摩诃婆罗多 · 章 13.252
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.252.1
अथ व्योम्नि महाञ्शब्दः सविद्युत्स्तनयित्नुमान् ।
मेघैश्च गगनं नीलं संरुद्धमभवद्धनैः ॥ १३.२५२.१ ॥
于是天空中响起巨大的声响,伴随闪电与雷鸣,蔚蓝的天空被浓密的云层遮蔽。
13.252.2
प्रावृषीव च पर्जन्यो ववृषे निर्मलं पयः ।
तमश्वैवाभवद्धोरं दिशश्च न चकाशिरे ॥ १३.२५२.२ ॥
如同雨季一般,云层降下清澈的雨水;那黑暗变得可怕,四方都不再明亮。
13.252.3
ततो देवगिरौ तस्मिन्रम्ये पुण्ये सनातने ।
न शर्वं भूतसङ्घं वा ददृशुर्मनयस्तदा ॥ १३.२५२.३ ॥
那时,在那美丽、神圣、永恒的神山上,诸仙人既不见湿婆(Śarva),也不见众生之群。
13.252.4
व्यभ्रं च गगनं सद्यः क्षणेन समपद्यत ।
तीर्थयात्रां ततो विप्रा जग्मुश्चान्ये यथागतम् ॥ १३.२५२.४ ॥
顷刻之间,天空立即无云。于是婆罗门们前往朝圣,其他人则按原路返回。
13.252.5
तदद्भुतमचिन्त्यं च दृष्ट्वा ते विस्मिताऽभवन् ।
शङ्करस्योमया सार्धं संवादं त्वत्कथाश्रयम् ॥ १३.२५२.५ ॥
他们见到那奇妙而不可思议的景象,都感到惊异。湿婆与乌玛的那段对话,正是以你的故事为依据。
13.252.6
स भवान्पुरुषव्याघ्र ब्रह्मभूतः सनातनः ।
यदर्थमनुशिष्टा स्मो गिरिपृष्ठे महात्मना ॥ १३.२५२.६ ॥
人中之虎啊,你便是化为梵的永恒者;我们正是为了你,才在山顶受到那位大我的教诲。
13.252.7
द्वितीयं त्वद्भुतमिदं त्वत्तेजःकृतमद्य वै ।
दृष्ट्वा च विस्मिताः कृष्ण सा च नः स्मृतिरागता ॥ १३.२५२.७ ॥
克里希那啊,今日这由你的光辉所成的第二桩奇迹,我们见后惊异不已,那段记忆也重新回到了我们心中。
13.252.8
एतत्ते देवदेवस्य माहात्म्यं कथितं प्रभो ।
कपर्दिनो गिरीशस्य महाबाहो जनार्दन ॥ १३.२५२.८ ॥
主啊,此天神之神、结发之山主的伟大已向你述说;大臂的生主啊。
13.252.9
इत्युक्ताः स तदा कृष्णस्तपोवननिवासिभिः ।
मानयामास तान्सर्वानृषीन्देवकिनन्दनः ॥ १३.२५२.९ ॥
苦行林的居民如此说后,提婆吉之子克里希那便礼敬了所有那些仙人。
13.252.10
अथर्षयः सम्प्रहृष्टाः पुनस्ते कृष्ममब्रुवन् ।
पुनःपुनर्दर्शयास्मान्सदैव मधुसूदन ॥ १३.२५२.१० ॥
于是仙人们欢喜不已,又对克里希那说:摩图苏陀那啊,愿你时时刻刻,一次又一次地向我们显现。
13.252.11
न हि नः सा रति स्वर्गे या च त्वद्दर्शने विभो ।
तदृतं च महाबाहो यदाह भगवान्भवः ॥ १३.२५२.११ ॥
威力无边者啊,与你相见的那份喜悦,即使在天界我们也无从得到;大臂者啊,尊者婆婆所说之语确实属实。
13.252.12
एतत्ते सर्वमाख्यातं रहस्यमरिकर्शन ।
त्वमेव ह्यर्ततत्त्वज्ञः पृष्टोऽस्मान्पृच्छसे यदा ॥ १३.२५२.१२ ॥
摧毁敌人者啊,这一切秘密都已向你述说;你本身就通晓真实之理,然而当你被问及时,仍向我们发问。
13.252.13
तदस्माभिरिदं गुह्यं त्वत्प्रियार्थमुदाहृतम् ।
न च तेऽविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ १३.२५२.१३ ॥
