Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.271

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.271.1

शरतल्पगतं भीष्मं पाण्डवोऽथ कुरूद्वहः ।
युधिष्ठिरो हितं प्रेप्सुरपृच्छत्कल्मषापहम् ॥ १३.२७१.१ ॥

于是,库鲁族中最杰出的般度之子坚战,渴望善益,向躺在箭床上的毗湿摩询问能消除罪恶的法门。

13.271.2

किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते ।
विपाप्मा स भवेत्केन किं वा कल्मषनाशनम् ॥ १३.२७१.२ ॥

在此世间,人的最高善是什么?做什么才能在安乐中兴盛?以什么可以使他无罪,或什么是灭罪之法?

13.271.3

तस्मै शुश्रूषमाणाय भूयः शान्तनवस्तदा ।
दैवं वंशं यथान्यायमाचष्ट पुरुषर्षभ ॥ १३.२७१.३ ॥

于是,沙仙陀之子毗湿摩依规矩,再次向渴望聆听的他讲述了神圣的家系,人中之牛啊。

13.271.4

अयं दैवतवंशो वै ऋषिवंशसमन्वितः ।
त्रिसन्ध्यं पठितः पुत्र कल्मषापहरः परः ॥ १३.२७१.४ ॥

此神圣家系与仙人家系相连,确实在三个黄昏时诵读,我的孩子;它是最殊胜的灭罪之法。

13.271.5

यदह्ना कुरुते पापमिन्द्रियैः पुरुषश्चरन् ।
बुद्धिपूर्वमबुद्धिर्वा रात्रौ यच्चापि सन्ध्ययोः ॥ १३.२७१.५ ॥

人白天以诸根游走时所犯的罪过,无论故意还是无知;夜晚以及两个黄昏时所犯的罪过。

13.271.6

मुच्यते सर्वपापेभ्यः कीर्तयन्वै शुचिः सदा ।
नान्धो न बधिरः काले कुरुते स्वस्तिमान्सदा ॥ १३.२७१.६ ॥

常保清净而诵念此者,免于一切罪恶。按时诵念者,不盲不聋,常得吉祥。

13.271.7

तिर्यग्योनिं न गच्छेच्च नरकं सङ्कराणि च ।
न च दुःखमयं तस्य मरणे स न मुह्यति ॥ १३.२७१.७ ॥

他不会堕入畜生之道,不入地狱,也不陷于混杂;临死时也不会被痛苦的迷惑所困。

13.271.8

देवासुरगकुरुर्देवः सर्वभूतनमस्कृतः ।
अचिन्त्योथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥ १३.२७१.८ ॥

诸天、阿修罗与众伽那所礼拜的天神,为一切众生所敬礼;不可思议,不可言说,是一切生命的生命,非从胎生。

13.271.9

पितामहो जगन्नाथः सावित्री ब्रह्मणः सती ।
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥ १३.२७१.९ ॥

祖父,世界之主,梵天忠贞的妻子萨维特丽,从吠陀生出者,创造者,毗湿奴,那罗延,主宰。

13.271.10

उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा ।
विशाखो हुतभुग्वायुश्चन्द्रसूर्यौ प्रभाकरौ ॥ १३.२७१.१० ॥

乌玛之主、三目者、塞建陀(Skanda)、军队统帅,以及毗沙卡;受供之火、风、月与日,即施光者。

13.271.11

शक्रः शचीपतिर्देवो यमो धूमोर्णया सह ।
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥ १३.२७१.११ ॥

帝释天,舍姬之夫神;阎摩与烟网同在;水天与高丽同在;财神与吉祥天同在。

13.271.12

सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः ।
सङ्कल्पः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणः ॥ १३.२७१.१२ ॥

温和的牛、天女苏罗跋、大仙毗首罗婆;决意、大海、恒河与流淌的诸河;以及摩嚕多众。

13.271.13

वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा ।
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥ १३.२७१.१३ ॥

通过苦行而成就的瓦拉基利耶仙人,同样还有黑天·双岛(毗耶娑),那罗陀与波尔瓦塔,以及毗首婆苏、诃诃与呼呼。

13.271.14

तुम्बुरुश्चित्रसेनश्च देवदूतश्च विश्रुतः ।
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥ १३.२७१.१४ ॥

频武卢与旃陀罗塞那,著名的天界使者,大福的天女,以及天界阿普萨拉斯的群众。

13.271.15

उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुषा ।
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥ १३.२७१.१५ ॥

乌尔瓦西、梅那迦、朗跋、米什拉刻希、阿兰布沙、毗首婆其与格里塔其,以及五髻与提洛塔玛。

13.271.16

आदित्या वसवो रुद्राः साश्विनः पितरोपि च ।
धर्मः श्रुतं तपो दीक्षा व्यवसायः पितामहः ॥ १३.२७१.१६ ॥

