Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.267

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.267.1

इत्युक्तवति तद्वाक्यं कृष्णे देवकिनन्दने ।
भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः ॥ १३.२६७.१ ॥

德瓦基之子克里希纳说完这番话后,坚战再次向山塔努之子毗湿摩发问。

13.267.2

निर्णये वा महाबुद्धे सर्वधर्मविदांवर ।
प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् ॥ १३.२६७.२ ॥

大智者啊,诸知法者中最优秀的人!在判定之中,直接感知与圣典这二者,哪一个是其原因?

13.267.3

नास्त्यत्रि संशयः कश्चिदिति मे वर्तते मतिः ।
शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वं मेऽनुपृच्छसि ॥ १३.२६७.३ ॥

我的看法是此处并无任何疑惑。听着,智者,我将告诉你,因为你问得恰当。

13.267.4

संशयः सुगमस्तत्र दुर्गमस्तस्य निर्णयः ।
दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शन् ॥ १३.२६७.४ ॥

在那里,疑惑很容易产生,但要定论却很难。在所见所闻无穷无尽之处,所显现的只有疑惑。

13.267.5

प्रत्यक्षं कारणं दृष्टं हैतुकं प्राज्ञमानिनः ।
नास्तीत्येवं व्यवस्यन्ति सत्यमागममेव वा ॥ १३.२६७.५ ॥

那些只以直接感知为原因、依循推理而自以为有智慧的人,断定说“没有”;或者只在圣典中看见真理。

13.267.6

तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः ।
अथ सञ्चिन्त्यमेवैकं कारणं किं भवेदिति ॥ १३.२६७.६ ॥

这是不恰当的;自以为博学的愚人才会如此断定。现在应当思考:唯一的原因可能是什么?

13.267.7

शक्यं दीर्घेण कालेन युक्तेनामन्त्रितेन च ।
प्राणयात्रामनेकां च कल्पयानेन भारत ॥ १३.२६७.७ ॥

婆罗多啊,经长时间自律并受教诲者,并能安排生活的种种途径者,方能做到此事。

13.267.8

तत्परेणैव नान्येन शक्यते तत्तु कारणम् ।
हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् ॥ १३.२६७.८ ॥

此因唯有至上者能及,他人不能。到达诸因之尽头,便得广大而无上的智慧。

13.267.9

ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते ।
न त्वेव गमनं राजन्हेतुतो गमनं तथा।
अग्राह्यमनिबद्धं च वाचा सम्परिवर्जयेत् ॥ १३.२६७.९ ॥

世界的光明广大地显现。然而,大王,行动也由因而起。不可把握、无所系缚之事,应当以言语完全避开。

13.267.10

प्रत्यिक्षं लोकतः सिद्धिर्लोकश्चागमपूर्वकः ।
शिष्टाचारो बहुविधस्तन्मे ब्रूहि पितामहः ॥ १३.२६७.१० ॥

现量、来自世间的成就、以圣典为先的世间,以及贤人的种种行为——祖父啊,请把这些告诉我。

13.267.11

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः ।
संस्था यत्नैरपि कृता कालेन प्रतिभिद्यते ॥ १३.२६७.११ ॥

当法被强暴而邪恶之人夺去时,即使用力所建立的秩序,也会随时间而崩解。

13.267.12

अधर्मो धर्मरूपेण तृणैः कूप इवावृतः ।
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ॥ १३.२६७.१२ ॥

非法以法之形态隐藏,如同被草覆盖的井。于是行为便因他们而破坏。听着,坚战。

13.267.13

अवृत्त्या ये तु निन्दनि श्रुतत्यागपरायणाः ।
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः ॥ १३.२६७.१३ ॥

关于那些行为不端、非议他人、专注于抛弃所学、憎恶法且愚昧的人,此处如此说,而关于他们尚有疑问。

13.267.14

अतृप्यन्तस्तु साधूनां यावदागमबुद्धयः ।
परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च ॥ १३.२६७.१४ ॥

去找那些不满足于善人教导、智慧只及于经典、自以为“这就是至上”而心满意足的人;侍奉他们,并向他们请教。

13.267.15

कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ ।
धर्म इत्येव सम्बुद्धस्तानुपास्स्व च पृच्छ च ॥ १३.२६७.१५ ॥

去找那些把欲望和财富抛在身后、追随贪婪与迷惑、自以为觉悟而说“唯此即法”的人;侍奉他们,并向他们请教。

13.267.16

न तेषां भिद्यते वृत्तं यज्ञाः स्वाध्यायकर्म च ।
आचारः कारणं चैव धर्मश्चैकस्त्रयं पुनः ॥ १३.२६७.१६ ॥

他们的行为不曾破坏:祭祀、诵读吠陀、习俗、因与法——这三者(或此三者)复归为一。

13.267.17

पुनरेव हि मे बुद्धि संशये परिमुह्यति ।
अपरो मज्जमानस्य परं तीरमपश्यतः ॥ १३.२६७.१७ ॥

我的心又在疑惑中迷乱,就像溺水之人既看不见别的依靠,也看不见远岸。

13.267.18

वेदः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि ।
पृथक्त्वं लभ्यते चैषां धर्मश्चैतत्त्रयं कथम् ॥ १३.२६७.१८ ॥

若吠陀、现量与习俗是三种量,而其间又有差别,那么这作为法的三者,怎能成为一体呢?

13.267.19

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः ।
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा ॥ १३.२६७.१९ ॥

国王啊,若你认为,当法被强者和恶人夺走时,对法的探讨便分为三种,

13.267.20

एक एवेति जानीहि त्रिधा धर्मस्य दर्शनम् ।
पृथक्त्वे च न मे बुद्धिस्त्रयाणामपि वै तथा ॥ १३.२६७.२० ॥

当知法的见解只有一种,并非三种。我的心也不认为这三者是彼此分离的。

13.267.21

उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर ।
जिज्ञासा न तु कर्तव्या धर्मस्य परितर्कणात् ॥ १३.२६७.२१ ॥

三者之道已经宣说,你就照此修行。不应以无休止的辩论去探究法。

13.267.22

सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः ।
अन्धो जड इवाशङ्की यद्ब्रवीमि तदाचर ॥ १३.२६७.२२ ॥

婆罗多中最优秀的人啊,对此你切不可有疑。如盲人或愚人一般毫无疑虑,去践行我所说的。

13.267.23

अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम् ।
अजातशत्रो सेवस्य धर्म एष सनातनः ॥ १३.२६७.२३ ॥

不害、真实、无怒、布施——这四者即是。阿阇多设咤啊,修行它吧;这便是永恒的法。

13.267.24

ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता ।
तामन्वेहि महाबाहो धर्मस्यैते हि देशिकाः ॥ १३.२६७.२४ ॥

婆罗门中那种适合父亲与祖父的行为,你要遵循,大臂者啊;因为他们正是法的引导者。

13.267.25

प्रमाणमप्रमाणं वै यः कुर्यादबुधो जनः ।
न स प्रमाणतामर्हो विषादजननो हि सः ॥ १३.२६७.२५ ॥

愚昧之人若将可为准则者视为不可为准,则不配被当作准则;他实为生出忧愁之人。

13.267.26

ब्राह्मणानेव सेवस्व सत्कृत्य बहुमान्य च ।
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् ॥ १३.२६७.२६ ॥

唯当侍奉婆罗门,恭敬尊崇,极加敬重。须知一切世界皆系于他们之中。