因此我们为讨你欢喜而说出了这秘密。三界之中,没有任何事是你所不知的。
13.252.14
जन्म चैव प्रसूतिश्च यच्चान्यत्कारणं विभो ।
वयं तु बहुचापल्यादशक्ता गुह्यधारणे ॥ १३.२५२.१४ ॥
威力无边者啊,生与起源以及其他因由都已说明。但因我们太过轻浮,不能守住这秘密。
13.252.15
ततः स्थिते त्वयि विभो लघुत्वात्प्रलपामहे ।
न हि किञ्चित्तदाश्चर्यं यन्न वेत्ति भवानिह ॥ १३.२५२.१५ ॥
于是,威力无边者啊,你在此时,我们因轻浮而喋喋不休。这里没有任何奇事是你所不知道的。
13.252.16
दिवि वा भुवि वा देव सर्वं हि विदितं तव ।
साधयाम वयं कृष्ण बुद्धिं पुष्टिमवाप्नुहि ॥ १३.२५२.१६ ॥
无论在天上还是地上,神啊,一切都为你所知。克里希那啊,让我们完成使命吧;愿你获得智慧与力量。
13.252.17
पुत्रस्ते सदृशस्तात विशिष्टो वा भविष्यति ।
महाप्रभावसंयुक्तो दीप्तिकीर्तिकरः प्रभुः ॥ १३.२५२.१७ ॥
亲爱的,你的儿子将与你相当,甚至更为卓越,拥有大威力,能带来光辉与荣誉,是一位有能力的君主。
13.252.18
ततः प्रणम्य देवेशं यादवं पुरुषोत्तमम् ।
प्रदक्षिणमुपावृत्य प्रजग्मुस्ते महर्षयः ॥ १३.२५२.१८ ॥
于是,那些大仙向诸神之主、人中之尊的耶达瓦行礼,绕右而行,然后离去。
13.252.19
सोयं नारायणः श्रीमन्दीप्त्या परमया युतः ।
व्रतं यथावत्तच्चीर्त्वा द्वारकां पुनरागमत् ॥ १३.२५२.१९ ॥
那位光荣的那罗延,具足至上光明,如法圆满了那誓愿之后,又回到了德瓦拉卡。
13.252.20
पूर्णे च दशमे मासि पुत्रोऽस्य परमाद्भुतः ।
रुक्मिण्यां सम्मतो जज्ञे शूरो वंशधरः प्रभो ॥ १३.२५२.२० ॥
第十个月圆满之时,他在鲁克米尼处生下一子,极其奇妙、为人所爱、勇猛,是家族的承继者,主啊。
13.252.21
स कामः सर्वभूतानां सर्वभावगतो नृप ।
असुराणां सुराणां च चरत्यन्तर्गतः सदा ॥ १३.२५२.२१ ॥
那迦摩,啊国王,遍在于一切众生与一切存在状态之中;他常常在阿修罗与诸天之内往来。
13.252.22
सोयं पुरुषशार्दूलो मेघवर्णश्चतुर्भुजः ।
संश्रितः पाण्डवान्प्रेम्णा भवन्तश्चैनमाश्रिताः ॥ १३.२५२.२२ ॥
这位人中之虎,云色,四臂,以慈爱依附于般度诸子;你们也都依附于他。
13.252.23
कीर्तिर्लक्ष्मीर्धृतिश्चैवक स्वर्गमार्गस्तथैव च ।
यत्रैष संस्थितस्तत्र देवो विष्णुस्त्रिविक्रमः ॥ १३.२५२.२३ ॥
荣誉、吉祥、坚定,以及通往天界之路,都在他安住之处;那里便是神毗湿奴,三步之主。
13.252.24
सेन्द्रा देवास्त्रयस्त्रिंशदेष नात्र विचारणा ।
आदिदेवो महादेवः सर्वभूतप्रतिश्रयः ॥ १३.२५२.२४ ॥
连同因陀罗,三十三天神——此中无疑;他是原初之神,大天神,一切众生的依归。
13.252.25
अनादिनिधनोऽव्यक्तो महात्मा मधुसूदनः ।
अयं जातो महातेजाः सुराणामर्थसिद्धये ॥ १३.२५२.२५ ॥
无始无终、未显现的大士摩图苏陀那,这位大光明者降生,是为成就诸天神的目的。
13.252.26
सुदुस्तरार्थतत्त्वस्य वक्ता कर्ता च माधवः ।
तव पार्थ जयः कृत्स्नस्तव कीर्तिस्तथाऽतुला ॥ १३.२५२.२६ ॥
