摩诃婆罗多 · 章 13.265
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.265.1
दुर्वाससः प्रसादात्ते शंकरांशस्य माघव ।
अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि ॥ १३.२६५.१ ॥
摩陀婆啊,蒙杜尔婆娑的恩典,并得湿婆(商羯罗)之分,你在此所获的智慧,请为我解说。
13.265.2
महाभाग्यं च यत्तस्य नामानि च महात्मनः ।
तत्त्वमो ज्ञातुमिच्छामि सर्वं मतिमतांवर ॥ १३.२६५.२ ॥
智者中最杰出的人啊,我想完全了解那位大德的伟大福分与他的诸多名号的真实义理。
13.265.3
हन्ति ते कीर्तयिष्यामि नमस्कृत्य कपर्दिने ।
यदवाप्तं मया राजञ्श्रेयो यच्चार्जितं यशः ॥ १३.२६५.३ ॥
大王啊,我向束发的湿婆(迦波丁)顶礼之后,将告诉你我所获得的福祉与所赢得的名声。
13.265.4
प्रयतः प्रातरुत्थाय यस्त्वधीयेद्विशाम्पते ।
प्राञ्जलिः शतरुद्रीयं नास्य किञ्चनि दुर्लभम् ॥ १३.२६५.४ ॥
人主啊,对于那位自持的人,黎明起身,合掌诵读《百湿婆》(Śatarudrīya)者,没有什么是难以获得的。
13.265.5
शिवः सर्वकतो रुद्रः स्रष्टा यस्त्वं शृणुष्व मे ।
प्रजापतिस्तमसृजत्तमसोऽन्ते महातपाः।
शङ्करस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः ॥ १३.२६५.५ ॥
湿婆是一切的造作者,楼陀罗是创造者——请听我说。大苦行者生主在黑暗之末创造了他。亲爱的,是商羯罗创造了静止与运动的众生。
13.265.6
नास्ति किञ्चित्परं भूतं महादेवाद्विशाम्पते ।
इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः ॥ १३.२६५.६ ॥
人主啊,没有比大天(摩诃提婆)更高的存在。即使在这三界之中,他确实是众生的根源。
13.265.7
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः ।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ १३.२६५.७ ॥
无人敢立于那位大德之前,三界之中也没有与他相等的众生。
13.265.8
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः ।
विसंज्ञा हतभूयिष्ठा वेपनेते च पतन्ति च ॥ १३.२६५.८ ॥
在战场上,他愤怒时仅凭其气息,敌人便昏迷,多数被杀,颤抖而倒下。
13.265.9
घोरं च निनदं तस्य पर्जन्यनिनदोपम् ।
श्रुत्वा विशीर्येद्धृदयं देवानामपि संयुगे।
यं चाक्ष्णा घोररूपेण पश्येद्दग्धः पतेदधः ॥ १३.२६५.९ ॥
他那如雨云雷鸣般的可怕吼声,在战场上即使诸神听到也会心碎;被他以可怖之相、以目光注视的人,便会被焚烧而倒下。
13.265.10
न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः ।
कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः ॥ १३.२६५.१० ॥
世间无论诸天、阿修罗、乾闼婆、龙蛇,甚至居于洞穴者,在他愤怒时都无法安然兴盛。
13.265.11
प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ ।
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा ॥ १३.२६५.११ ॥
当生主达刹举行广大的祭祀时,那时愤怒而无畏的婆伐(湿婆)射穿了祭祀。
13.265.12
धनुषा वाणमुत्सृज्य सुघोरं विननाद च ॥ १३.२६५.१२ ॥
他从弓上放出一箭,并发出极为可怕的吼声。
13.265.13
ते न शर्म कुतः शान्ति विषादं लेभिरे सुराः ।
विद्धे च सहसा यज्ञे कुपिते च महेश्वरे ॥ १३.२६५.१३ ॥
当祭祀突然被刺伤、大自在天震怒时,诸神既无庇护也无安宁,陷入了绝望。
13.265.14
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः ।
बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः ॥ १३.२६५.१४ ॥
弓弦的响声使一切世界陷入混乱而无能为力,啊,普利塔之子;天神与阿修罗都陷入了绝望。
13.265.15
आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरः ।
व्यद्रवग्निरयश्चापि द्यौः पफाल च सर्वशः ॥ १३.२६५.१५ ॥
水势翻腾,大地震动,火焰四散奔逃,天空从四面八方裂开。
13.265.16
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे ।
प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत ॥ १३.२६५.१६ ॥
世界被盲目的黑暗笼罩,不再发光;啊,婆罗多,日月星辰的光明也随太阳一同消失。
13.265.17
