーユスが生まれる。彼からナフシャが生まれ、その子がヤヤーティである。

13.251.28

यदुस्तस्मान्महासत्वः क्रोष्टा तस्माद्भविष्यति ।
क्रोष्टुश्चैव महान्पुत्रो वृजिनीवान्भविष्यति ॥ १३.२५१.२८ ॥

彼から大力のヤドゥが生まれ、そこからクロシュタが生まれる。クロシュタの偉大な息子はヴリジニーヴァーンとなる。

13.251.29

वृजिनीवतश्च भविता उषङ्गुरपराजितः ।
उषङ्गोर्भविता पुत्रः शूरश्चित्ररथस्तथा।
तस्य त्ववरजः पुत्रः शूरो नाम भविष्यति ॥ १३.२५१.२९ ॥

ヴリジニーヴァットからは不敗のウシャンガが生まれ、ウシャンガの子はシューラとチトララタとなる。その末の息子はシューラという名となる。

13.251.30

तेषां विख्यातवीर्याणां चरित्रगुणशालिनाम् ।
यज्वनां सुविशुद्धानां वंशे ब्राह्मणसम्मते ॥ १३.२५१.३० ॥

その名高い武勇を持ち、徳行と美質を備え、供犠を行い、極めて清浄で、バラモンに認められた人々の系統において。

13.251.31

स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः ।
स्ववंशविस्तरकरं जनयिष्यति मानदः।
वसुदेव इति ख्यातं पुत्रमानकदुन्दुभिम् ॥ १३.२५१.३१ ॥

彼は勇士、クシャトリヤの中の最上者、大いなる勇猛と大いなる名声をもつ、名誉を与える者であり、一族を広げる、ヴァスデーヴァとして知られるアーナカドゥンドゥビという息子をもうけるであろう。

13.251.32

तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति ।
दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः। ॥ १३.२५१.३२ ॥

彼の息子は四臂のヴァースデーヴァとなるであろう。彼は布施者、バラモンを敬う者、ブラフマンと化した者、再生族に愛される者である。

13.251.33

राज्ञो मागधसंरुद्धान्मोक्षयिष्यति यादवः ॥ १३.२५१.३३ ॥

ヤーダヴァは、マガダの(王)に監禁された王たちを解放するであろう。

13.251.34

जरासन्धं तु राजानं निर्जित्य गिरिगह्वरे ।
सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् ॥ १३.२५१.३४ ॥

山の洞窟で王ジャラーサンダを征服し、その力ある者は諸王の宝玉すべてに富むであろう。

13.251.35

पृथिव्यामप्रतिहतो वीर्येण च भविष्यति ।
विक्रमेण च सम्पन्नः सर्वपार्थिवपार्थिवः ॥ १३.२५१.३५ ॥

地上で彼は武勇によって無敵となり、武勇に恵まれて、諸王の王となるであろう。

13.251.36

शूरसेनेषु भूत्वा स द्वारकायां वसन्प्रभुः ।
पालयिष्यति गां देवीं विजित्य नयवित्सदा ॥ १३.२५१.३६ ॥

シューラセーナの間に生まれ、ドヴァーラカーに住むその主は、政道に通じ、征服して、常に女神なる大地を守護するであろう。

13.251.37

तं भवन्तः समासाद्य वाङ्भाल्यैरर्हणैर्वरैः ।
अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम् ॥ १३.२५१.३७ ॥

あなた方は彼に近づき、言葉と花環と優れた供物によって、永遠なるブラフマーを礼拝するように、作法通りに彼を礼拝せよ。

13.251.38

यो हि मां द्रष्टुमिच्छेत ब्रह्माणं च पितामहम् ।
द्रष्टव्यस्तेन भगवान्वासुदेवः प्रतापवान् ॥ १३.२५१.३८ ॥

私或いは祖父ブラフマーを見たいと願う者は、威力ある世尊ヴァースデーヴァを見るべきである。

13.251.39

दृष्टे तस्मिन्नहं दृष्टो न मेऽत्रास्ति विचारणा ।
पितामहो वा देवेश इति वित्त तपोधनाः ॥ १३.२५१.३९ ॥

