Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.273

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.273.1

ततः कुन्तीसुतो राजा पौरजानपदं जनम् ।
पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति ॥ १३.२७३.१ ॥

于是昆提之子国王依礼敬待城中百姓与乡野之人,准许他们各自回家。

13.273.2

सान्त्वयामास नारीश्च हतपुत्रा हतेश्वराः ।
विपुलैरर्थदानैः स तदा पाण्डुसुतो नृपः ॥ १३.२७३.२ ॥

彼时般度之子国王以丰厚的财物布施,安慰那些失去儿子与丈夫的妇人们。

13.273.3

सोभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः ।
अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तथा ॥ १३.२७३.३ ॥

般度之子、大智慧的人中俊杰坚战受灌顶,得到王国,同样安定了他所有的臣民。

13.273.4

द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः ।
प्रतिगृह्याशिषो मुख्यास्तथा धर्मभृतांवरः ॥ १३.२७३.४ ॥

坚战从婆罗门、主要将领和商会那里全面地接受了最殊胜的祝福,身为护持正法者中的翘楚,他也依此而行。

13.273.5

उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे ।
समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ॥ १३.२७३.५ ॥

光辉的人中雄牛在那座殊胜的城中住了五十夜,便想起了俱卢族之首(毗湿摩)的约定。

13.273.6

स निर्ययौ जगपुराद्यजकैः परिवारितः ।
दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् ॥ १३.२७३.६ ॥

他在主持祭祀的祭司们簇拥下离开城市,看到太阳已经转向,北行之路开始了。

13.273.7

घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः ।
चन्दनागरुमुख्यानि तथा कालगरूणि च ॥ १३.२७३.७ ॥

坚战取来酥油、花鬘、香料和丝绸衣物,主要是檀香与沉香,还有黑沉香。

13.273.8

प्रस्थाप्यच पूर्वं कौन्तेयो भीष्मसंस्करणाय वै ।
माल्यानि च वरार्हाणि रत्नानि विविधानि च ॥ १३.२७३.८ ॥

贡蒂之子此前已为毗湿摩的火葬仪式送去了配得上贤者的花环和各色珠宝。

13.273.9

धृतराष्ट्रं पुरुस्कृत्य गान्धारीं च यशस्विनीम् ।
मातरं च पृथां धामान्भ्रातॄंश्च पुरुषर्षंभान् ॥ १३.२७३.९ ॥

以持国王为先导,并携同光辉的甘陀利、母亲普利塔,以及诸位光彩的兄弟、人中雄牛。

13.273.10

जनार्दनेनानुगतो विदुरेण च धीमता ।
युयुत्सुना च कौरव्यो युयुधानेन चाभिभो ॥ १३.२७३.१० ॥

随行者有阇那陀那(黑天)、智慧的维杜罗、唯努图苏,以及俱卢子孙、友战者,啊,有力者。

13.273.11

महता राजभोगेन पारिबर्हेण संवृतः ।
स्तूयमानो महातेजा भीष्मिस्याग्नीननुव्रजन् ॥ १३.२७३.११ ॥

被盛大的王家威仪与随从环绕,大光明者受到赞颂,跟随毗湿摩的火葬之火而行。

13.273.12

निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा ।
आससाद कुरुक्षेत्रे ततः शान्तनवं नृपः ॥ १३.२७३.१२ ॥

他如诸天之主一般从那座城中出发;随后,国王在俱卢之野来到了檀耨之子(毗湿摩)身边。

13.273.13

उपास्यमानं व्यासेन पाराशर्येण धीमता ।
नारदेन च राजर्षे देवलेनासितेन च ॥ १३.२७३.१३ ॥

智者帕拉沙拉之子毗耶娑、那罗陀、提婆罗与阿悉多侍奉着他,哦,王仙。

13.273.14

हतशिष्टैर्नृपैस्चान्यैर्नानादेशसमागतैः ।
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः ॥ १३.२७३.१४ ॥

……那位大灵魂,被屠杀中幸存的诸王、从各地前来的其他人以及守卫从四面八方保护着。

13.273.15

शयानं वीरशयने ददर्श नृपतिस्ततः ।
ततो रथादवारोहद्धातृभिः सह धर्मराट् ॥ १३.२७३.१५ ॥

国王看见他躺在英雄的床榻上。随后,法王与兄弟们一同下了战车。

13.273.16

अभिवाद्याथ कौन्तेयः पितामहमरिंदमम् ।
द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः ॥ १३.२७३.१६ ॥

随后,贡蒂之子向祖父(敌人的征服者)以及毗耶娑等婆罗门致敬,他们也回礼迎接。

13.273.17

ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिः सह धर्मजः ।
आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ॥ १३.२७३.१७ ॥

法之子与兄弟们、祭司以及如梵天般的智者一同,走近那躺在箭床上、被仙人环绕的人。

13.273.18

अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः ।
भ्रातृभिः सह कौरव्यः शयानं निम्नगासुतम् ॥ १३.२७३.१८ ॥

