Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.28

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.28.1

पितामहवचः श्रुत्वा गरुडः पततांवरः ।
जगाम गोकुलं किञ्चिन्नवनीतजिहीर्षया ॥ १३.२८.१ ॥

迦路陀(Garuḍa)是诸飞鸟中最优秀的,听了祖父的话,便前往牧人村落,想要夺取酥油。

13.28.2

नवनीतं तथाऽपश्यन्मथितं कलशे स्थितम् ।
तदादाय ततोऽगच्छद्यतस्तद्रक्ष्यतेऽमृतम् ॥ १३.२८.२ ॥

他在那里看见了盛放在瓦罐中的搅制酥油。他取了酥油,前往守护甘露之处。

13.28.3

स तत्र गत्वा पतगस्तिर्यक्तोयं महाबलः ।
हुताशनमपक्रम्य नवनीतमपातयत् ॥ १३.२८.३ ॥

那强大的鸟来到那里,绕过像曲折流水般跳动的火焰,使酥油落下。

13.28.4

सो र्चिष्मान्मन्दवेगोऽभूत्सर्पिषा तेन तर्पितः ।
धूमकेतुर्न जज्वाल धूममेव ससर्ज ह ॥ १३.२८.४ ॥

那烈焰之火被酥油所满足,力道变得迟缓。烟旗之火不再燃烧,只冒出烟来。

13.28.5

तमतीत्याशु गरुडो हृष्टात्मा जातवेदसम् ।
रक्षांसि समतिक्रामत्पक्षवातेन पातयन् ॥ १३.२८.५ ॥

迦路陀(Garuḍa)迅速越过那火焰,心中欢喜,以双翼之风将罗刹击倒而越过了他们。

13.28.6

ते पतन्ति शिरोभिस्च जानुभिश्चरणैस्तथा ।
उत्सृज्य शस्त्रावरणं पक्षिपक्षसमाहताः ॥ १३.२८.६ ॥

他们以头、膝、足着地倒下,抛下兵器与铠甲,被鸟的翅膀击中。

13.28.7

उत्प्लुत्य चावृतान्नागान्हत्वा चक्रं व्यतीत्य च ।
अरान्तरेण शिरसा भित्त्वा जालं समाद्रवत् ॥ १३.२८.७ ॥

他跃起,杀死了包围他的蛇,越过法轮,从轮辐之间以头刺穿罗网,疾驰而去。

13.28.8

स भित्त्वा शिरसा जालं वज्रवेगसमो बली ।
उज्जहार ततः शीघ्रममृतं भुजगाशनः ॥ १३.२८.८ ॥

这位强大如金刚雷霆般迅捷的神鸟以头刺穿罗网,随即迅速取走了甘露——这位吞食蛇的神鸟。

13.28.9

तदादायाद्रवच्छीघ्रं गरुडः श्वसनो यथा ।
अथ सन्नाहमकरोद्वृत्रहा विबुधैः सह ॥ १३.२८.९ ॥

迦楼罗取了甘露,如风般疾速飞去。于是杀死弗栗多的因陀罗与诸神一同披上了铠甲。

13.28.10

ततो मातलिसंयुक्तं हरिभिः स्वर्णमालिभिः ।
आरुरोह रथं शीघ्रं सूर्याग्निसमतेजसम् ॥ १३.२८.१० ॥

随后,他迅速登上了由摩多梨驾驭、由戴着金花环的骏马拉动、光辉与太阳和火相等的战车。

13.28.11

सोऽभ्यद्रवत्पक्षिराजं वृत्रहा पाकशासनः ।
उद्यम्य निशितं वज्रं वज्रहस्तो महाबलः ॥ १३.२८.११ ॥

那位杀死弗栗多、帕卡之主的因陀罗,向鸟王冲去,高举锋利的金刚杵,手持金刚杵的大力者。

13.28.12

तथैव गरुडो राजन्वज्रहस्तं समाद्रवत् ।
ततो वै मातलिं प्राह शीघ्रं वाहय वाजिनः ॥ १३.२८.१२ ॥

同样,大王,迦楼罗向手持金刚杵者冲去。随后他对摩多梨说:“快驱马吧!”

