摩诃婆罗多 · 章 13.266
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.266.1
युधिष्ठिर महाबाहो महाभाग्यं महात्मनः ।
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे ॥ १३.२६६.१ ॥
大臂的坚战啊,请听我讲大力者的大福德——关于多形、多名的楼陀罗。
13.266.2
वदन्त्युग्रं महादेवं तथा स्थाणुं महेश्वरम् ।
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा ॥ १३.२६६.२ ॥
人们称他为猛烈者、大天、不动者、大自在天、独目者、三目者、遍相者以及吉祥的湿婆。
13.266.3
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः ।
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः ॥ १३.२६६.३ ॥
通晓吠陀的婆罗门知道,那位神有两个身体:一个可怖,一个吉祥;这两个身体又以多种方式分化。
13.266.4
उग्रा घोरा तनुर्याऽस्य सोऽग्निर्विद्युत्स भास्करः ।
शिवा सौम्या च या त्वस्य धर्मस्त्वापोथ चन्द्रमाः ॥ १३.२६६.४ ॥
他那猛烈可怖的身体是火、闪电与那太阳;他那吉祥温和的身体是法、水与月亮。
13.266.5
आत्मनोऽर्धं तु तस्याग्निः सोमोऽर्धं पुनरुच्यते ।
ब्रह्मचर्यं चरत्येका शिवा चास्य तनुस्तथा ॥ १३.२६६.५ ॥
他的一半就是他自己,另一半被称为火与苏摩;一个身体修持梵行,他那吉祥的身体也是如此。
13.266.6
याऽस्य घोरतमा मूर्तिर्जगत्संहरते तथा ।
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः ॥ १३.२६६.६ ॥
他那最可怖的形相同样毁灭世界;因其主宰与伟大,他被称为大自在天。
13.266.7
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ १३.२६६.७ ॥
他焚烧,他锋利,他猛烈,他威严,他吞食肉、血与骨髓,因此他被称为楼陀罗(Rudra)。
13.266.8
देवानां सुमहान्यच्च यच्चास्य विषयो महान् ।
यच्च विश्वं जगत्पाति महादेवस्ततः स्मृतः ॥ १३.२६६.८ ॥
他是诸神中最伟大者,他的领域广大,他守护整个宇宙与世界,因此被称为摩诃提婆(Mahādeva)。
13.266.9
धूम्ररूपा जटा यस्माद्धूर्जटीत्यत उच्यते ॥ १३.२६६.९ ॥
因为他的发髻是烟雾的颜色,所以被称为达尔迦提(Dhūrjaṭi)。
13.266.10
स मेधयति यन्नित्यं सर्वान्वै सर्वकर्मभिः ।
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥ १३.२६६.१० ॥
他总是以一切行为净化众生,愿人类吉祥,因此被称为湿婆(Śiva)。
13.266.11
दहत्यूध्वं स्थितो यच्च प्राणान्नॄणां स्थिरश्च यत् ।
स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥ १३.२६६.११ ॥
他屹立于上,焚烧众人的气息;他坚定不移,其林伽永恒稳固;因此被称为舍那(Sthāṇu)。
13.266.12
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा ।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥ १३.२६६.१२ ॥
他的形相多样:过去、未来、现在,以及静止与运动之物,皆属于他;因此被称为多形者(Bahurūpa)。
13.266.13
विश्वेदेवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ।
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोपि वा।
चक्षुषः प्रभवं तेजः सर्वतश्चक्षुरेव तत् ॥ १३.२६६.१३ ॥
诸维诗陀天神也在他之中,因此他被称为宇宙形相。他有千目,有万目,或四面皆是眼睛。眼睛的源头是光明;他处处都是眼睛。
13.266.14
सर्वथा यत्पशून्पाति तैश्च यद्रमते सह ।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥ १३.२६६.१४ ॥
他在各方面守护众生,与众生一同欢喜,又是他们的主宰;因此他被称为众生之主帕舒帕蒂。
13.266.15
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् ।
भक्तानुग्रहणार्थाय गूढलिङ्गस्ततः स्मृतः।