科罗族的法王坚战与兄弟们一同,对躺在那里的婆罗多最优者、河神之子说道。

13.273.19

युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत ।
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते ॥ १३.२७३.१९ ॥

我是坚战,国王啊,向您致敬。恒河之子啊,若您能听见,大臂者啊,请告诉我,我该为您做什么。

13.273.20

प्राप्तोस्मि समये राजन्नग्नीनादाय ते विभो ।
आचार्यान्ब्राह्मणांश्चैव ऋत्विजो भ्रातरश्च मे ॥ १३.२७३.२० ॥

国王啊,威力者啊,我按时带着圣火来到您这里,还带来了师长、婆罗门、祭司以及我的兄弟们。

13.273.21

पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः ।
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ॥ १३.२७३.२१ ॥

您的儿子、大光辉者、人民之主持国王,与大臣们一同在此;勇武的婆苏提婆也在此。

13.273.22

हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः ।
तान्पश्य नरशार्दूल समुन्मीलय लोचने ॥ १३.२७३.२२ ॥

幸存的诸王以及库鲁和阇安伽罗的全体人民都在这里。人中虎啊,请看看他们,睁开您的双眼。

13.273.23

यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मया ।
यथोक्तं भवता काले सर्वमेव च तत्कृतम् ॥ १३.२७३.२३ ॥

此地所需做的一切,我都已完成;您在适当时候所说的,都已照办。

13.273.24

एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता ।
ददर्श भारतान्सर्वान्स्थितान्सम्परिवार्य ह ॥ १३.२७३.२४ ॥

聪慧的昆提之子如此说完,恒河之子望去,看见所有婆罗多人都围绕着他站立。

13.273.25

ततश्चलवपुर्भीष्मः प्रगृह्य विपुलं भुजम् ।
ओघमेघस्वरो वाग्मी काले वचनमब्रवीत् ॥ १३.२७३.२५ ॥

于是毗湿摩身体颤动,举起他宽大的手臂,以如雷鸣般的声音,在适当的时机说出了这些话。

13.273.26

दिष्ट्या प्राप्तोसि कौन्तेय सहामात्यो युधिष्ठिर ।
परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः ॥ १३.२७३.२६ ॥

贡蒂之子坚战啊,你幸而与大臣们一同到来,因为千光之神圣太阳已经转向了。

13.273.27

अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः ।
शरेषु निशिताग्नेषु यथा वर्षशतं तथा ॥ १३.२७३.२७ ॥

对于躺在如烈火般锐利的箭上的我来说,今天已经过去了五十八个夜晚,仿佛过了一百年。

13.273.28

माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर ।
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ॥ १३.२७३.२८ ॥

坚战啊,这吉祥的摩伽月已经来临;本半月还剩三分之一,它理应是白半月。

13.273.29

एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् ।
धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् ॥ १३.२७३.२९ ॥

毗湿摩——恒河之子说完这些话后,向法之子坚战,继而向持国王致辞,在适当的时机说出了这些话。

13.273.30

राजन्विदितधर्मोसि सुनिर्णीतार्थसंशयः ।
बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ॥ १३.२७३.३० ॥

大王啊,你通晓法,你对事务的疑惑已被妥善解决;许多博学的婆罗门来到你这里,也有许多人受到你的侍奉。

13.273.31

वेद शास्त्राणि सूक्ष्माणि धर्मांश्च मनुजेश्वर ।
वेदांश्च चतुरः सर्वान्षडङ्गैरुपबृंहितान् ॥ १३.२७३.३१ ॥

人主啊,你通晓微妙的经典与法则,也通晓由六支辅助学科所充实的四部吠陀。

13.273.32

न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा ।
श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ॥ १३.२७३.३२ ॥

俱卢子孙啊,不应悲伤,因为注定要发生的事情就会如此发生。你甚至从黑天·广博仙人那里听闻了诸神的秘密。

13.273.33

यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः ।
तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ॥ १३.२७३.३३ ॥

君王啊,般度之子如何,依法他们也同样是你的。安住于法,守护那些喜爱侍奉尊长的人吧。

13.273.34

धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव ।
आनृशंस्यपरं ह्येन जानामि गुरुवत्सलम् ॥ १३.२७३.३४ ॥

法王坚贞不移的心地纯净,他会服从你的命令。我知道他仁慈善良,敬爱尊长。

13.273.35

तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः ।
ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि ॥ १३.२७३.३५ ॥

你的儿子们心怀恶念,沉溺于愤怒与贪婪,被嫉妒所控制,行为邪恶。你不应为他们悲伤。

13.273.36

एतावधुक्त्वा वचनं धृतराष्ट्रं मनीषिणम् ।
वासुदेवं महाबाहुमभ्यभाषय कौरवः ॥ १३.२७३.३६ ॥

俱卢者对智者持国说完这番话后,便转向双臂有力的婆苏天神(黑天)说话。

13.273.37

भगवन्देवदेवेश सुरासुरनमस्कृत ।
त्रिविक्रम नमस्तुभ्यं शङ्खचक्रगदाधर ॥ १३.२७३.३७ ॥

啊,世尊,诸神之神,主宰,为天神与阿修罗所礼敬,三步征服者,执螺号、轮与杵者,敬礼于你。

13.273.38

वासुदेवो हिरण्यात्मा पुरुषः सविता विराद् ।
जीवभूतोऽनुरूपस्त्वं परमात्मा सनातनः ॥ १३.२७३.३८ ॥

