摩诃婆罗多 · 章 13.264
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.264.1
ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन ।
वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः ॥ १३.२६४.१ ॥
摩图苏陀那啊,请告诉我尊敬婆罗门的果报是什么。你精通此事,祖父也了解你。
13.264.2
शृणुष्वावहितो राजन्द्विजानां भरतर्षभ ।
यथातत्त्वेन वदतो गुणान्वै कुरुसत्तम ॥ १३.२६४.२ ॥
国王,婆罗多族之雄,请专心听。库卢族最优秀者啊,我将如实讲述再生族的德性。
13.264.3
द्वारवत्यां समासीनं पुरा मां कुरुनन्दन ।
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः ॥ १३.२६४.३ ॥
库卢族的欢乐啊,往昔在德瓦拉卡,我正坐着时,因对婆罗门愤怒的普拉唐那向我发问。
13.264.4
किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन ।
ईश्वरत्वं कुतस्तेषामिहैव च परत्र च ॥ १३.२६४.४ ॥
摩图苏陀那啊,尊敬婆罗门有什么果报?他们的主宰之力,今世与来世又从何而来?
13.264.5
सदा द्विजातीन्सम्पूज्य किं फलं तत्र मानद ।
एतद्ब्रूहि स्फुटं सर्वं सुमहान्संशयोऽत्र मे ॥ १३.२६४.५ ॥
施予尊敬者啊,常常恭敬地供养再生族,有什么果报?请把这一切讲清楚,我对此有很大的疑惑。
13.264.6
इत्युक्ते वचने तस्मिन्प्रद्युम्नेन तथा त्वहम् ।
प्रत्यब्रवं महाराज यत्तच्छृणु समाहितः ॥ १३.२६४.६ ॥
大王,当普拉唐那说出这些话后,我这样回答了他。请专心听我所说的。
13.264.7
व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे ।
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ १३.२६४.७ ॥
鲁克弥尼之子啊,请听我说敬奉婆罗门所得的果报。这些人正是月神之主,掌握着苦乐的主宰。
13.264.8
अस्मिँल्लोके रौक्मिणेय तथाऽमुष्मिंश्च पुत्रक ।
ब्राह्मणप्रमुखं सौम्यं न मेऽत्रास्ति विचारणा ॥ १३.२६४.८ ॥
鲁克弥尼之子,爱子啊,无论今世还是来世,婆罗门都居首位且吉祥。对此我毫无疑问。
13.264.9
ब्राह्मणप्रभवं सौख्यमायुः कीर्तिर्यशो बलम् ।
लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूजकाः ॥ १३.२६४.९ ॥
幸福、长寿、名声、荣耀与力量皆生于婆罗门;诸世界及世界之主,皆是敬奉婆罗门者。
13.264.10
त्रिवर्गे चापवर्गे च यशःश्रीरोगशान्तिषु ।
देवतापितृपूजासु सन्तोष्याश्चैव नो द्विजाः ॥ १३.२६४.१० ॥
于三大目标与解脱之中,于荣誉、吉祥与消除疾病之中,于敬奉诸神与祖先之中,都应当使再生者婆罗门欢喜。
13.264.11
तान्कथं वै नाद्रियेयमीश्वरोस्मीति पुत्रक ।
मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति ॥ १३.२६४.११ ॥
我岂能因自认为“我是主宰”而不敬重他们呢?爱子啊,大臂者,愿你对婆罗门不生怒气。
13.264.12
ब्राह्मणा हि महद्भूतमस्मिँल्लोके परत्र च ।
भस्म कुर्यर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः ॥ १३.२६४.१२ ॥
婆罗门在今世与来世都是大能者;一旦震怒,这些亲见真实的仙人便能将整个世界化为灰烬。
13.264.13
हन्युस्तेऽपि सृजेयुस्च लोकान्लोकेश्वरांस्तथा ।
कथं तेषु न वर्तेरन्सम्यग्ज्ञानात्सुतेजसः ॥ १३.२६४.१३ ॥
他们能够杀死他们,也能创造世界与世界之主。凭借正确的智慧而拥有大光辉的人,怎会不对他们有所作为呢?