彼を見ることは私を見ることである。これに疑いはない。苦行に富む者たちよ、彼が祖父か神々の主かを知れ。

13.251.40

स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति ।
तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति ॥ १३.२५१.४० ॥

蓮華眼の主が喜ぶ者には、ブラフマーを先頭とする神々の群れもまた喜ぶであろう。

13.251.41

यश्च तं मानवे लोके संश्रयिष्यति केशवम् ।
तस्य कीर्तिर्जयश्चैव स्वर्गश्चैव भविष्यति ॥ १३.२५१.४१ ॥

人間界においてケーシャヴァに帰依する者には、名声と勝利、そして天界が必ず与えられるであろう。

13.251.42

धर्माणां देशिकः साक्षात्स भविष्यति धऱ्मिभाक् ।
धर्मवद्भिः स देवेशो नमस्कार्यः सदोद्यतैः ॥ १३.२५१.४२ ॥

彼は直接にダルマの教師となり、ダルマに与る者となるであろう。ダルマに通じた者たちは常に心を整えて、その神々の主を礼拝すべきである。

13.251.43

धर्म एव परो हि स्यात्तस्मिन्नभ्यर्चिते विभौ ।
सहि देवो महातेजाः प्रजाहितचिकीर्षया ॥ १३.२५१.४३ ॥

その遍在の主が崇拝されるとき、ダルマこそが至高となる。大いなる輝きを持つその神は、生きとし生けるものの利益を望んで、そのようにされるのである。

13.251.44

धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज ह ।
ताः सृष्टास्तेन विभुना पर्वते गन्धमादने ॥ १३.२५१.४४ ॥

ダルマのために、その人中の虎は数千万のリシを創造された。その遍在の主によって創造された彼らは、ガンダマーダナ山に住んだ。

13.251.45

सनत्कुमारप्रमुखास्तिष्ठन्ति तपसाऽन्विताः ।
तस्मात्स वाग्मी धर्मज्ञो नमस्यो द्विजपुङ्गवाः ॥ १३.२५१.४५ ॥

サナトクマーラを筆頭とする者たちは苦行に満ちて立っている。ゆえに彼は雄弁で、ダルマに通じ、礼拝に値する。再生者の中の最良の者たちよ。

13.251.46

दिवि श्रेष्ठो हि भगवान्हरिर्नारायणः प्रभुः ।
वन्दितो हि स वन्देत मानितो मानयीत च।
अर्हितश्चार्हयेन्नित्यं पूजितः प्रतिपूजयेत् ॥ १३.२५१.४६ ॥

天界で最も優れているのは、世尊ハリ・ナーラーヤナ主である。礼拝された者は礼拝を返し、敬われた者は敬いを返し、崇められた者は常に崇めを返し、供養された者は供養を返す。

13.251.47

दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत् ।
अर्चितश्चार्चयेन्नित्यं स देवो द्विजसत्तमाः ॥ १३.२५१.४७ ॥

見られる者は日々それを見返し、帰依される者は帰依を返し、崇められる者は常に崇めを返す。その神こそが彼である、再生者の中の最良の者たちよ。

13.251.48

एतत्तस्यानवद्यस्य विष्णोर्वै परमं व्रतम् ।
आदिदेवस्य महतः सज्जनाचरितं सदा ॥ १३.२५१.४८ ॥

これこそ、かの無垢なるヴィシュヌ、偉大な始原の神の至高の誓願であり、善き人々が常に実践するものである。

13.251.49

भुवनेऽभ्यर्चितो नित्यं देवैरपि सनातनः ।
अभयेनानुरूपेणि युज्यन्ते तमनुव्रताः ॥ १३.२५१.४९ ॥

世界において神々にさえ常に崇拝されるその永遠なる方と、その誓いに従う者たちは、恐れなく、ふさわしい仕方で結ばれる。

13.251.50

कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा ।
यत्नवद्भिरुपस्थाय द्रष्टव्यो देवकीसुतः ॥ १३.२५१.५० ॥

