Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.274

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.274.1

एवमुक्त्वा कुरून्सर्वान्भीष्मः शान्तनवस्तदा ।
तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम ॥ १३.२७४.१ ॥

对所有俱卢人如此说完后,珊陀努之子毗湿摩便沉默了片刻,啊,降敌者。

13.274.2

धारयामास चात्मानं धारणासु यथाक्रमम् ।
तस्योर्ध्वमगमन्प्राणाः सन्निरुद्धा महात्मनः ॥ १३.२७४.२ ॥

他依次安住于瑜伽的专注之中,那位大德的生命之气被完全制止,向上升去。

13.274.3

इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम् ।
सहितैर्ऋषिभिः सर्वैस्तदा व्यासादिभिः प्रभो ॥ १३.२७४.३ ॥

主啊,在那些大德之中,连同以毗耶娑为首的所有仙人,此事甚为奇异。

13.274.4

यद्यन्मुञ्चति गात्रं हि स शन्तनुसुतस्तदा ।
तत्तद्विशल्यमभवद्योगयुक्तस्य वै क्रमात्।
क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा ॥ १३.२७४.४ ॥

珊陀努之子所放下的每一个肢体,那些处于瑜伽中的肢体依次免去了箭伤;众人凝视之间,片刻之中他便完全无箭了。

13.274.5

तद्दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः ।
सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ॥ १३.२७४.५ ॥

众人见此,皆感惊异——以婆苏提婆为首之人,与所有那些仙人、毗耶娑等一同,啊,国王。

13.274.6

सन्निरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु च ।
जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात ह ॥ १३.२७४.६ ॥

然而,他在身体的所有部位都完全收摄其自我,穿透头顶,升向天界。

13.274.7

देवदुन्दुभिनादश्च पुष्पवर्षैः सहाभवत् ।
सिद्धा ब्रह्मर्षयश्चैव सादुसाध्विति हर्षिताः ॥ १३.२७४.७ ॥

诸神的鼓声与花雨同时响起;成就者与梵仙欢喜地连声说:“善哉,善哉!”

13.274.8

महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप ।
निःसृकत्याकाशमाविश्य क्षणेनान्तरधीयत ॥ १३.२७४.८ ॥

人主啊!仿佛一颗大流星,从毗湿摩的头部升起,进入天空,转瞬间便消失了。

13.274.9

एवं स राजशार्दूल नृपः शान्तनवस्तदा ।
समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः ॥ १३.२७४.९ ॥

王中之虎啊,就这样,那位舍吉鲁之子、婆罗多族的支柱之王,当时便与自己的诸界相合了。

13.274.10

ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून् ।
चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा।
युयुत्सुश्चापि कौरव्यं प्रेक्षकास्त्वितरेऽभवन् ॥ १३.२७४.१० ॥

于是,大心的般度诸子与维杜罗取来木柴与种种香料,筑起柴堆;యుయుత్సు亦然,其余之人则作旁观者。

13.274.11

युधिष्ठिरश्च गाङ्गेयं धृतराष्ट्रश्च दुःखितौ ।
छादयामासतुरुभौ क्षौमेर्माल्यैश्च कौरवम् ॥ १३.२७४.११ ॥

坚战与持国二人皆悲痛,以麻布与花环覆盖了恒河之子、俱卢族人。

13.274.12

धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम् ।
चामरे व्यजने शुभ्रे भीमसेनार्जुनावुभौ।
उष्णीषे परिगृह्णीतां माद्रीपुत्रावुभौ तथा ॥ १३.२७४.१२ ॥

于是,尤尤图苏为他撑起了上好的伞盖;怖军与阿周那两人各执白色牦牛尾拂与扇;玛德丽的两个儿子则扶着他的头巾。

13.274.13

युधिष्ठिरेण सहितो धृतराष्ट्रश्च पादतः ।
वृद्धा स्त्रियः कौरवाणां भीष्मं कुरुकुलोद्वहम्।
तालवृन्तान्युपादाय पर्यवीजन्त सर्वशः ॥ १३.२७४.१३ ॥

与坚战同行的还有步行的持国王。俱卢族的老妇们用棕榈叶扇从四面为承担俱卢族重任的毗湿摩扇风。

13.274.14

ततोस्य विदिवच्चक्रुः पितृमेधं महात्मनः ।
याजका जुहुवुश्चाग्नौ जगुः सामानि समागाः ॥ १३.२७४.१४ ॥

随后他们依礼为这位大德者举行了祭祖之葬礼。主祭的祭司将供品投入火中,聚集的众人吟唱《娑摩》颂歌。

13.274.15

ततश्चन्दनकाष्ठैश्च तथा कालीयकैरपि ।
कालागुरुप्रभृतिभिर्गन्धैश्चोच्चावच्चैस्तथा ॥ १३.२७४.१५ ॥

随后,用檀香木柴、沉香、黑沉香等各种高下不同的香料,堆起了柴堆。

13.274.16

समवच्छाद्य गाङ्गेयं सम्प्रज्वाल्य हुताशनम् ।
अपसव्यमकुर्वन्त धृतराष्ट्रमुखाश्चिताम् ॥ १३.२७४.१६ ॥

将恒河之子(毗湿摩)完全覆盖,把火烧旺,在持国王率领下,他们以右侧背对的方式绕行柴堆。

13.274.17

संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः ।
जग्मुर्भागीरथीं पुण्यामृषिजुष्टां कुरूद्वहाः ॥ १३.२७४.१७ ॥