13.264.14
अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः ।
चीरवासा बिल्वदण्डी दीर्घश्मश्रुः कृशो महान् ॥ १३.२६४.१४ ॥
亲爱的,我家里住着一位毛发呈金黄褐色的婆罗门,身穿树皮衣,手持木苹果枝杖,留着长胡须,身形瘦削而高大。
13.264.15
दीर्घभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि ।
स स्वैरं चरते लोकान्ये दिव्या ये च मानुषाः ॥ १३.२६४.१५ ॥
他在大地上的身高超过了最高的人。他随心所欲地遍游诸世界,无论是天界还是人间。
13.264.16
इमां गाथां गायमानश्चत्वरेषु सभासु च ।
दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे ॥ १३.२६४.१६ ॥
这位婆罗门仙人杜尔婆萨在十字路口与集会上唱着这首偈颂,谁会恭敬地把他留在自己家中?
13.264.17
रोषणः सर्वभूतानां सूक्ष्मेऽप्यपकृते कृते ।
परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् ॥ १३.२६४.१७ ॥
对一切众生都易怒、哪怕小小的冒犯也勃然大怒、又听闻了我的斥责的人,谁还会给他住所呢?
13.264.18
यो मां कश्चिद्वासयीत न स मां कोपयेदिति ।
यस्मान्नाद्रियते कश्चित्ततोऽहं समवासयम् ॥ १३.२६४.१८ ॥
心想:“若有人留我住下,他就不会惹我生气”;又因无人尊敬他,所以我便自己留他住下了。
13.264.19
स सम्भुङ्क्ते सहस्राणां बहूनामन्नमेकदा ।
एकदा सोल्पकं भुङ्क्ते नचैवैति पुनर्गृहान् ॥ १३.२६४.१९ ॥
有时他一次吃掉成千上万人的食物,有时只吃一点点,然后便不再回家。
13.264.20
अकस्माच्च प्रहसति तथाऽकस्मात्प्ररोदिति ।
न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा ॥ १३.२६४.२० ॥
他忽然大笑,又忽然痛哭。那时大地上没有一个人与他年纪相当。
13.264.21
अथ स्वावसथं गत्वा सशय्यास्तरणानि च ।
अदहत्स महातेजास्ततश्चाभ्यपतत्स्वयम् ॥ १३.२६४.२१ ॥
随后他回到自己的住处,把床榻连同铺盖一并烧掉;那位大光辉者随后自己也纵身向前扑去。
13.264.22
अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः ।
कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः ॥ १३.२६४.२२ ॥
那位誓愿坚定的仙人又急切地对我说:"克里希那,我想吃牛奶米粥。"
13.264.23
तदैव तु मया तस्य चित्तज्ञेन गृहे जनः ।
सर्वाण्यन्नानि पानानि भक्ष्याश्चोच्चावचास्तथा ॥ १३.२६४.२३ ॥
我立刻知道了他的心思,便吩咐家中之人准备各种食物与饮料,以及高低各色的美食。
13.264.24
भवन्तु सत्कृतानीह पूर्वमेव प्रयोचितः ।
ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् ॥ १३.२६४.२४ ॥
我事先已吩咐:"此处一切都要恭敬地备好。"随后我便将那滚烫的牛奶米粥禀告了他。
13.264.25
तं भुक्त्वैव स तु क्षिप्रं ततो वचनमब्रवीत् ।
क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह ॥ १३.२६४.२५ ॥
他吃完后立刻说道:"快把你的肢体涂上乳米粥。"
13.264.26
अविमृश्यैव च ततः कृतवानस्मि तत्तथा ।
तेनोच्छिष्टेन गात्राणि शरीरं च समालिपम् ॥ १३.२६४.२६ ॥
我未加思考便照做了,用那残余之物涂遍了我的肢体和身体。
13.264.27
स ददर्श तदाऽभ्याशे मातरं ते शुभाननाम् ।
तामपि स्मयमानां स पायसेनाभ्यलेपयत् ॥ १३.२६४.२७ ॥
那时他看见近旁你那面容秀美的母亲,也用乳米粥涂抹了正在微笑的她。
13.264.28
मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत् ।
तमारुद्य रथं चैव निर्ययौ स गृहान्मम ॥ १३.२६४.२८ ॥
仙人迅速把四肢涂满乳米粥的她套上车;他登上那车,便离开了我的家。
13.264.29
