摩诃婆罗多 · 章 13.269
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.269.1
नाभागधेयः प्राप्नोति धनं सुबलवानपि ।
भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति ॥ १३.२६९.१ ॥
没有福分的人即使十分强壮也得不到财富;有福分的人即便柔弱或年幼,也能得到财富。
13.269.2
नालाभकाले लभते प्रयत्नेऽपि कृते सति ।
लाभकालेऽप्रयत्नेन लभते विपुलं धनम् ॥ १३.२६९.२ ॥
在无利之时,即使努力也得不到;在得利之时,不必努力也能获得大量财富。
13.269.3
कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः ।
अयत्नेनैधमानाश्च दृश्यन्ते बहवो जनाः ॥ १३.२६९.३ ॥
可以看到成百上千的人努力却徒劳无功,也可以看到许多人不费力气却日益兴旺。
13.269.4
यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात् ।
नालभ्यं चोपलभ्येत नृणां भरतसत्तम ॥ १३.२६९.४ ॥
如果人的努力就足够,那么凡人便能获得一切果实,连无法获得的东西也能获得,婆罗多中最优秀者啊。
13.269.5
प्रयत्नं कृतवन्तोपि दृश्यन्ते ह्यफला नराः ।
मार्गत्यागशतैरर्थानमार्गश्चापरः सुखी ॥ १३.२६९.५ ॥
可以看到努力过的人仍一无所获,而另一个人数百次背离正道以求财富,却看似快乐。
13.269.6
अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः ।
धनयुक्ताः स्वकर्मस्था दृश्यन्ते चापरेऽधनाः ॥ १३.२६९.६ ॥
可以看到人们屡次作不当之事却仍贫穷;也可以看到富有而安守本分之人,以及其他贫穷之人。
13.269.7
अधीत्य नीतिशास्त्राणि नीतियुक्तो न दृश्यते ।
अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ॥ १३.२६९.७ ॥
研习了政治学典籍,却不见其有德行智慮的人,而无知之人又因何缘故被任为谋臣?
13.269.8
विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्मतिस्तथा ।
यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात् ॥ १३.२६९.८ ॥
既有有学问者,也有无学问者,既有富有者,也有心术不正者;若人凭借学问便能得到安乐……
13.269.9
न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत् ।
यथा पिपासां जयति पुरुषः प्राप्य वै जलम् ॥ १३.२६९.९ ॥
有学问之人不应为谋生而依附无学问者,犹如人得水而胜过干渴。
13.269.10
इष्टार्थो विद्यया ह्येव न विद्यां प्रजहेन्नरः ॥ १३.२६९.१० ॥
人所求之事,唯由学问而成;故人不应舍弃学问。
13.269.11
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ १३.२६९.११ ॥
时辰未到之人,即使被百箭穿身也不会死;时辰已到之人,即使被草尖触及也不能活。
13.269.12
ईहमानः समारम्भान्यदि नासादयेद्धनम् ।
उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति ॥ १३.२६९.१२ ॥
人若竭力经营却不能得到财富,便应修持严苛的苦行;因为未曾播种的,不会发芽。
13.269.13
दानेन भोगी भवति मेधावी वृद्धसेवया ।
अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ॥ १३.२६९.१३ ॥
施舍使人享有福乐,侍奉长者使人聪慧,不伤害使人长寿,智者如是说。
13.269.14
तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि ।
सुभाषी प्रियकृच्छान्तः सर्वसत्वाविहिंसकः ॥ १३.२६९.१४ ॥
因此应当施舍而不乞求,也应尊敬有德之人;言语温和,行事令人喜悦,内心平静,不伤害任何有情众生。
13.269.15
यदा प्रमाणं प्रसवः स्वभावश्च सुखासुखे ।
दंशकीटपिपीलानां स्थिरो भव युधिष्ठिर ॥ १३.२६९.१५ ॥
युधिष्ठिर啊,当生死、本性与苦乐之量如同蚊虫、爬虫与蚂蚁一般时,你便应当坚定不移。