Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.29.1

ततो व्रज्रं सहस्राक्षो दृष्ट्वा सक्तं वरायुधम् ।
ऋषींश्च दृष्ट्वा सहसा सुपर्णमिदमब्रवीत् ॥ १३.२९.१ ॥

那时,千眼的因陀罗看见最好的武器金刚杵已准备就绪,又看见诸仙人,便突然对金翅鸟(迦楼罗)说了这些话。

13.29.3

कद्रूमभ्यगमत्तूर्णममृतं गृह्य भारतः ॥ १३.२९.३ ॥

婆罗多(迦楼罗)取得甘露后,迅速走向迦德卢。

13.29.4

तदाहृतं मया शीघ्रममृतं जननीकृते ।
अदासी सा भवत्वद्य विनता धर्मिचारिणी ॥ १३.२९.४ ॥

为了母亲,我迅速带来了这甘露。愿遵行正法的毗娜塔今日便不再为奴。

13.29.5

स्वागतं स्वाहृतं चेदममृतं विनतात्मज ।
अदासी जननी तेऽद्य पुत्र कामवशा शुभा। ॥ १३.२९.५ ॥

欢迎你,毗娜塔之子!你把这甘露带得很好。儿啊,今天你的母亲脱离了奴役;她吉祥,受对儿子的爱所支配。

13.29.6

एवमुक्ते तदा सा च सम्प्राप्ता विनता गृहम् ।
उपनीय यथान्यायं विहगो बलिनांवरः। ॥ १३.२९.६ ॥

如此说罢,毗娜塔回到了家中;诸强大鸟类中最优秀的(迦楼罗)按礼仪将她送回。

13.29.7

स्मृत्वा निकृत्या विजयं मातुः सम्प्रतिपद्य च ।
वधं च भुजगेन्द्राणां ये वालास्तस्य वाजिनः। ॥ १३.२९.७ ॥

以诡计想起母亲的胜利,并使之实现,又(想起)诸蛇王的被杀——那些如同他马尾的……

13.29.8

बभूवुरसितप्रख्या निकृत्या वै जितं त्वया ।
तामुवाच ततो न्याय्यं विहगो बलिनांवरः। ॥ १३.२९.८ ॥

他们变成了黑色。“你只是靠欺诈才赢的,”鸟中最强者于是公正地对她说。

13.29.9

उञ्जहारामृतं तूर्णमुत्पपात च रंहसा ।
तद्गृहीत्वाऽमृतं तूर्णं प्रयान्तमपराजितम्। ॥ १३.२९.९ ॥

他迅速取走甘露,并以疾速飞升。迅速拿走那甘露后,这位不败者正在离去。

13.29.10

किमर्थं वैनतेय त्वमाहृत्यामृतमुत्तमम् ।
पुनर्हरति दुर्बुद्धे मा जातु वृजितं कृथाः ॥ १३.२९.१० ॥

维那塔之子啊,你既然带来了上等甘露,为何又要夺走?恶念之人啊,切莫再做不义之事!

13.29.11

अमृताहरणं मेऽद्य यत्कृतं जननीकृते ।
भवत्या वचनादेतदाहरामृतमित्युत ॥ १३.२९.११ ॥

今天我为了母亲而夺取甘露,是依照你的话:“把这甘露带来”,你曾这样说。

13.29.12

आहृतं तदिदं शीघ्रं मुक्ता च जननी मम ।
हराम्येष पुनस्तत्र यत एतन्मयाऽऽहृतम् ॥ १३.२९.१२ ॥

此物已迅速带来,我的母亲也已获释。我将把它送回我取来的那个地方。

13.29.13

यदि मां भवती ब्रूयादमृतं मे च दीयताम् ।
तथा कुर्यां न वा कुर्यां न हि त्वममृतक्षमा।
मया धर्मेण सत्येन विनता च समुद्धृता ॥ १३.२९.१३ ॥

如果你对我说“把甘露给我”,我或许会这样做,或许不会,因为你不配得到甘露。凭着我的法与真实,维纳塔才得以解救。

13.29.14

ततो गत्वाऽथ गरुडः पुरन्दरमुवाच ह ।
इदं मया वृत्रहन्तर्हृतं तेऽमृतमुत्तमम्।
मात्रर्थे हि तथैवेदं गृहाणामृतमाहृतम् ॥ १३.२९.१४ ॥

于是迦卢达走到补兰达罗面前说:斩杀弗栗多者啊,我已夺取了你至高的甘露。为了我的母亲,我就这样取来了这甘露。

13.29.15

माता च मम देवेश दासीत्वमुपजग्मुषी ।
भुजङ्गमानां मातुर्वै सा मुक्ताऽमृतदर्शनात् ॥ १३.२९.१५ ॥

而且,天神之主啊,我的母亲陷入了蛇族的奴役;因见到甘露,她便从蛇母的奴役中解脱了。

13.29.16

एतच्छ्रुत्वा सहस्राक्षः सुपर्णमनुमन्यते ।
उवाच च मुदा युक्तो दिष्ट्यादिष्ट्येति वासवः ॥ १३.२९.१६ ॥

千眼因陀罗听了这话,赞许了金翅鸟;怀着喜悦,婆娑说道:"吉祥!吉祥!"

13.29.17

क्रषयो ये सहस्राक्षमुपासन्ति सुरैः सह ।
ते सर्वे च मुदा युक्ता विश्वेदेवास्तथैव च ॥ १३.२९.१७ ॥

与诸天一同侍奉千眼之神的诸仙人,皆充满喜悦;毗湿伐提婆也同样欢喜。

13.29.18

ततस्तमृषयः सर्वे देवाश्च भरतर्षभ ।
ऊचुः पुरन्दरं दृष्टा गरुडो लभतां वरम् ॥ १३.२९.१८ ॥

于是,婆罗多族的雄牛啊,诸仙人与众天神见到迦卢达后,对补兰达罗说:"愿迦卢达获得一个恩赐。"

13.29.19

ततः शचीपतिर्वाक्यमुवाच प्रहसन्निव ।
जनिष्यति हृषीकेशः स्वयमेवैष पक्षिराट् ॥ १३.२९.१९ ॥

于是,舍遮之主似笑非笑地说道:"这位鸟王自己将以如舍(毗湿奴)之身降生。"

13.29.20

केशवः पुण्डरीकाक्षः शूरपुत्रस्य वेश्मनि ।
स्वयं धर्मस्य रक्षार्थं विभज्य भुजगाशनः ॥ १३.२९.२० ॥

莲花眼的柯舍婆为护持法,分身亲自降临于舜罗之子的家中;他是食蛇者。

13.29.21

एष ते पाण्डवश्रेष्ठ गरुडोऽथ पतत्रिराट् ।
सुपर्णो वैनतेयश्च कीर्तितो भद्रमस्तु ते ॥ १३.२९.२१ ॥

般度之最胜者啊,此即为你所说的迦楼罗,鸟王;他也被称为苏波尔那与毗娜塔之子。愿你吉祥。

13.29.22

तदेतद्भरतश्रेष्ठ मयाऽऽख्यानं प्रकीर्तितम् ।
सुपर्णस्य महाबाहो किं भूयः कथयामि ते ॥ १३.२९.२२ ॥

婆罗多之最胜者啊,关于苏波尔那的这段故事已由我为你讲述。大臂者啊,我还能再对你说什么呢?