Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.259

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.259.1

इमां भूमिं द्विजातिभ्यो दित्सुर्वै दक्षिणां पुरा ।
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ॥ १३.२५९.१ ॥

往昔,名为安伽的国王想把这片大地作为布施(达希那)献给再生者;于是,国王啊,大地陷入了忧虑。

13.259.2

धारिणीं सर्वभूतानामयं प्राप्य वरो नृपः ।
कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ॥ १३.२५९.२ ॥

这位国王既已得到我——承载一切众生者,怎么还想把梵天之女的我送给婆罗门呢?

13.259.3

साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् ।
अयं सराष्ट्रो नृपतिर्मार्भूदिति ततोऽगमत् ॥ १३.२५९.३ ॥

“我将舍弃大地之身,前往梵天的居所,让这位国王和他的国土都不复存在。”如此想着,她离去了。

13.259.4

ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा ।
प्रविवेश महीं सद्यो युक्तात्मा सुसमाहितः ॥ १३.२५९.४ ॥

于是迦叶波看见大地正在离去,立即以克制自身、极度专注之心进入了大地。

13.259.5

ऋद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता ।
धर्मोत्तरा नष्टभया भूमिरासीत्तमतो नृप ॥ १३.२५९.५ ॥

大地四面繁荣,草木与药草丰饶;此后,国王啊,大地以法为主,再无恐惧。

13.259.6

एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः ।
त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ॥ १३.२५९.६ ॥

如此,国王啊,发大誓愿的迦叶波化为大地,经历了神圣的数千年,即三十(千)年,从不倦怠。

13.259.7

अथागम्य महाराजन्नमस्कृत्यि च कश्यपम् ।
पृथवी काश्यपी जज्ञे सुता तस्य महात्मनः ॥ १३.२५९.७ ॥

大王啊,随后她前往迦叶仙人处,向他致敬,大地女神迦叶尼作为这位大智者的女儿而诞生。

13.259.8

एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् ।
अन्यं प्रब्रूहि वा त्वं च कश्यपात्क्षत्रियं वरम् ॥ १३.२५९.८ ॥

大王啊,迦叶便成了这样的婆罗门。现在你且讲讲另一位刹帝利,或是胜过迦叶的人。

13.259.9

तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीद्वचः ।
शृणु राजन्नुचथ्यस्य जातस्याङ्गिरसे कुले ॥ १३.२५९.९ ॥

国王沉默不语,风神于是说道:大王啊,请听那出生于安吉罗娑家族的乌恰提亚的故事。

13.259.10

भद्रा सोमस्य दुहिता रूपेण परमा मता ।
तस्यास्तुल्यं पतिं सोम उचथ्यं समपश्यत ॥ १३.२५९.१० ॥

苏摩的女儿跋陀罗容貌被认为最为出众。苏摩认为乌恰提亚与她相配,可作为她的夫婿。

13.259.11

सा च तीव्रं तपस्तेपे महाभागा यशस्विनी ।
उचथ्यं तु महाभागं तत्कृते वरयत्तदा ॥ १३.२५९.११ ॥

这位大福泽而名声显赫的女子修行苦行,然后为了她的缘故,她选定了大福泽的乌恰提亚为夫婿。

13.259.12

तत आहूय चोचथ्यं ददामीति यशस्विनीम् ।
भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिणः ॥ १३.२५९.१२ ॥

于是召唤乌恰提亚,说道:“我将这位名声显赫的女子嫁给你。”他依礼法,奉上丰厚的布施,娶她为妻。

13.259.13

तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह ।
स चागम्य वनप्रस्थं यमुनायां जहार ताम् ॥ १३.२५९.१३ ॥

光辉的伐楼那早已爱慕她。他来到林中隐居处,在阎牟那河边将她劫走。

13.259.14

जलेश्वरस्तु हृत्वा तामनयस्त्वं पुरं प्रति ।
परमाद्भुतसङ्काशं षट्सहस्रशतह्रदम् ॥ १३.२५९.१४ ॥

水神将她掳走,带往他的城市。那城极为奇妙,有六千一百个池塘。

13.259.15

न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम् ।
वासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ॥ १३.२५९.१५ ॥

没有比那更迷人的城市了,那是最好的城,装饰着居所、天界仙女与神圣的欢乐。

13.259.16

तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः ।
तदाख्यातमुचथ्याय ततः पत्न्यवमर्दनम् ॥ १३.२५९.१६ ॥

水神在那里与她欢娱,国王啊。随后,此事被告知于乌差提耶——关于妻子所受的侮辱。

13.259.17

तच्छ्रुत्वा नारदात्सर्वमुचथ्यो नारदं तदा ।
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ॥ १३.२५९.१७ ॥