摩陀婆是最艰深真理的宣说者,也是其实行者。哦,普利塔之子,你将获得全部胜利,你的名声也同样无与伦比。
13.252.27
तवेयं पृथिवी देवी कृत्स्ना नारायणाश्रयात् ।
अयं नाथस्तवाचिन्त्यो यस्य नारायणो गतिः ॥ १३.२५२.२७ ॥
凭依那罗延,整个大地女神都属于你。你有这位不可思议的主宰,他的归宿便是那罗延。
13.252.28
स भवांस्त्वमुपाध्वर्यू रणाग्नौ हुतवान्नृपान् ।
कृष्णस्रुवेण महता युगान्ताग्निसमेन वै ॥ १३.२५२.२८ ॥
你自己作为副祭司,以堪比劫末之火的巨大黑色勺,在战争之火中献祭了诸王。
13.252.29
दुर्योधनश्च शोच्योसौ सपुत्रभ्रातृबान्धवः ।
कृतवान्योऽबुधः क्रोधाद्धरिगाण्डीविविग्रहम् ॥ १३.२५२.२९ ॥
难敌也值得怜悯,他与子侄、兄弟和亲族一道,出于愚昧与愤怒,与哈利及持甘狄拔弓者交战。
13.252.30
दैतेया दानवेन्द्राश्च महाकाया महाबलाः ।
चक्राग्नौ क्षयमापन्ना दावाग्नौ शलभा इव ॥ १३.२५२.३० ॥
提提之子与诸檀那伐之主,身躯庞大、力量强大,却在轮宝之火中灭亡,如同飞蛾投入林火。
13.252.31
प्रतियोद्धुं न शक्यो हि मानुषैरेव संयुगे ।
विहीनैः पुरुषव्याघ्र सत्त्वशक्तिबलादिभिः ॥ १३.२५२.३१ ॥
人中虎啊,除非他们失去活力、力量、勇力等,否则人类在战斗中无法抵挡他们。
13.252.32
जयो योगी युगान्ताभः सव्यसाची रणाग्रगः ।
तेजसा हतवान्सर्वं सुयोधनवलं नृप ॥ १३.२५२.३२ ॥
国王啊,如劫末之光般的瑜伽行者胜利者,左右开弓的射手,战场前列的英雄,以其光辉杀尽了苏由陀那的全军。
13.252.33
यत्तु गोवृषभाङ्केन मुनिभ्यः समुदाहृतम् ।
पुराणं हिमवत्पृष्ठे तन्मे निगदतः शृणु ॥ १३.२५२.३३ ॥
请听我讲述那位以牛为标志者在喜马拉雅之背向诸仙人所说的古老传说。
13.252.34
यावत्तस्य भवेत्पुष्टिस्तेजो जीप्तिः पराक्रमः ।
प्रभावः सन्नतिर्जन्म कृष्णे तत्त्रिगुणं विभो ॥ १३.२५२.३४ ॥
啊,大能者,他所拥有的滋养、光辉、明亮、勇武、威力、谦逊与出身,在克里希纳身上则是三倍。
13.252.35
कः शक्नोत्यन्यथा कर्तुं तद्यदि स्यात्तथा शृणु ।
यत्रः कृष्णो हि भगवांस्तत्र पुष्टिरनुत्तमा ॥ १३.२५२.३५ ॥
谁能使之改变?若果真如此,请听:薄伽梵克里希纳所在之处,便有至上的滋养。
13.252.36
वयं त्विहाल्पमतयः परतन्त्राः सुविक्लबाः ।
ज्ञानपूर्वं प्रपन्नाः स्मो मृत्योः पन्थानमव्ययम् ॥ १३.२५२.३६ ॥
我们在此见识浅薄、受制于人、极为困惑;我们以知识皈依死亡那条不朽之道。
13.252.37
भवांश्चाप्यार्जवपरः पूर्वं कृत्वा प्रतिश्रयम् ।
राजवृत्तं न लभते प्रतिज्ञापालने रतः ॥ १३.२५२.३७ ॥
你也一心追求正直,先前立下誓言,因专注于守誓而未能获得王者之行。
13.252.38
अत्येवात्मवधं लोके राजंस्त्वं बहु मन्यसे ।
न हि प्रतिज्ञा या दत्ता तां प्रहातुमरिंदम ॥ १३.२५२.३८ ॥
大王啊,你在世间竟如此看重自我毁灭。敌人的降伏者啊,已经立下的誓言是不应当舍弃的。
13.252.39
कालेनायं जनः सर्वो निहतो रणमूर्धनि ।
वयं च कालेन हताः कालो हि परमेश्वरः ॥ १३.२५२.३९ ॥
此人众皆因时间而倒于阵前,我们也因时间而被击杀;时间确实是至高的主宰。