阿提提耶、婆苏与楼陀罗,连同双阿输昆,还有祖先们;法、圣典之学、苦行、受戒、坚定的努力,以及祖父(梵天)。

13.271.17

शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा ।
शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ॥ १३.२७१.१७ ॥

夜与昼,同样还有摩里赐与迦叶波,金星、木星、火星、水星、罗睺,以及土星(沙尼)。

13.271.18

नक्षत्राण्यृतवश्चैव मासाः पक्षाः सवत्सराः ।
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ॥ १३.२७१.१८ ॥

二十八宿,四季,月份、半月与年岁;毗娜泰耶(金翅鸟)、大海,以及由迦德卢所生的蛇族。

13.271.19

शतद्रुश्च विपाशा च चन्द्रभागा सरस्वती ।
सिन्धुश्च देविका चैव प्रभासं पुष्कराणि च ॥ १३.२७१.१९ ॥

设多卢河与毗波沙河、月分河与萨拉斯瓦蒂河、信度河与提维迦河,以及普拉巴萨与普什迦罗湖。

13.271.20

गङ्गा महानदी वेणा कावेरी नर्मदा तथा ।
कुलम्पुना विशल्या च करतोयाम्बुवाहिनी ॥ १३.२७१.२० ॥

恒河、大河摩诃那提、吠那河、迦韦里河、那尔玛达河,以及库兰普那河、毗舍利亚河和携带羯罗多耶之水的河流。

13.271.21

सरयूर्गण्डकी चैव लोहितश्च महानदः ।
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥ १३.२७१.२१ ॥

萨拉尤河与甘达基河,名为罗希多的大河,铜赤河、吠陀罗婆提河、帕尔纳沙河,以及瞿昙河。

13.271.22

गोदावरी च वेण्या च कृष्णवेणा तथाऽद्रिजा ।
दृषद्वती च कावेरी चक्षुर्मन्दाकिनी तथा ॥ १३.२७१.२२ ॥

戈达瓦里河与吠尼耶河,黑吠那河,山中所生之河,德里沙德瓦蒂河与迦韦里河,恰克苏河以及曼达基尼河。

13.271.23

प्रयागं च प्रभासं च पुण्यं नैमिषमेव च ।
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥ १३.२७१.२३ ॥

普雷亚加与普拉巴萨,神圣的奈弥沙林,毗湿瓦湿瓦罗之处,以及那清净湖泊所在之地。

13.271.24

पुण्यतीर्थं सुसलिलं कुरुक्षेत्रं प्रकीर्तितम् ।
सिन्धूत्तमं तपो दानं जम्बूमार्गमथापि च ॥ १३.२७१.२४ ॥

水流清美的圣渡口库卢原被颂扬;河流中最殊胜的信度河;苦行、布施,以及赡部之道。

13.271.25

हिरण्वती वितस्ता च तथा प्लक्षवती नदी ।
वेदस्मृतिर्वेदवती मालवाऽथाश्ववत्यपि ॥ १३.२७१.२५ ॥

金水河、毗多斯塔河、普拉克沙瓦蒂河、吠陀记忆河、吠陀瓦蒂河、摩罗婆河,还有马车河。

13.271.26

भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च ।
ऋषिकुल्यास्तथा मेध्या नद्यः सिन्धुवहास्तथा ॥ १३.२७१.२६ ॥

神圣的大地区域,还有恒河门、利希库利亚河、清净的河流,以及流向信度河的河流。

13.271.27

चर्मण्वती नदी पुण्या कौशिकी यमुना तथा ।
नदी भीमरथी चैव बाहुदा च महानदी ॥ १३.२७१.२७ ॥

神圣的恰尔曼瓦蒂河,考希基河和亚穆纳河,毗摩罗提河,巴呼达河以及大河。

13.271.28

माहेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती ।
नन्दा चापरनन्दा च तथा तीर्थमहाह्रदः ॥ १३.२७१.२८ ॥

摩献陀罗瓦尼河、特里迪瓦河、尼利卡河与萨拉斯瓦蒂河,难陀河与阿帕拉难陀河,以及圣地大湖。

13.271.29

गयाऽथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् ।
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् ॥ १३.२७१.२९ ॥

伽耶与法尔古圣渡口,被诸神环绕的法林,神圣的天河,以及梵天所造的湖泊。

13.271.30

पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् ।
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः ॥ १३.२७१.३० ॥

神圣的、在三界闻名的、能除一切罪过的吉祥之地;还有富有神药的喜马拉雅山。

13.271.31

विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः ।
मेरुर्महेन्द्रो मलयः श्वेतश्च रजतावृतः ॥ १३.२७१.३१ ॥