行為と心と言葉によって、彼は常に再生族から礼拝されるべきである。努める者は近づいてデーヴァキーの子を見るべきである。

13.251.51

एष वोऽभिहितो मार्गो मया वै मुनिसत्तमाः ।
तं दृष्ट्वा सर्वशो देवं दृष्टाः स्युः सुरसत्तमाः ॥ १३.२५१.५१ ॥

最上の聖仙たちよ、この道をわたしはあなたがたに告げた。その神をあらゆる仕方で見れば、最上の神々も見えるであろう。

13.251.52

महावराहं तं देवं सर्वलोकपितामहम् ।
अहं चैव नमस्यामि नित्यमेव जगत्पतिम् ॥ १३.२५१.५२ ॥

あの大いなるイノシシの神、すべての世界の祖父を、わたしもまた常に礼拝する。世界の主を。

13.251.53

तत्र च त्रितयं दृष्टं भविष्यति न संशयः ।
समस्ता हि वयं देवास्तस्य देहे वसामहे ॥ १३.२५१.५३ ॥

そこでは三者も見えるであろう、疑いはない。われら神々は皆、その身体に住んでいるのだから。

13.251.54

तस्य चैवाग्रजो भ्राता सिताद्रिनिचयप्रभः ।
हली बल इति ख्यातो भविष्यति धराधरः ॥ १३.२५१.५४ ॥

その兄は白い山々の集まりのように輝き、鋤を持つ「バラ」という名で知られ、大地を支える者となるであろう。

13.251.55

त्रिशिरास्तस्य दिव्यश्च सातकुम्भमयो द्रुमः ।
ध्वजस्तृणेन्द्रो देवस्य भविष्यति रथाश्रितः ॥ १३.२५१.५५ ॥

彼の神聖な三頭の樹は黄金でできており、神の戦車に据えられた旗となるであろう。それは草の王である。

13.251.56

शिरो नागैर्महाभोगैः परिकीर्णं महात्मभिः ।
भविष्यति महाबाहोः सर्वलोकेश्वरस्य च ॥ १३.२५१.५६ ॥

大いなる頭巾を持つ高貴な蛇々に囲まれた頭は、その大腕の、全世界の主のものとなるであろう。

13.251.57

चिन्तितानि समेष्यन्ति शस्त्राण्यस्त्राणि चैव ह ।
अनन्तश्च स अवोक्तो भगवान्हरिरव्ययः ॥ १३.२५१.५७ ॥

思い描かれた武器と矢は集まるであろう。そしてアナンタと呼ばれるのは、尊き不滅のハリである。

13.251.58

समादिष्टश्च विबुधैर्दर्शय त्वमिति प्रभो ।
सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली।
अन्तं नैवाशकद्द्रष्टुं देवस्य परमात्मनः ॥ १३.२५१.५८ ॥

主よ、神々はあなたに命じた。「示せ」と。その力によってカシュヤパの強き子スパルナ(ガルダ)でさえ、あの至高の我なる神の終わりを見ることができなかった。

13.251.59

स च शेषो विचरते परया वै मुदा युतः ।
अन्तर्वसति भोगेन परिरभ्य वसुन्धराम् ॥ १३.२५१.५९ ॥

そのシェーシャは最上の喜びに満ちて歩み、とぐろで大地を抱きしめて、その内に住む。

13.251.60

य एव विष्णुः सोऽनन्तो भगवान्वसुधाधरः ।
यो रामः स हृषीकेशो योच्युतः स धराधरः ॥ १३.२५१.६० ॥

ヴィシュヌであるその方こそ尊き無限者、大地を支える者である。ラーマであるその方がフリシーケーシャ、アチュユタであるその方が大地を支える者である。

13.251.61

तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ ।
द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ ॥ १३.२५१.६१ ॥

二人とも人中の虎であり、神聖で神聖な武勇を備えている。彼らは拝見し敬うべきであり、円盤と鋤を執る者である。

13.251.62

एष वोऽनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः ।
यद्भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः ॥ १३.२५१.६२ ॥

苦行を富とする仙人たちよ、私は汝らにこの功徳ある恩寵を告げる。ヤドゥ族の最も優れた者を熱心に礼拝すべきである。