13.252.40
न हि कालेन कालज्ञः स्पृष्टः शोचितुमर्हसि ।
कालो लोहितरक्ताक्षः कृष्णो दण्डी सनातनः ॥ १३.२५२.४० ॥
通晓时间的人啊,你既已被时间所触,便不应悲叹。时间有血红的眼睛,黑色,手持权杖,永恒不朽。
13.252.41
तस्मात्कुन्तीसुत ज्ञातीन्नेह शोचितुमर्हसि ।
व्यपेतमन्युर्नित्यं त्वं भव कौरवनन्दन ॥ १३.२५२.४१ ॥
因此,贡蒂之子啊,你不应为此地的亲族悲伤。俱卢之喜悦啊,愿你永远摆脱忧伤与愤怒。
13.252.42
माधवस्यास्य महात्म्यं श्रुतं यत्कथितं मया ।
तदेव तावत्पर्याप्तं सज्जनस्य निदर्शनम् ॥ १३.२५२.४२ ॥
我所讲述、你已听闻的这位摩陀婆的伟大,现在已经足够了;这便是善人的范例。
13.252.43
व्यासस्य वचनं श्रुत्वा नारदस्य च धीमतः ।
स्वयं चैव महाराज कृष्णस्यार्हतमस्य वै ॥ १३.२५२.४३ ॥
听闻毗耶娑与智者那罗陀的言语,大王啊,并且自己也知晓了黑天的这种尊贵。
13.252.44
प्रभावश्चर्षिपूगस्य कथितः सुमहान्मया ।
महेश्वरस्य संवादं शैलपुत्र्याश्च भारत ॥ १३.२५२.४४ ॥
我已讲述了众仙人的巨大威力,还有,婆罗多啊,大自在天与山女之间的对话。
13.252.45
धारयिष्यति यश्चैनं महापुरुषसम्भवम् ।
शृणुयात्कथयेद्वा यः स श्रेयो लभते परम् ॥ १३.२५२.४५ ॥
凡能持守此言——源于大人(补鲁沙)的教诲——或聆听或诵说者,便获得最高的福祉。
13.252.46
भवितारश्च तस्याथ सर्वे कामा यथेप्सिताः ।
प्रेत्य स्वर्गं च लभते नरो नास्त्यत्र संशयः ॥ १३.२५२.४६ ॥
他将实现所有所愿,死后人得以升入天界,此事毫无疑问。
13.252.47
न्याय्यं श्रेयोभिकामेन प्रतिपत्तुं जनार्दनः ।
एष एवाक्षयो विप्रैः स्तुतो राजञ्जनार्दनः ॥ १३.२५२.४७ ॥
追求福祉者理应依归生主(Janārdana);这位不朽的Janārdana,大王啊,被婆罗门们所赞颂。
13.252.48
महेश्वरमुखोत्सृष्टा ये च धर्मगुणाः स्मृताः ।
ते त्वया मनसा धार्याः कुरुराज दिवानिशम् ॥ १३.२५२.४८ ॥
那些被传述为从大自在天之口所出的法德,国王啊,你应日夜将其存于心中。
13.252.49
एवं ते वर्तमानस्य सम्यग्दण्डधरस्य च ।
प्रजापालनदक्षस्य स्वर्गलोको भविष्यति ॥ १३.२५२.४९ ॥
如此行事、善持刑杖、善于护佑臣民的你,必将得到天界。
13.252.50
धर्मोणापि सदा राजन्प्रजा रक्षितुमर्हसि ।
यस्तस्य विपुलो दण्डः सम्यग्धर्मः स कीर्त्यते ॥ १३.२५२.५० ॥
国王啊,你应当始终以法义保护臣民。其中的重大刑罚,便被称为正法。
13.252.51
य एष कथितो राजन्मया सज्जनसन्निधौ ।
शङ्करस्योमया सार्धं संवादो धर्मसंहितः ॥ १३.२५२.५१ ॥
国王啊,我在善人面前所讲的这段,乃是湿婆与乌玛之间蕴含法义的对话。
13.252.52
श्रुत्वा वा श्रोतुकामो वाऽप्यर्चयेद्वृषभध्वजम् ।
विशुद्धेनेह भावेन य इच्छेद्भूतिमात्मनः ॥ १३.२५२.५२ ॥
闻之者,或欲闻之者,当敬拜以牛为旗者;欲求自身福祉者,应以清净之心在此行之。
13.252.53
एष तस्यानवद्यस्य नारदस्य महात्मनः ।