भृशं भीतास्ततः शान्तिं चत्रुः स्वस्त्ययनानि च ।
ऋषयः सर्वभूतानामात्मनश्च हितैषिमः ॥ १३.२६५.१७ ॥
于是众仙人极为惊恐,为一切众生和自身的福祉,举行了平安与吉祥的祭仪。
13.265.18
ततः सोऽभ्यद्रवद्देवान्रुद्रो रौद्रपराक्रमः ।
भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् ॥ १३.२६५.१८ ॥
于是勇猛可怖的楼陀罗扑向诸神,盛怒之下一击便打瞎了婆伽的双眼。
13.265.19
पूषणं चाभिदुद्राव घोरेण वपुषाऽन्वितः ।
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥ १३.२६५.१९ ॥
他以可怖的形象也冲向补善,打掉了正在吃圣饼(puroḍāśa)者的牙齿。
13.265.20
ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम् ।
पुनश्च सन्दधे रुद्रो दीप्तं सुनिशितं शरम् ॥ १३.२६५.२० ॥
于是颤抖的众神向湿婆(Śaṅkara)俯首;楼陀罗又搭上一支炽热锋利的箭。
13.265.21
रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः ।
ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः ॥ १३.२६५.२१ ॥
众神见楼陀罗的威力而恐惧,便与诸仙人一同,那些最优秀的天神安抚了湿婆(Śarva)。
13.265.22
जेषुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं तदा ।
संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः ॥ १३.२६५.२२ ॥
于是众神合掌恭敬,诵唱《百楼陀罗》(Śatarudrīya);被诸天赞颂的大自在天(Maheśvara)心生欢喜。
13.265.23
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् ।
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ॥ १३.२६५.२३ ॥
众神在祭祀中为楼陀罗特别安排了一份供奉;大王啊,众神因恐惧而投奔于他。
13.265.24
तेन चैव हि तुष्टेन स यज्ञः सन्धितोऽभवत् ।
यद्यच्चापहृतं तत्र तत्तथैवान्वजीवयत् ॥ १३.२६५.२४ ॥
正因他的欢喜,那祭祀得以重新完备;凡在那里被夺走的东西,他都使之如原样复活。
13.265.25
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि ।
आयसं राजतं चैव सौवर्णमपि चापरम् ॥ १३.२६५.२५ ॥
强大的阿修罗在天上有三座城:一座铁城,一座银城,还有一座金城。
13.265.26
नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि ।
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥ १३.२६५.२६ ॥
即使使用一切武器,因陀罗也无法摧毁它们。于是受困的诸神都前往楼陀罗处寻求庇护。
13.265.27
तत ऊचुर्महात्मानो देवाः सर्वे समागताः ।
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ॥ १३.२६५.२७ ॥
于是聚集的诸位伟大神灵说道:"楼陀罗啊,众生在一切行为中都将变得凶暴。"
13.265.28
जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद ।
स तथोक्तस्तथेत्युक्त्वा कृत्वा विष्णुं शरोत्तमम् ॥ १३.२६५.२८ ॥
"赐予尊荣者啊,请连同他们的城池一起消灭达известные 提亚,保护诸世界。" 如此被请求后,他说"就这样吧",并将毗湿奴制成最好的箭。
13.265.29
शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् ।
ओङ्कारं च धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमां ॥ १३.२६५.२९ ॥
他以火为箭头,以毗婆娑之子阎摩为箭羽,以唵字为弓,以一切为弓弦,并以至上的萨维特丽为弓弦。
13.265.30
ब्रह्माणं सारथिं कृत्वा विनियुज्य च सर्वशः ।
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥ १३.२६५.३० ॥
他以梵天为御者,将一切以各种方式配合妥当,用那支三节三尖的箭射穿了那些城池。
13.265.31
शरेणादित्यवर्णेन कालाग्निसमतेजसा ।
तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत ॥ १३.२६५.३१ ॥
婆罗多啊,湿婆以如太阳般颜色、如死亡之火般光辉的箭,在那里将阿修罗连同他们的城市一起焚毁。
13.265.32
तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः ।
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा ॥ १३.२६५.३२ ॥
乌玛再次看见坐在她膝上的五髻幼童,想要知道,便问道:“这是谁?”