महयत्यस्य लोकश्च प्रियं ह्येतन्महात्मनः ॥ १३.२६६.१५ ॥
当他的林伽因永恒的梵行而确立时,为了向虔信者施恩,他被称为隐秘林伽。世界尊敬他;这对伟大的灵魂是可爱的。
13.266.16
विग्रहं पूजयेद्यो वै लिङ्गं वाऽपि महात्मनः ।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥ १३.२६६.१६ ॥
凡礼拜伟大灵魂的圣像或林伽者,凡经常礼拜林伽者,都获得大福祉。
13.266.17
ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा ।
लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम्। ॥ १३.२६६.१७ ॥
诸仙人与天神,乃至乾闼婆与阿普萨拉斯,都礼拜那向上高耸而立的林伽。
13.266.18
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः ।
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ॥ १३.२६६.१८ ॥
当他受到礼拜时,那位大自在天便欢喜。他怀着欢悦之心,把幸福赐予虔信者;他是慈爱虔信者的。
13.266.19
एष एव श्मशानेषु देवो वसति निर्दहन् ।
यजन्ते ये जनास्तत्र वीरस्थाननिषेविणः ॥ १३.२६६.१९ ॥
正是此神居于火葬场中焚烧。在那里,经常前往英雄之地的人们礼拜他。
13.266.20
विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह ।
स च वायुः शरीरेषु प्राणपालः शरीरिणाम् ॥ १३.२६६.२० ॥
死亡存在于众生的身体之中,并且不平等地存在于此;而身体中的那风,正是有身众生的命气守护者。
13.266.21
तस्य घोराणि रूपाणि दीप्तानि च बहुनि च ।
लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः ॥ १३.२६६.२१ ॥
他的形象可怖而炽亮,且有许多;世间所供奉的那些形象,婆罗门与智者知晓。
13.266.22
नामधेयानि देवेषु बहून्यस्य यथार्थवत् ।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥ १३.२६६.२२ ॥
在诸神之中,他的许多名号依其真义而被阐明——因其伟大,因其遍在之力,也因其所作之事。
13.266.23
वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम् ।
व्यासेनोक्तं च यच्चापि उपस्थानं महात्मनः ॥ १३.२६६.२३ ॥
在吠陀中,婆罗门知晓关于他的至上《百罗陀罗》,以及毗耶娑所宣说的,还有那位大德的颂赞。
13.266.24
प्रदाता सर्वलोकानां विश्वसाक्षी निरामयः ।
ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे ॥ १३.२६६.२४ ॥
众界的施与者,宇宙的见证者,无病无患——婆罗门与其他仙人称他为最初之有。
13.266.25
प्रथमो ह्येष देवानां मुखादग्निमजीजनत् ।
ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि ॥ १३.२६६.२५ ॥
他是诸神中的首位:他从口中生出了火。他也释放被种种诸星所束缚的生命之气。
13.266.26
विमोक्षयति तुष्टात्मा शरण्यः शरणागतान् ।
आयुरारोग्यमैश्वर्यं हितं कामांश्च पुष्कलान् ॥ १३.२६६.२६ ॥
那位心意欢悦的庇护者,解脱前来寻求庇护的人;他赐予长寿、健康、富足、福祉以及丰厚的愿望。
13.266.27
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः ।
शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ॥ १३.२६६.२७ ॥
他赐予人类,又再度收回;即便在因陀罗等诸神之中,人们也说他拥有主宰之权。
13.266.28
स एव स्थापको नित्यं त्रैलोक्यस्य शुभाशुभे ।
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ॥ १३.२६६.२८ ॥
他永远是三界善恶的建立者;因其主宰之权,他又被称为欲望的主宰。
13.266.29
महेश्वरश्च लोकानां महातामीश्वरश्च सः ।
बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत्।
तस्य देवस्य यद्वक्त्रं समुद्रे वडंवामुखण् ॥ १३.२६६.२९ ॥
他是诸界的大主宰,也是伟人的主宰。这宇宙与这世界被他的种种多样形相所遍满。那位神的面容,在海中为马首火口……