维陀耶山,肢体因矿石而斑斓,富有圣地与药草;麦鲁、摩亨陀罗、摩拉耶,以及被白银覆盖的白山。

13.271.32

शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा ।
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः ॥ १३.२७१.३२ ॥

角峰山、曼陀罗山、青山、尼沙陀山与达都罗山;花冠山、眼膏光山,以及香醉山。

13.271.33

पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः ।
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥ १३.२७१.३३ ॥

圣洁的苏摩山及其他承载大地之山,四方与四隅,大地,以及一切树木。

13.271.34

विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा ।
पान्तु नः सततं देवाः कीर्तिताऽकीर्तिता मया ॥ १३.२७१.३४ ॥

诸大神、天空、星宿与行星亦然;愿我所称与未称的诸神,永远护佑我们。

13.271.35

कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः ।
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ॥ १३.२७१.३५ ॥

诵念这些名号的人,可脱离一切罪过;赞颂并欢喜应和者,可从四面八方的恐惧中解脱。

13.271.36

सर्वसङ्करपापेभ्यो देवतास्तवनन्दकः ।
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् ॥ १३.२७१.३६ ॥

喜好赞颂诸神者,可脱离一切杂种之罪;在诸神之后,应敬礼以苦行成就、苦行殊胜的婆罗门。

13.271.37

कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् ।
यवक्रीतोऽथ रैम्यश्च कक्षीवानौशिजस्तथा ॥ १३.२७१.३७ ॥

我将列举前面提到的、能解脱一切罪过的人:耶婆克利多、莱米耶、迦克希婆特,以及乌希家之子。

13.271.38

भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः ।
बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः ॥ १३.२७१.३८ ॥

薄里古、安吉罗、迦那瓦、大力的梅达提提,以及具备德性的巴尔希,他们依止东方。

13.271.39

भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा ।
मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ॥ १३.२७१.३९ ॥

吉祥方位的大福德者释放了;大福德而有力的斯瓦斯蒂-阿特雷耶亦释放。

13.271.40

मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान् ।
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ॥ १३.२७१.४० ॥

密多罗与婆楼那之子、大力的阿伽斯提亚,还有坚寿与上臂,这两位是著名的仙人中的最优者。

13.271.41

पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् ।
उषङ्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ॥ १३.२७१.४१ ॥

应知那些依止西方而繁荣的人:乌尚古与其兄弟,以及大力的帕里维亚达。

13.271.42

ऋषिर्दीर्घतमाश्चैव गौतमः काश्यपस्तथा ।
एकतश्च द्वितश्चैव त्रितश्चैव महानृषिः ॥ १३.२७१.४२ ॥

仙人长暗、乔达摩与迦叶波;一多、二多,以及大仙三多。

13.271.43

अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः ।
उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान्। ॥ १३.२७१.४३ ॥

阿提里的正直之子,以及主宰者萨拉斯瓦塔,你应当知道那些依托北方而兴盛的人。

13.271.44

अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् ।
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च ॥ १३.२७१.४४ ॥

阿特利、婆斯色塔、夏克蒂、勇猛的波罗舍利耶、毗湿伐弥多罗、跋罗堕阇,以及同样的甚那达基尼。

13.271.45

ऋचीकपुत्रो रामश्च ऋषिरौद्दालकिस्तथा ।
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा ॥ १३.२७१.४५ ॥

律千迦之子罗摩、仙人奥达拉基、白光、柯哈拉、毗补罗,以及同样的提婆罗。

13.271.46

देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च ।
लोमशो नाचिकेतश्च लोमहर्षण एव च ॥ १३.२७१.४६ ॥

提婆沙尔摩、达乌米亚、象迦叶、罗摩娑、那支盖多,以及同样的罗摩哈尔沙那。

13.271.47

ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ।
एष वै समवायश्च ऋषिदेवसमन्वितः ॥ १३.२७१.४७ ॥

仙人乌格拉什拉瓦斯、婆利古族的遮衍那亦然。这一集会由仙人与诸神组成。

13.271.48

आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः ।
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् ॥ १३.२७१.४८ ॥

君王啊,第一位被宣称为解脱一切罪恶者:那伽、夜帝、那护沙、耶度,以及勇猛的普卢。

13.271.49

धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् ।
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा ॥ १३.२७१.४९ ॥

檀度摩罗、迪利巴、威勇的萨伽罗、克里沙施瓦、耀凡施瓦、奇特拉施瓦,以及诚实的萨蒂亚望,同样如此。

13.271.50

दुष्यन्तो भरतश्चैव चक्रवर्ती महायशाः ।
पवनो जनकश्चैव तथा दृष्टरथो नृपः ॥ १३.२७१.५० ॥