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् ।
प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः ॥ १३.२६४.२९ ॥
那位火焰色、光辉而聪慧的婆罗门化作车马,在我眼前用刺棒抽打少女茹克弥尼。
13.264.30
न च मे स्तोकमप्यासीद्दुः खमीर्ष्याकृतं तदा ।
तथा स राजमार्गेणि महता निर्ययौ बहिः ॥ १३.२६४.३० ॥
那时我连一点因嫉妒而生的痛苦也没有;他便沿着大王道走出了城外。
13.264.31
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः ।
तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् ॥ १३.२६४.३१ ॥
达舍尔哈人见此大奇事,心生愤怒。有人彼此交谈,相互说道:
13.264.32
ब्राह्मणा एव जायेरन्नान्यो वर्णः कथञ्चन ।
को ह्येनां रथमास्थाय जीवेदन्य पुमानिह ॥ १३.२६४.३२ ॥
愿只有婆罗门降生,绝无其他种姓;因为此处谁人登上此车还能活命?
13.264.33
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरो द्विजः ।
ब्रह्माहिविषदिग्धस्य नास्ति कश्चिच्चिकित्सकः ॥ १३.२६४.३३ ॥
蛇毒猛烈;然而再生者更加猛烈。被婆罗门蛇之毒沾染者,无人能医治。
13.264.34
तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि ।
अमर्षयंस्तथा श्रीमान्स्मितपूर्वमचोदयम् ॥ १३.२६४.३४ ॥
当那位不可战胜者前行时,路上罗克米尼跌倒了;那位光辉者无法忍耐愤怒,先微笑着催促了他。
13.264.35
ततः परमसंक्रुद्धो रथात्प्रस्कन्द्य स द्विजः ।
पदातिरुत्पथेनैव प्राद्रवद्दक्षिणामुखः ॥ १३.२६४.३५ ॥
于是那位再生者极度愤怒,从车上跳下,徒步离开大道,面向南方奔逃。
13.264.36
तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् ।
तथैव पायसादिग्धः प्रसीद भगवन्निति ॥ १३.२६४.३६ ॥
那位最优秀的婆罗门偏离大道奔逃,我追赶上去;我沾满乳粥,照样喊道:「尊者啊,请息怒!」
13.264.37
ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह ।
जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज ॥ १३.२६४.३७ ॥
于是光辉的婆罗门看着我说道:克里希那啊,你天性上便已战胜了愤怒,大臂者。
13.264.38
न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत ।
प्रीतोस्मि तव गोविन्द वृणु कामान्यथेप्सितान् ॥ १३.२६४.३८ ॥
守誓者啊,我在此未见你有任何过失。戈文达,我对你满意;请选择你所愿的心愿吧。
13.264.39
प्रसन्नस्य च मे तात पश्य व्युष्टिं यथाविधाम् ॥ १३.२६४.३९ ॥
孩子啊,请看我在欢喜之中所赐予你的相应的兴盛。
13.264.40
यावदेव मनुष्याणामन्ने भावो भविष्यति ।
यथैवान्ने तथा तेषां त्वयि भावो भविष्यति ॥ १३.२६४.४० ॥
只要人们对食物有所眷念,他们对你也会有同样的眷念,正如他们对食物一般。
13.264.41
यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति ।
त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे।
सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन ॥ १३.२६४.४१ ॥
只要你的神圣名声在世间长存,你便将在三界享有殊荣。札纳尔达纳啊,你将成为一切世界所深爱之人。
13.264.42
यत्ते भिन्नं च दग्धं च यच्च किञ्चिद्विनाशितम् ।
सर्वं तथैव द्रष्टासि विशिष्टं जनार्दन ॥ १३.२६४.४२ ॥
你所有被破坏、烧毁或以任何方式毁坏的东西,你都将看到以同样的方式恢复,并且变得更加殊胜,札纳尔达纳啊。
13.264.43
यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन ।
अतो मृत्युभयं नास्ति यावदिच्छसि चाच्युत ॥ १३.२६४.४३ ॥
