Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.260

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.260.1

इत्युक्तः स नृपस्तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।
शृणु राजन्नगस्त्यस्य महात्म्यं ब्राह्ममस्य ह ॥ १३.२६०.१ ॥

国王听后沉默不语。于是风神说:大王,请听阿伽斯提亚的婆罗门之大威德。

13.260.2

असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः ।
यज्ञाश्चैषां हृताः सर्वे पितॄणां च स्वधास्तथा ॥ १३.२६०.२ ॥

诸天被阿修罗击败而丧失斗志;他们的一切祭祀被夺走,祖先的斯瓦陀供物也同样被夺走。

13.260.3

कर्मज्या मानवानां च दानवैर्हैहयर्षभ ।
भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः ॥ १३.२६०.३ ॥

哈依哈耶族的雄牛啊,檀那婆也夺走了人间的业果(祭祀)。诸天失去权威后便流浪于大地上,这是传闻。

13.260.4

ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम् ।
ददृशुस्तेजसाः युक्तमगस्त्यं विपुलव्रतम् ॥ १३.२६०.४ ॥

大王啊,此后某一天,他们看见阿伽斯提亚光芒如太阳,充满威光,持守广大的誓愿。

13.260.5

अभिवाद्य तु तं देवाः पृष्ट्वा कुशलमेव च ।
इदमूचुर्महात्मानं वाक्यं काले जनाधिप ॥ १३.२६०.५ ॥

诸天向他致礼并问候安好,然后在适当的时候,对这位大智慧者说了这些话,人主啊。

13.260.6

दानवैर्युधि भग्नाः स्म तथैश्वर्याच्चि भ्रंशिताः ।
तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुङ्गवः ॥ १३.२६०.६ ॥

我们在战斗中被檀那婆击败,也失去了权位。因此,诸仙中的雄牛啊,求你从这猛烈的恐惧中救护我们。

13.260.7

इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् ।
प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये ॥ १३.२६०.७ ॥

诸神如此请求,阿伽斯提耶愤怒了;这位光辉的仙人如同毁灭之时的时间之火般熊熊燃烧。

13.260.8

तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा ।
अन्तरिक्षान्महाराज निपेतुस्ते सहस्रशः ॥ १३.२६०.८ ॥

被那张炽热光芒之网烧毁,檀那婆们便成千上万地从天空坠落,大王啊。

13.260.9

दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा ।
उभौ लोकौ परित्यज्य गताः काष्ठां तु दक्षिणाम् ॥ १३.२६०.९ ॥

那些被阿伽斯提耶的光辉焚烧的代提耶,舍弃了两个世界,前往南方。

13.260.10

बलिस्तु यजते यज्ञमश्वमेधं महीं गतः ।
येन्येऽधस्ता महीस्थाश्च तेन दग्धा महासुराः ॥ १३.२६०.१० ॥

波利正在举行马祠,前往大地;而其他居于地下的大阿修罗则因此被焚毁。

13.260.11

त्यक्तलोकाः पुनः प्राप्ताः सुरैः शान्तभयैर्नृप ।
अथैनमब्रुवन्देवा भूमिष्ठानसु राञ्जहि ॥ १३.२६०.११ ॥

失去世界的他们,又被已无恐惧的诸神重新接纳,王啊。于是诸神对他说:“请消灭那些站在大地上的人。”

13.260.12

इत्युक्तः प्राह देवान्स न शक्तोस्मि महीगतान् ।
दग्धुं तपो हि क्षीयेन्मे न धक्ष्यामीति पार्थिव ॥ १३.२६०.१२ ॥

被如此请求后,他对诸神说:“我无法焚烧那些已到大地上的人,否则我的苦行将会衰减。所以我不会焚烧他们,王啊。”

13.260.13

एवं दग्धा भगवता दानवाः स्वेन तेजसा ।
अगस्त्येन तदा राजंस्तपसा भावितात्मना ॥ १३.२६०.१३ ॥

国王啊,那时,心灵纯净的阿伽斯提亚以自身的光辉与苦行,将檀那婆如此焚烧殆尽。

13.260.14

ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयाऽनघ ।
ब्रवीम्यन्यं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् ॥ १३.२६०.१४ ॥

无罪者啊,我已为你讲述了如此的阿伽斯提亚。现在我再讲另一位,还是你来说一位胜过阿伽斯提亚的刹帝利?

