摩诃婆罗多 · 章 13.256
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.256.1
के पूज्याः के नमस्कार्या कथं वर्तेत केषु च ।
किमाचारः कीदृशेषु पितामह न रिष्यते ॥ १३.२५६.१ ॥
祖父啊,应当尊敬谁,向谁行礼,应当如何对待他们,对哪一类人持何种行为才不会招致毁灭?
13.256.2
ब्राह्मणानां परिभवः सादयेदपि देवताः ।
ब्राह्मणांस्तु नमस्कृत्य युधिष्ठिर न रिष्यते ॥ १३.२५६.२ ॥
轻慢婆罗门甚至能使诸神坠落;但是,坚战啊,向婆罗门行礼的人不会毁灭。
13.256.3
ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् ।
ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः ॥ १३.२५६.३ ॥
他们值得尊敬,值得礼拜;对待他们应如子侍父,因为那些智者承载着这一切世界。
13.256.4
ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः ।
धनत्यागाभिरामास्चि वाक्सङ्गमधुराश्च ये ॥ १३.२५६.४ ॥
婆罗门是一切世界伟大的法之桥梁,乐于舍弃财富,言语与交往皆甘美。
13.256.5
रमणीयाश्च भूतानां नियमेन धृतव्रताः ।
प्रणेतारश्च कोशानां शास्त्राणां च यशस्विनः ॥ १३.२५६.५ ॥
他们令众生欣喜,依戒律坚守誓愿;是知识宝库与经论的著名开示者。
13.256.6
तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् ।
प्रसवाश्चैव धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः ॥ १३.२५६.६ ॥
苦行是他们永恒的财富,言语是他们浩大的力量,他们是诸德的源泉,是精通法义、洞察幽微的人。
13.256.7
धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेवतः ।
यान्समाश्रित्य तिष्ठन्ति प्रजाः सर्वाश्चतुर्विधाः ॥ १३.२५६.७ ॥
渴望法、坚守法、以善行侍奉法的人们;依靠他们,四种类别的一切众生得以安住。
13.256.8
पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः ।
पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा ॥ १३.२५६.८ ॥
这些永恒之路引导一切,承载祭祀,始终承担祖先传承的沉重之轭。
13.256.9
धुरि ये नावसीदन्ति विषमे सद्धया इव ।
पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः ॥ १३.२५६.९ ॥
在险路上不像良马那样在轭下踉跄的人;以祖先、诸神和客人为首,首先享用天祭与祖祭之供品的人。
13.256.10
भोजनादेव लोकांस्त्रींस्त्रायन्ते महतो भयात् ।
दीपः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि ॥ १३.२५६.१० ॥
仅凭施食,他们便使三界免于大恐惧;他们是整个世界的明灯,连有眼者的眼睛也是他们。
13.256.11
सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः ।
गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः ॥ १३.२५६.११ ॥
他们是一切技艺之本源宝库,精通而洞察细微,通晓一切众生之行迹,思惟内在精神之道。
13.256.12
आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः ।
परावरविशेषज्ञा गन्तारः परमां गतिम् ॥ १३.२५६.१२ ॥
通晓始、中、终的人,疑惑已断,明了上与下的分别,他们抵达至高之境。
13.256.13
विमुक्ता धूतपाप्मानो निर्द्वन्द्वा निष्परिग्रहाः ।
मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः ॥ १३.२५६.१३ ॥
解脱者、洗尽罪业者、超越二元对立者、无所执取者,值得尊敬,常受有智慧的大德们敬重。
13.256.14
चन्दने मलपङ्के च भोजनेऽभोजने समाः ।
समं येषां दुकूलं च शाणक्षौमाजिनानि च ॥ १३.२५६.१४ ॥
无论是檀香膏还是污泥,无论是食物还是断食,他们都保持平等之心;精美丝绸、麻布、亚麻和鹿皮对他们而言都是一样的。
13.256.15
तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि ।
शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः ॥ १३.२५६.१५ ॥
他们即使多日不食也能坚持;以自学吠陀、制伏诸根,他们或许能使自己的身体枯槁。
13.256.16
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।
लोकानन्यान्सृजेयुस्ते लोकपालांश्च कोपिताः ॥ १३.२५६.१६ ॥
他们一旦愤怒,或能使非神者成为神,也能使神成为非神;他们还能创造其他世界以及世界的守护者。
13.256.17
अपेयः सागरो येषामपि सापान्महात्मनाम् ।
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ॥ १३.२५६.१७ ॥
对这些大德而言,连大海也不可饮用;他们的愤怒之火至今仍未在檀陀迦林中熄灭。
13.256.18
देवानामपि ये देवाः कारणं कारणस्य च ।
प्रमामस्य प्रमाणं च तस्मान्नाभिभवेद्बुधः ॥ १३.२५६.१८ ॥
他们即使在诸神之中也是神,是原因的原因,是尺度的尺度;因此智者不应冒犯他们。
13.256.19
तेषां वृद्धाश्च बालाश्च सर्वे सन्मार्गदर्शिनः ।
तपोविद्याविशेषात्तु मानयन्ति परस्परम् ॥ १३.२५६.१९ ॥
他们之中,长者与幼童都指示正道;凭借苦行与学问的殊胜,他们彼此尊敬。
13.256.20
अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत् ।
विद्वान्भूयस्तरो देवः पूर्णसागरसन्निभः ॥ १३.२५६.२० ॥
未学的婆罗门也是神,是伟大的清净之器;而有学问的婆罗门则是更大的神,如同满溢的大海。
13.256.21
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।
प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत् ॥ १३.२५६.२१ ॥
无学的与有学的婆罗门都是大神,正如火,无论已点燃或未点燃,都是大神。
13.256.22
श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति ।
हविर्यज्ञे च विधिवद्भूय एवाभिशोभते ॥ १३.२५६.२२ ॥
即使在火葬场,光明的火也从不被污染;而在依法举行的祭供之祀中,它更加光辉灿烂。
13.256.23
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु ।
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् ॥ १३.२५६.२३ ॥
即使他在一切行为中都从事不当之事,婆罗门仍然在各方面都应受尊敬;你应当知道他是至高的神。