संदेशो देवपूजार्थं तं तथा कुरु पाण्डव ॥ १३.२५२.५३ ॥
这是那位无瑕的大德仙人那罗陀的教言,用于礼敬诸神。般度之子啊,就照此去做吧。
13.252.54
एतदत्यद्भुतं वृत्तं पुण्ये हि भवति प्रभो ।
वासुदेवस्य कौन्तेय स्थाणोश्चैव स्वभावजम् ॥ १३.२५२.५४ ॥
主啊,此极为奇妙之事发生于圣地,贡蒂之子啊,它出自婆苏提婆与斯塔努(湿婆)的本性。
13.252.55
दशवर्शसहस्राणि बदर्यामेष शाश्वतः ।
तपश्चचार विपुलं सह गाण्डीवधन्वना ॥ १३.२५२.५५ ॥
这位永恒者与持甘狄拔弓者一起,在巴达利修行了一万年的大苦行。
13.252.56
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ ।
विदितौ नारदादेतौ मम व्यासाच्च पार्थिव ॥ १३.२५२.५६ ॥
君王啊,这二人是跨越三时代的莲花眼者婆苏提婆与达南迦耶;此事我是从那罗陀和毗耶娑处得知的。
13.252.57
बाल एव महाबाहुश्चकार कदनं महत् ।
कंसस्य पुण्डरीकाक्षो ज्ञातित्रामार्थकारणात् ॥ १३.२५२.५७ ॥
他在童年时就为保护宗族而大肆诛灭了甘萨。
13.252.58
कर्मणामस्य कौन्तेय नान्तं सङ्ख्यातुमुत्सहे ।
शाश्वतस्य पुराणस्य पुरुषस्य युधिष्ठिर ॥ १३.२५२.५८ ॥
贡蒂之子啊,坚战啊,我无法数尽这位永恒古老之人的功业之终。
13.252.59
ध्रुवं श्रेयः परं तात भविष्यति तवोत्तमम् ।
यस्य ते पुरुषव्याघ्रः सखा चायं जनार्दनः ॥ १३.२५२.५९ ॥
孩子啊,你必定会获得至高无上的福祉,因为人中之虎、生主之友毗湿奴的化身——这位遮那陀那,是你的朋友。
13.252.60
दुर्योधनं तु शोचामि प्रेत्य लोकेऽपि दुर्मतिम् ।
यत्कृते पृथिवी सर्वा विनष्टा सहयद्विपा ॥ १३.२५२.६० ॥
然而,我为邪恶心智的难敌而悲伤,即便在来世,也因他的缘故,整个大地连同象与马都被毁灭了。
13.252.61
दुर्योधनापराधेन कर्णस्य शकुनेस्तथा ।
दुःशासनवतुर्थानां कुरवो निधनं गताः ॥ १३.२५२.६१ ॥
由于难敌、迦尔纳和沙恭尼的过错,以及难降与第四人的过错,俱卢族走向了毁灭。
13.252.62
एवं सम्भाषमाणे तु गाङ्गेये पुरुषर्षभे ।
तूष्णीं बभूव कौरव्यो मध्ये तेषां महात्मनाम् ॥ १३.२५२.६२ ॥
当恒河之子、人中雄牛如此说话时,俱卢后裔在那些大德之中沉默不语。
13.252.63
तच्छ्रुत्वा विस्मयं जग्मुर्धृतराष्ट्रादयो नृपाः ।
सम्पूज्य मनसा कृष्णं सर्वे प्राञ्जलयऽभवन् ॥ १३.२५२.६३ ॥
众人听后,持国王及其他诸王皆感惊异;他们在心中敬礼黑天,全体合掌而立。
13.252.64
ऋषयश्चापि ते सर्वे नारदप्रमुखास्तदा ।
प्रतिगृह्याभ्यनन्दन्त तद्वाक्यं प्रतिपूज्य च ॥ १३.२५२.६४ ॥
以那罗陀为首的诸位仙人也接受了这番话,加以尊敬并欢喜。
13.252.65
इत्येतदखिलं सर्वैः पाण्डवो भ्रातृभिः सह ।
श्रुतवान्सुमहाश्चर्यं पुण्यं भीष्मानुशासनम् ॥ १३.२५२.६५ ॥
如此,般度之子与诸位兄弟一同,完整地聆听了毗湿摩那极为奇妙、神圣的教诲。
13.252.66
युधिष्ठिरस्तु गाङ्गेयं विश्रान्तं भूरिदक्षिणम् ।
पुनरेव महाबुद्धिः पर्यपृच्छन्महीपतिः ॥ १३.२५२.६६ ॥
于是大智的地上之主坚战,再次向正在休息、智慧丰富的恒河之子毗湿摩发问。