13.265.33
असूयतश्च शक्रस्य वज्रेणि प्रहरिष्यतः ।
सवज्रं स्तम्भयामास तं बाहुं परिघोपमम् ॥ १३.२६५.३३ ॥
他使嫉妒的帝释天、正欲以金刚杵击打的那只如铁杵般的手臂连同金刚杵一起僵住。
13.265.34
न संयुयुधिरे चैव देवास्तं भुवनेश्वरम् ।
सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे ॥ १३.२६५.३४ ॥
诸神没有与那位世界之主交战;所有神灵连同诸生主都在那位主宰面前迷惑了。
13.265.35
ततो ध्यात्वा च भगवान्ब्रह्मा तममितौजसम् ।
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् ॥ १३.२६५.३५ ॥
于是尊贵的梵天禅思后知道这位威力无量者是“最上者”,便向乌玛之主礼拜。
13.265.36
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः ।
बभूव स तदा बालः प्रययौ तु यथापुरम् ॥ १३.२६५.३६ ॥
于是诸神使乌玛和楼陀罗欢喜;那孩子便恢复如前,离去了。
13.265.37
स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् ।
द्वारवत्यां मम गृहे चिरं कालमुपावसन् ॥ १३.२६५.३७ ॥
那位有力的杜尔婆沙化为婆罗门,在我的杜婆罗婆提宅中长久居住。
13.265.38
विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि ।
तानुदारतया चाहं चक्षमे चातिदुःसहान् ॥ १३.२६५.३८ ॥
他在我家中多次冒犯婆罗门,我出于宽厚忍受了这些极难忍受之事。
13.265.39
स वै रुद्रः स च शिवः सोग्निः सर्वः स सर्वजित् ।
स चैवेन्द्रश्च वायुश्च सोऽस्विनौ स च विद्युतः ॥ १३.२६५.३९ ॥
他是楞陀罗,是湿婆,是火神,是一切,是征服一切者;他是因陀罗与风神,他是双马童,他也是闪电。
13.265.40
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ।
स कालः सोन्तको मृत्युः स यमो रात्र्यहानि च ॥ १३.२६५.४० ॥
他是月亮,是自在天;他是太阳与伐楼那;他是时间,是终结者,是死亡,是阎摩,也是昼夜。
13.265.41
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ।
सधाता स विधाता च विश्वकर्मा स सर्ववित् ॥ १३.२६५.४१ ॥
月与半月、季节、晨昏与年岁皆是他;他是创造者,是安排者,是万物的造作者,是全知者。
13.265.42
नक्षत्राणि ग्रहाश्चैव दिशोऽथ प्रदिशस्तथा ।
विश्वमूर्तिरमेयात्मा भगवान्परमद्युतिः ॥ १३.२६५.४२ ॥
二十八宿与行星,四方与四隅皆是他;他是宇宙之形,是无量之我,是至尊的薄伽梵,光明至极。
13.265.43
एकधा च द्विधा चैव बहुधा च स एव हि ।
शतधा सहस्रधा चैव तथा शतसहस्रधा ॥ १३.२६५.४३ ॥
他本身既是一,也是二,也是多;既是百种,也是千种,同样也是十万种。
13.265.44
ईदृशः स महादेवो भूयश्च भगवानतः ।
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥ १३.२६५.४४ ॥
那位大天神便是如此,而且他更是圣洁的世尊;他的德性即便用百年也无法述说。