13.260.15

इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।
शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः ॥ १३.२६०.१५ ॥

被如此询问后,他便沉默了。于是风神说道:国王啊,请听那光荣的婆私吒的主要事迹。

13.260.16

वैखानसविधानेन गङ्गातीरं समाश्रिताः ।
आदित्याः सत्रमासन्त सरो वैखानसं प्रति।
वसिष्ठं मनसा गत्वा ज्ञात्वा तत्वस्य गोचरम् ॥ १३.२६०.१६ ॥

依照吠柯那萨仪轨,诸阿提亚依止恒河岸边,在吠柯那萨湖畔举行祭祀。他们心念前往婆私吒处,知晓真理所及之事……

13.260.17

यजमानांस्तु तान्दृष्वा सर्वान्दीक्षानुकर्शितान् ।
हन्तुमैच्छन्त शैलाभा बलिनो नाम दानवाः ॥ १३.२६०.१७ ॥

看见这些因受戒而消瘦的祭祀者,名为“钵利”的檀那婆,形如山岳而力大,想要杀害他们。

13.260.18

अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः ।
हता हता वै तत्रैते जीवन्त्याप्लुत्य दानवाः ॥ १३.२६०.१८ ॥

离他们不远,有一座梵天所赐之恩的湖。那些在那里被杀的檀那婆,跳入湖中便又复活过来。

13.260.19

ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान् ।
विक्षोभयन्तः सलिलमुत्थितं शतयोजनम् ॥ १३.२६०.१९ ॥

他们举起可怕的山岳、棍棒和树木,搅动了升起百由旬的水。

13.260.20

अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव हि ।
ततस्तैरर्दिता देवाः शरणं वासवं ययुः ॥ १३.२६०.२० ॥

他们向诸神猛扑过去,共有一万个千(即一千万)。诸神被他们折磨,便投奔婆娑(因陀罗)寻求庇护。

13.260.21

स च तैर्व्यथितः शक्रो वसिष्ठं सरणं ययौ ।
ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः ॥ १३.२६०.२१ ॥

被他们折磨的帝释(释迦)投奔仙人婆私吒寻求庇护,尊贵的仙人婆私吒便赐予他们无畏。

13.260.22

तदा तान्दुःकितान्ज्ञात्वा आनृशंस्यपरो मुनिः ।
अयत्नेनादहत्सर्वाञ्ज्वलता स्वेन तेजसा ॥ १३.२६०.२२ ॥

圣者知道他们在受苦,怀着悲悯,毫不费力地以自己炽燃的光辉将他们全部焚毁。

13.260.23

कैलासं प्रस्थितां चैव नदीं गङ्गां महातपाः ।
आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः ॥ १३.२६०.२३ ॥

大苦行者引来流向凯拉萨的恒河,那神圣的湖泊被恒河劈开。

13.260.24

सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् ।
हताश्च बलिनो यत्र स देशे बलिनोऽभवत् ॥ १३.२६०.२४ ॥

那条河把湖水劈开,它便成了萨拉尤河。强大的恶魔被杀之处,那地方也变得强盛。

13.260.25

एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः ।
ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना ॥ १३.२६०.२५ ॥

如此,以因陀罗为首的天界居民受到婆私吒的守护,而获得梵天恩赐的达帝耶们被这位伟大的人所杀。

13.260.26

एतत्कर्म वसिष्ठस्य कथितं हि मयाऽनघ ।
ब्रवीम्यन्यं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् ॥ १३.२६०.२६ ॥

无罪者啊,我已经讲述了婆私吒的这一事迹。现在我再讲另一个,或者你来讲一讲与婆私吒有关的一位杰出刹帝利。