杜湿扬塔、大名鼎鼎的转轮王婆罗多、风神、遮那伽,以及国王德里什塔罗陀,同样如此。

13.271.51

रघुर्नरवरश्चैव तथा दशरथो नृपः ।
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः ॥ १३.२७१.५१ ॥

至上之人罗грху,同样如此的国王十车王,斩杀罗刹的英雄罗摩,沙舍滨陀,以及婆吉罗陀。

13.271.52

हरिश्चन्द्रो मरुत्तश्च तथा दढरथो नृपः ।
महोदर्यो ह्यलर्कश्च ऐलश्चैव नराधिपः ॥ १३.२७१.५२ ॥

哈利什昌陀罗、摩娄多,同样如此的国王坚车王,大腹,阿罗迦,以及人主阿伊罗。

13.271.53

करंधमो नरश्रेष्ठः कध्मोरश्च नराधिपः ।
दक्षोऽम्बरीषः कुकुरो रैवतश्च महायशाः ॥ १३.२७१.५३ ॥

至上之人卡兰达玛、人主卡德摩罗、达刹、安巴利沙、古库罗,以及大名的雷瓦陀。

13.271.54

कुरु संवरणश्चैव मांधाता सत्यविक्रमः ।
मुचुकुन्दश्च राजर्षिर्जह्नुर्जाह्नविसेवितः ॥ १३.२७१.५४ ॥

俱卢、三婆罗那、真勇之人摩陀多、王仙穆楚昆陀,以及曾受恒河侍奉的遮纳。

13.271.55

आदिराजः पृथुर्वैन्यो मित्रभानुः प्रियङ्करः ।
त्रसद्दस्युस्तथा राजा श्वेतो राजर्षिसत्तमः ॥ १३.२७१.५५ ॥

第一王普利图(吠纳之子)、密多罗跋奴、普利扬迦罗、国王特拉萨达斯尤,以及王仙中最优秀的白王。

13.271.56

महाभिषश्च विख्यातो निमी राजा तथाऽष्टकः ।
आयुः क्षुपश्च राजर्षिः कक्षेयुस्च नराधिपः ॥ १३.२७१.५६ ॥

著名的摩诃毗沙、国王尼弥、阿湿吒迦、王仙阿耶、刹波,以及人主迦叉耶由。

13.271.57

प्रतर्दनो दिवोदासः सुदासः कोसलेश्वरः ।
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ॥ १३.२७१.५७ ॥

普罗达那、提婆陀娑、憍萨罗之主苏陀娑、王仙艾罗与那罗,以及众生主摩奴。

13.271.58

हविध्रश्च पृषध्रश्च प्रतीपः शान्तनुस्तथा ।
अजः प्राचीनबर्हिश्च तथैक्ष्वाकुर्महायशाः ॥ १३.२७१.५८ ॥

哈维德罗与普利沙德罗、普拉提帕与山塔努、阿闍与普拉奇纳跋尔希,以及大名的甘蔗王族。

13.271.59

अनरण्यो नरपतिर्जानुजङ्घस्तथैव च ।
कक्षसेनश्च राजर्षिर्ये चान्ये चानुकीर्तिताः ॥ १३.२७१.५९ ॥

人主阿那罗尼耶、同样的膝胫、王仙迦叉修那,以及其他已被提及的人。

13.271.60

कल्यमुत्थाय यो नित्यं सन्ध्ये द्वेऽस्तमयोदये ।
पठेच्छुचिरनावृत्तः स धर्मफलभाग्भवेत् ॥ १३.२७१.६० ॥

若人每日黎明起身,于两个黄昏、日落与日出时,清净不废地诵读此文,便能分享法的果报。

13.271.61

देवा देवर्षयश्चैव स्तुता राजर्षयस्तथा ।
पुष्टिमायुर्यशः स्वर्गं विधास्यन्ति ममेश्वराः ॥ १३.२७१.६१ ॥

受赞颂的诸神、天仙与王仙,我的主宰们,将赐予我福祉、长寿、名声与天界。

13.271.62

मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः ।
ध्रुवो जयो मे नित्यः स्यात्परत्र च शुभा गतिः ॥ १३.२७१.६२ ॥

愿我没有障碍,没有罪过,也没有敌对者。愿我的胜利确定而恒久,愿我在来世的去处吉祥。

13.271.63

पालय त्वं प्रजाः सर्वाः शान्तात्मा त्वनुशासिता ।
द्वैपायनः स्वयंचक्षुः कृष्णस्तेऽस्तु परायणम् ॥ १३.२७१.६३ ॥

你应当心境平和、受教而治,保护所有臣民。愿自见者二曾衍(毗耶娑)与黑天成为你的依靠。

13.271.64

इत्युक्त्वोपासनार्थाय विरराम महामतिः ॥ १३.२७१.६४ ॥

说完这些,这位大智者为了敬拜而静默了。