为俱卢族之首的恒河之子举行葬礼之后,俱卢族的贤者们前往圣洁的婆吉罗提河,即诸仙所常临的恒河。

13.274.18

अनुगम्यमाना व्यासेन नारदेनासितेन च ।
कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः ॥ १३.२७४.१८ ॥

在毗耶娑、那罗陀与阿悉多(提婆罗)的陪伴下,在黑天、婆罗多族的妇女以及聚集而来的城民相随之中,他们继续前行。

13.274.19

उदकं चक्रिरे सर्वे गाङ्गेयस्य महात्मनः ।
विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा ॥ १३.२७४.१९ ॥

为大德的恒河之子(毗湿摩),众人依仪轨奉献水祭;刹帝利中的殊胜者和所有民众也都如此行了。

13.274.20

ततो भागीरथी देवी तनयस्योदके कृते ।
उत्थाय सलिलात्तस्माद्रुदती शोकविह्वला।
परिदेवयती तत्र कौरकवानभ्यभाषत ॥ १३.२७४.२० ॥

于是,为儿子完成水祭之后,女神跋吉罗提从水中升起,哭泣着,悲痛难忍,在那里哀叹,并对俱卢族人说道。

13.274.21

निबोधत यथावृत्तमुच्यमानं मया नृपाः ।
राजवृत्तेन सम्पन्नः प्रज्ञयाभिजनेन च।
सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः ॥ १३.२७४.२१ ॥

诸王啊,请听我照实讲述:他具备王者的行止、智慧与高贵的出身,敬重俱卢族的长辈,孝敬父亲,誓言坚定。

13.274.22

जामदग्न्येन रामेण यः पुरा न पराजितः ।
दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ॥ १३.२७४.२२ ॥

他曾经连嚈摩陀尼之子罗摩也未能战胜,这位大勇之人,今日却被尸甘丁以神兵杀死。

13.274.23

अश्मसारमयं नूनं हृदयं मम पार्थिवाः ।
अपश्यन्त्याः प्रियं पुत्रं यन्न दीर्यति मेऽद्य वै ॥ १३.२७४.२३ ॥

诸王啊,我的心必定是石头的精华所做,因为今日我不见爱子,它却没有碎裂。

13.274.24

समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंपरे ।
विजित्यैकरथेनाजौ कन्याश्चायं जहारह ॥ १३.२७४.२४ ॥

在迦尸城聚集的择婿大会上,他以一辆战车在战场上击败了集会的诸王与刹帝利,并掳走了那些少女。

13.274.25

यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन ।
हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः ॥ १३.२७४.२५ ॥

在大地上无人能与其匹敌的他,竟被希坎丁所杀。听到此事,我的心为何仍未碎裂?

13.274.26

जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना ।
पीडितो नातियत्नेन स हतोऽद्य शिखण्डिना ॥ १३.२७४.२६ ॥

在俱卢之野的战斗中曾被轻易压制的那位大德,耶摩陀格尼之子,今日竟被希坎丁所杀。

13.274.27

एवंविधं बहु तदा विलन्पतीं नहानदीम् ।
आश्वासयामास तदा साम्ना दामोदरो विभुः ॥ १३.२७४.२७ ॥

那条大声哀哭的河流,当时被遍在的达摩陀罗以温和的言语所安慰。

13.274.28

समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने ।
गतः स परमं लोकं तव पुत्रो न संशयः ॥ १३.२७४.२८ ॥

吉祥的女子啊,请宽心吧;不要悲伤,美目的女子。你的那个儿子已经往至高的世界去了,毫无疑问。

13.274.29

वसुरेष महातेजाः शापदोषेण शोभने ।
मानुषत्वमनुप्राप्तो नैनं शोचितुमर्हसि ॥ १३.२७४.२९ ॥

这位大光明的婆苏,因诅咒之过,来到了人间,美丽的女子啊;你不应为他悲伤。

13.274.30

स एष क्षत्रधर्मेण युध्यमानो रणाजिरे ।
धनंजयेन निहतो नैष देवि शिखण्डिना ॥ १३.२७४.३० ॥

他在战场上依刹帝利之法作战,被财自(阿朱那)所杀;女神啊,并非希坎丁所杀。

13.274.31

भीष्मं हि कुरुशार्दूलमुद्यतेषु महारणे ।
न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः ॥ १३.२७४.३१ ॥

在大战中兵器高举之时,即便百祭之因陀罗亲自前来,也无法在战斗中杀死库鲁之虎毗湿摩。

13.274.32

स्वच्छन्दतस्तव सुतो गतः स्वर्गं शुभानने ।
न शक्ता विनिहन्तुं हि रणे तं सर्वदेवताः ॥ १३.२७४.३२ ॥

美面者啊,你的儿子出于自愿升往天界;在战斗中,所有天神都无法杀死他。

13.274.33

तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्य कुरुनन्दनम् ।
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ॥ १३.२७४.३३ ॥

因此,河流中的殿堂,不要为库鲁的欢乐而悲伤。女神啊,你的儿子已归于婆苏们;愿你脱离热恼。

13.274.34

इत्युक्ता सा तु कृष्णेन व्यासेन तु सरिद्वरा ।
त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह ॥ १३.२७४.३४ ॥

大王啊,毗耶娑·黑天如此开导之后,那最殊胜的河流舍弃了悲伤,走入自己的水中。

13.274.35

सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृप ।
अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः ॥ १३.२७४.३५ ॥

随后,大王啊,以黑天为首的众人都敬重了那条河流;得到她的允许后,诸位人主都返回了。