你是婆苏提婆,金色之灵,宇宙原人,萨维特里与维罗阇;虽化为有情众生,你仍与本相相合,你是永恒的至上我。

13.273.39

त्वद्भक्तं त्वद्गतिं शान्तमुदारमपरिग्रहम् ।
त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः।
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम ॥ १३.२७३.३९ ॥

请常常护佑你的信徒——以你为归宿、心平气和、慷慨而无所执取的人;莲花眼者,人中至上者。克里希那啊,毗库塔啊,人中至上者,请允许我离去。

13.273.40

रक्ष्याश्च ते पाण्डवेया भवान्येषां परायणम् ।
उक्तवानस्मि दुर्बद्धिं मन्दं दुर्योधनं तदा ॥ १३.२७३.४० ॥

你的般度诸子应当被护佑,你是他们的依靠。那时我对心智不善、愚昧的难敌说过。

13.273.41

यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ।
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥ १३.२७३.४१ ॥

克里希那所在之处,即是法;法所在之处,即是胜利。孩子,借由婆苏提婆之道,与般度诸子和解吧。

13.273.42

सन्धानस्य परः कालस्तवेति च पुनःपुनः ।
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः।
घातयित्वेह पृथिवीं ततः स निधनं गतः ॥ १३.२७३.४२ ॥

我一再说:“这正是你和解的最好时机。”可那昏聩、愚钝的人并不听从我的话,终于导致这大地被毁灭,而他自己也走向了死亡。

13.273.43

त्वां तु जानाम्यहं देवं पुराणमृषिसत्तमम् ।
नरेण सहितं देव बदर्यां सुचिरोषितम् ॥ १३.२७३.४३ ॥

神啊,我知道你是古老的神,是最优秀的仙人,曾与那罗在巴达里长久居住。

13.273.44

तथा मे नारदः प्राह व्यासश्च सुमहातपाः ।
नरनारायणावेतौ सम्भूतौ मनुजेष्विति ॥ १३.२७३.४४ ॥

那罗陀与大苦行者毗耶娑也这样告诉我:这二位,那罗与那罗延,降生于人间。

13.273.45

स मां त्वमनुजानीहि कृष्ण मोक्ष्ये कलेवरम् ।
त्वयाऽहं समनुज्ञातो गच्छेयं परमां गतिम् ॥ १३.२७३.४५ ॥

因此,克里希那啊,请允许我:我将舍弃此身,得到你的允许,我将到达至高之境。

13.273.46

अनुजानामि भीष्म त्वां वसून्प्राप्नुहि पार्थिव ।
न तेऽस्ति वृजिनं किञ्चिच्छुद्धात्मैश्वर्यसंयुतः ॥ १३.२७३.४६ ॥

我允许你,婆罗多的毗湿摩啊;国王啊,愿你达到诸婆薮。你毫无罪过,你灵魂纯净,具足威德。

13.273.47

पितृभक्तोसि राजर्षे मार्कण्डेय इवापरः ।
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ॥ १३.२७३.४७ ॥

王仙啊,你孝敬父亲,犹如另一位摩根德耶;因此死亡臣服于你的掌控,如同谦卑的仆人。

13.273.48

एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत् ।
धृतराष्ट्रमुखांश्चापि सर्वांश्च सुहृदस्तथा ॥ १३.२७३.४८ ॥

被如此称呼之后,恒河之子毗湿摩对般度之子说了这些话,也对以持国为首的所有友人说了。

13.273.49

प्राणानुत्स्रष्टुमिच्छामि तत्रानुज्ञातुमर्हथ ।
सत्येषु यतितव्यं वः सत्यं हि परमं बलम् ॥ १३.२७३.४९ ॥

我现在想舍弃生命;你们应当允许我。你们应当努力追求真理,因为真理是最高的力量。

13.273.50

आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः ।
ब्रह्मण्यैर्धर्मशीलैश्च तपोनित्यैश्च भारताः ॥ १३.२७३.५० ॥

婆罗多的子孙啊,你们应当始终行无残忍之道,心意调伏,敬重婆罗门,持守正法,并恒常修行苦行。

13.273.51

इत्युक्त्वा सुहृदः सर्वांस्तथा सम्पूज्य चैव ह ।
धनं बहुविधं राजन्दत्त्वा नित्यं द्विजातिषु।
पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः ॥ १३.२७३.५१ ॥

他说完这话,尊敬了所有的朋友,又将种种财物布施给再生族,大王啊,那智慧的人便又对坚战说了这番话。

13.273.52

ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः ।
आचार्या ऋत्विजश्चैव पूजनीया जनाधिप ॥ १३.२७३.५२ ॥

人主啊,你的婆罗门,尤其是有智慧的婆罗门,以及你的师长和祭司,都永远值得尊敬。