摩图苏陀,只要这膏脂涂在你的肢体上,便无死亡之惧;只要你愿意,阿求多啊。
13.264.44
न तु पादतले लिप्ते तस्मात्ते मृत्युरत्र वै ।
नैतन्मे प्रियमित्येवं स मां प्रीतोऽब्रवीत्तदा ॥ १३.२६४.४४ ॥
然而若脚掌未涂膏,死亡便会在那里降临于你。他当时欣然对我说:“此事我并不愿意。”
13.264.45
इत्युक्तोऽहं शरीरं स्वं ददर्श श्रीसमायुतम्। ॥ १३.२६४.४५ ॥
听他如此说,我看见自己的身体充满了吉祥光辉。
13.264.46
रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः ।
कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने ॥ १३.२६४.४६ ॥
他欣然对如意女(Rukmiṇī)说:“美丽的人啊,你将在世上所有女子中获得最崇高的声誉和无与伦比的名望。”
13.264.47
न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि ।
स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि ॥ १३.२६४.४७ ॥
衰老、疾病或容颜憔悴都不会触及你,美丽的人啊;你将带着功德的芬芳,礼拜克里希那。
13.264.48
षोडशानां सहस्राणां बधूनां केशवस्य ह ।
वरिष्ठा च सलोक्या च केशवस्य भविष्यसि ॥ १३.२६४.४८ ॥
在恪沙瓦(Keśava)的一万六千位妻子中,你将居于首位;在恪沙瓦的世界里,你将与他同住。
13.264.49
तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् ।
प्रस्थितः सुमहातेजा दुर्वासाऽग्निरिव ज्वलन् ॥ १३.२६४.४९ ॥
他对你的母亲这样说后,又对我说话。大光明的杜尔婆娑像火一样燃烧着离去了。
13.264.50
एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव ।
इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ॥ १३.२६४.५० ॥
“愿你对婆罗门的心意也是如此,羯舍婆。”他这样说后,儿啊,便当场消失了。
13.264.51
तस्मिन्नन्तर्हिते चाहमुपांशु व्रतमाचरम् ।
यत्किञ्चिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो ॥ १३.२६४.५१ ॥
他消失之后,我暗自立下一个誓愿:婆罗门说什么,我便全部照做,主啊。
13.264.52
एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक ।
ततः परमहृष्टात्मा प्राविशं गृहमेव च ॥ १३.२६४.५२ ॥
孩子,我立下此誓后,与你的母亲一道,心中极为欢喜,便走进了屋里。
13.264.53
प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम् ।
यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक ॥ १३.२६४.५३ ॥
我一进屋,便看见一切都是新的:破碎的、烧毁的,全都因那位婆罗门的神力,孩子。
13.264.54
ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् ।
अपूजयं च मनसा रौक्मिणेय सदा द्विजान् ॥ १३.२६४.५४ ॥
那时我惊讶不已,见一切都崭新而坚固。罗克米尼之子啊,我心中始终敬重那些再生者——婆罗门。
13.264.55
इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ ।
माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा ॥ १३.२६४.५५ ॥
婆罗多之雄啊,当鲁克弥尼之子如此询问时,我便将那位再生者之首的全部威德都讲述了。
13.264.56
तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो ।
पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा ॥ १३.२६४.५६ ॥
同样,你也,鲁达之子啊,主啊,应当每日以言语与布施常常供养那些大福之婆罗门。
13.264.57
एवं व्युष्टिमहं प्राप्तो ब्राह्मणस्य प्रसादजाम् ।
यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ ॥ १३.२६४.५७ ॥
如此,我获得了由婆罗门恩典所生的果报;而毗湿摩对我所说的,确是真实,婆罗多之雄啊。