13.28.13

अथ दिव्यं महाघोरं गरुडाय ससर्ज ह ।
वज्रं सहस्रनयनस्तिग्मवेगपराक्रमः ॥ १३.२८.१३ ॥

于是千眼者向迦噜陀投出一件神圣而极其可怖的金刚杵,其速度迅猛,威力非凡。

13.28.14

उत्सिसृक्षन्तमाज्ञाय वज्रं वै त्रिदशेश्वरम् ।
तूर्णं वेगपरो भूत्वा जगाम पततांवरः ॥ १३.२८.१४ ॥

迦噜陀察觉众神之王将投出金刚杵,鸟中之王便迅速加速前进。

13.28.15

पितामहनिसर्गेण ज्ञात्वा लब्धवरः खगः ।
आयुधानां वरं वज्रमथ शक्रमुवाच ह ॥ १३.२८.१५ ॥

凭借祖父(梵天)的恩赐获得恩惠的那只鸟,知晓此事后,便对因陀罗谈起金刚杵——诸兵器中最殊胜的一件。

13.28.16

वृत्रहन्नेष वज्रस्ते वरो लब्धः पितामहात् ।
अतः सम्मानमाकाङ्क्षन्मुञ्चाम्येकं तनूरुहम् ॥ १३.२८.१६ ॥

杀死弗栗多者啊!此金刚杵是你从祖父那里得到的恩惠。因此,我愿敬重你,故抛出我的一根羽毛。

13.28.17

एतेनायुधराजेन यदि शक्तोसि वृत्रहन् ।
हन्यास्त्वं परया शक्तया गच्छाम्यहमनामयः ॥ १३.२८.१७ ॥

杀死弗栗多者啊!若你能以这把兵器之王,倾尽全力击我,那就来吧;我将无伤而去。

13.28.18

तत्तु तूर्णं तदा वज्रं स्वेन वेगेन भारत ।
जघान परया शक्त्या न चैनमदहद्भृशम् ॥ १३.२८.१८ ॥

婆罗多啊!那金刚杵便以自身之速、以至高之力迅速击中,然而并未将他大加焚烧。

13.28.19

ततो देवर्षयो राजन्गच्छन्तो वै विहायसा ।
दृष्ट्वा वज्रं विवक्तं तं पक्षइपर्णेऽब्रुवन्वचः ॥ १३.२८.१९ ॥

大王啊,那些在空中行进的天仙见到脱落在鸟羽上的金刚杵,便说了这番话。

13.28.20

सुपर्णः पक्षिगरुडो यस्य पर्णे वरायुधम् ।
विषक्तं देवराजस्य वृत्रहन्तुः सनातनम् ॥ १३.२८.२० ॥

此鸟乃金翅鸟迦楼罗,它的羽毛上粘着天王——斩杀弗栗多者——那殊胜而永恒的武器。

13.28.21

एवं सुपर्णो विहगो वैनतेयः प्रतापवान् ।
ऋषयस्तं विजानन्ति चाग्नेयं वैष्णवं पुनः ॥ १३.२८.२१ ॥

如此,这只金翅鸟——毗娜塔的威猛之子、毗那多耶——诸仙再度认定他携带着火神与毗湿奴的武器。

13.28.22

वेदाभिष्टुतमत्यर्थं स्वर्गमार्गफलप्रदम् ।
तनुपर्णं सुपर्णस्य जगृहुर्बर्हिणस्तथा ॥ १३.२८.२२ ॥

吠陀极力赞颂、赐予升天之道果报的金翅鸟那细羽,孔雀也同样拾取了。

13.28.23

मयूराविस्मिताः सर्वे आद्रवन्ति स्म वज्रिणम् ॥ १३.२८.२३ ॥

众孔雀惊讶不已,朝执金刚者奔去。