乌差提耶听了纳罗陀所说的一切,便对纳罗陀说:去吧,对伐楼那说严厉的话。

13.259.18

मद्वाक्यान्मुञ्च मे भार्यां कस्मात्तां हृतवानसि ।
लोकपालोसि लोकानां न लोकस्य विलोपकः ॥ १३.२५९.१८ ॥

依我之言,放了我的妻子。你为何劫走她?你是世界的守护者,不是世界的毁灭者。

13.259.19

सोमेन दत्ता भार्या मे त्वया चापहृताऽद्य वै ।
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः ॥ १३.२५९.१९ ॥

“我的妻子是苏摩所赐,今日你却将她劫走。”听了那纳罗陀的话,水主(伐楼那)……

13.259.20

मुञ्च भार्यामुचथ्यस्य कस्मात्त्वं हृतवानसि ।
इति श्रुत्वा वचस्तस्य सोऽथ तं वरुणोऽब्रवीत् ॥ १३.२५९.२० ॥

“放了乌差提雅的妻子;你为何将她劫走?”听了他的话,伐楼那便对他说……

13.259.21

ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे ।
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम्।
उचथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ॥ १३.२५९.२१ ॥

“这是我最心爱的妻子;我不愿放她走。”伐楼那如此说后,纳罗陀来到那位仙人乌差提雅面前,心中并不欢喜,说出了这些话……

13.259.22

गले गृहीत्वा क्षिप्तोस्मि वरुणेन महामुने ।
न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ॥ १३.२५९.२२ ॥

“大仙啊,伐楼那抓住我的脖子把我抛开了。他不把你的妻子还给你;你就做你该做的事吧。”

13.259.23

नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः ।
अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ॥ १३.२५९.२३ ॥

安吉拉斯(乌差提雅)听了纳罗陀的话,愤怒地燃烧起来。这位大苦行者以自己的威力制止了水,将其饮尽。

13.259.24

पीयमाने तु सर्वस्मिंस्तोयेऽपि सलिलेश्वरः ।
सुहृद्भिर्भिक्षमाणोऽपि नैवामुञ्चत तां तदा ॥ १३.२५९.२४ ॥

在所有的水被饮尽之时,即便朋友们恳求,水主(伐楼那)当时也不肯放她。

13.259.25

ततः क्रुद्धोऽब्रवीद्भूमिमुचथ्यो ब्राह्मणोत्तमः ।
दर्शय स्वस्थलं भद्रे षट्सहस्रशतह्रदम् ॥ १३.२५९.२५ ॥

于是愤怒的乌恰提亚,婆罗门中的最优者,对大地说:吉祥的女子啊,请显示你自己的所在,那里有六百个池塘。

13.259.26

ततस्तदीरणं जातं समुद्रस्यावसर्पतः ।
तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ॥ १३.२५९.२६ ॥

于是,当大海退去时,便起了骚动;因此那位再生者中的最优者也从那个地方对河流说话。

13.259.27

अदृश्या गच्छ भीरु त्वं सरस्वति मरून्प्रति ।
अणुण्यभूषो भवतु देशस्त्यक्तस्तया शुभे ॥ १३.२५९.२७ ॥

胆怯的萨拉斯瓦蒂啊,你隐形地前往沙漠去吧;吉祥的女子啊,被你抛弃的这片土地,只以沙子为装饰吧。

13.259.28

ततश्चूर्णीकृते देशेक भद्रामादाय वारिपः ।
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ॥ १३.२५९.२८ ॥

于是,那片土地被摧毁成尘后,水之主独自带着跋陀罗前去求救,将那位妻子交给了盎吉罗娑。

13.259.29

प्रतिगृह्य तु तां भार्यामुचथ्यः सुमनाऽभवत् ।
मुमोच च जगद्दुःखान्मरुतश्चैव निर्मलाः ॥ १३.२५९.२९ ॥

接到那位妻子后,乌恰提亚心中欢喜;清净的摩噜多们也使世界脱离了苦难。

13.259.30

ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् ।
उचथ्यः सुमहातेजा यत्तुच्छृणु नराधिप ॥ १३.२५९.३० ॥

于是,精通法的、大光辉的乌恰提亚得到那位妻子后,对婆楼那说道。王中之主啊,请听他所说的话。

13.259.31

मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप ।
इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ॥ १३.२५९.३१ ॥

「在你哭喊之时,我以苦行得到了她,水之主啊。」说罢,他带着她回到了自己的住所。

13.259.32

एष राजन्नीदृशो वै उचथ्यो ब्राह्मणर्षभः ।
ब्रवीमि हान्यं ब्रूहि त्वमुचथ्यात्क्षत्रियं वरम् ॥ १३.२५९.३२ ॥

大王啊,这位乌恰提亚确实如此,是婆罗门中的公牛。我说完了;你来说出另一位胜过乌恰提亚的刹帝利吧。