Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.270

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.270.1

कार्यते यच्च क्रियते सच्चासच्च कृताकृतम् ।
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ॥ १३.२७०.१ ॥

所做之事与正在做之事,真与假,已作与未作——若得尊敬,可以安心;若被轻慢,则不可轻信。

13.270.2

काल एवान्तराशक्तिर्निग्रहानुग्रहौ ददत् ।
बुद्धिमाविश्य भूतानां धर्माधर्मौ प्रवर्तते ॥ १३.२७०.२ ॥

时间本身即是内在之力,施与惩罚与恩惠;它进入众生之心,使法与非法得以运行。

13.270.3

यदा त्वस्य भवेद्बुद्धिर्धर्मार्थस्य प्रदर्शनात् ।
तदाश्वसीत धर्मात्मा दृढबुद्धिर्न विश्वसेत् ॥ १३.२७०.३ ॥

当其心智因显示法与利而如此时,行法且意志坚定者可以信任;否则不可信任。

13.270.4

एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम् ।
कालयुक्तोऽप्युभयविच्छेषं युक्तं समाचरेत् ॥ १३.२७०.४ ॥

众生中智者的标志只是这些:即便受时间所缚,知晓两者的人也应当恰当地行其余之事。

13.270.5

यथा ह्युपस्थितैश्वर्याः पूजयन्ति नरा जनान् ।
एवमेवात्मनाऽऽत्मानं पूजयन्तीह धार्मिकाः ॥ १३.२७०.५ ॥

犹如得到权势的人尊重他人,同样,此世的行法者以自身尊重自身。

13.270.6

भावशुद्धिस्तु तपसा देवतानां च मूजया ।
सनातनेन शुद्ध्या च श्रुतदानजपैरपि।
न ह्यशुद्धस्तु तां दद्याद्धर्मकाले कथञ्चन ॥ १३.२७०.६ ॥

心意的清净由苦行而来,由诸神的净化(mūjā)而来,由永恒的清净而来,也由诵学、布施与持诵而来。然而不净之人,在法时绝不可施与。

13.270.7

न ह्यधर्मतया धर्मं दद्यात्कालः कथञ्चन ।
तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम् ॥ १३.२७०.७ ॥

时机绝不会以非法之道赐予正法。因此应当认识那心性清净、行持正法之人。

13.270.8

स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम् ।
अधर्मः सन्ततो धर्मं कालेन परिरक्षितम् ॥ १३.२७०.८ ॥

如同不能触碰熊熊烈火,非法也无法持续触及被时间所守护的正法。

13.270.9

कार्यावेतौ हि धर्मोणि धर्मो हि विजयावहः ।
त्रयाणामपि लोकानामालोकः कारणं भवेत् ॥ १३.२७०.९ ॥

此二者都必须践行,因为正法带来胜利。正法本身应当成为三界光明的根源。

13.270.10

न तु कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम् ।
ऊह्यमानस्तु धर्मेण प्राप्नुयात्परमच्युतम्।
विश्वास एव कर्तव्यो बहुधर्मे शुभच्छले ॥ १३.२७०.१० ॥

然而,智者不应牵着他人的手去引导。唯有被正法引领之人才能抵达至高不灭者。对于众多正法与吉祥的权巧,应当只信任它们。

13.270.11

शूद्रोऽहं नाधिकारो मे चातुराश्रम्यसेवने ।
इति विज्ञानमपरे नात्मन्युपदधत्युत ॥ १३.२७०.११ ॥

“我是首陀罗,我无权侍奉四住期。”这样的认识,他人并不会放在自己心中。

13.270.12

विशेषेण च वक्ष्यामि चातुर्वर्ण्यस्य लिङ्गतः ।
पञ्चभूतशरीराणां सर्वेषां सदृशात्मनाम् ॥ १३.२७०.१२ ॥

我将特别依据四种姓的标志而讲说,论述所有以五大构成身体、其自性相同者。

13.270.13

लोकधर्मे च धर्मे च विशेषकरणं कृतम् ।
यथैकत्वं पुनर्यान्ति प्राणिनस्तत्र विस्तरः ॥ १३.२७०.१३ ॥

在世间之法与法中作了特别的区分;依此,众生重新回归于一体;其详细阐述在彼处。

13.270.14

अध्रुवो हि कथं लोकः स्मृतो धर्मः कथं ध्रुवः ।
यत्र कालो ध्रुवस्तात तत्र धर्मः सनातनः ॥ १३.२७०.१४ ॥

若世界无常,又如何被视为如此?法又如何恒定?孩子,时间恒定之处,便有永恒的法。

13.270.15

सर्वेषां तुल्यदेहानां सर्वेषां सदृशात्मनाम् ।
कालो धर्मेण संयुक्तः शेष एव स्वयं गुरुः ॥ १३.२७०.१५ ॥

对于身体相同、灵魂相似的一切众生,时间与法相结合;其余自身即为尊重之物。

13.270.16

एवं सति न दोषोऽस्ति भूतानां धर्मसेवने ।
तिर्यग्योनावपि सतां लोक एव मतो गुरुः ॥ १३.२७०.१६ ॥

既然如此,奉行法的众生便无过失;即使在畜生之胎中,善人也视世间为重要之物。