Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.3.1

प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् ।
गुणैश्च विविधैः सर्वैर्वयसा च समन्वितः ॥ १३.३.१ ॥

您具备智慧与博学、品行与德性,具备各种美德,也具备年齿。

13.3.2

भवान्विशिष्टो बुद्ध्या च प्रज्ञया तपसा तथा ।
सर्वेषामेव जातानां सतामेतन्न संशयः ॥ १३.३.२ ॥

您在智识、智慧与苦行上卓越超群;在一切众生与善人之中,这毫无疑问。

13.3.3

तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतांवर ।
नान्यस्त्वदन्यो लोकेषु प्रष्टव्योस्ति नराधिप ॥ १३.३.३ ॥

因此我向您请教法,持法者中最优秀的人啊。人主啊,世间除您之外,再无可问之人。

13.3.4

क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम ।
ब्राह्मण्यं प्राप्नुयाद्येन तन्मे व्याख्यातुमर्हसि ॥ १३.३.४ ॥

王中至尊啊,若刹帝利、吠舍或首陀罗能够获得婆罗门性,请您为我解说其方法。

13.3.5

ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप ।
तपसा वा सुमहता कर्मणा वा श्रुतेन वा।
ब्राह्मण्यमथ चेदिच्छेत्कथं शक्यं पितामह ॥ १३.३.५ ॥

人主啊,若婆罗门性对三种种姓而言难以获得——无论靠大苦行、业行还是闻学;而若有人欲求之,祖父啊,这如何可能?

13.3.6

ब्राह्मण्यमतिदुष्प्राप्यं वर्णैः क्षत्रादिभिस्त्रिभिः ।
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ॥ १३.३.६ ॥

婆罗门性对以刹帝利为首的三种种姓而言极难获得,般遮罗子啊;因为它是一切众生的至上之处。

13.3.7

बह्विस्तु संसरन्योनीर्जायमानः पुनःपनः ।
पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते ॥ १३.३.७ ॥

在众多胎中流转,一次又一次地出生,亲爱的孩子,在某个轮回中,有人以婆罗门之名而生。

13.3.8

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ॥ १३.३.८ ॥

关于此事,人们也讲述这个古老的故事——摩檀伽与母驴的对话,俞提希提罗啊。

13.3.9

द्विजातेः कस्यचित्तात तुल्यवर्णः सुतस्त्वभूत् ।
मतङ्गो नाम नाम्नाऽऽसीत्सर्वैः समुदितो गुणैः ॥ १३.३.९ ॥

亲爱的孩子,某位再生者生下一个同等种姓的儿子,名叫摩檀伽,具备一切美德。

13.3.10

स यज्ञकारः कौन्तेय पित्रोत्सृष्टः परंतप ।
प्रायाद्गर्दभयुक्तेन रथेनाप्याशुगामिना ॥ १३.३.१० ॥

那位行祭之人,俱卢之子啊,受父亲所派,摧敌者啊,乘坐驴拉的疾驰之车而去。

13.3.11

स बालं गर्दभं राजन्वहन्तं मातुरन्तिके ।
निरविध्यत्प्रतोदेन नासिकायां पुनःपुनः ॥ १३.३.११ ॥

国王啊,他用刺棒一次又一次地刺穿一头被拉到母驴身旁的小驴的鼻孔。

13.3.12

तं दृश्य नसि निर्भिन्नं गर्दभी पुत्रगृद्धिनी ।
उवाच मा शुचः पुत्र चण्डालस्त्वाभिविध्यति ॥ १३.३.१२ ॥

母驴见他鼻子被刺穿,牵挂着儿子,便说:孩子,不要悲伤;这个旃陀罗正在刺你。

13.3.13

ब्राह्मणो दारुणो नास्ति मैत्रो ब्राह्मण उच्यते ।
आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ॥ १३.३.१३ ॥

婆罗门并不残酷,婆罗门被称为仁慈者。一切众生的导师与统治者,何故要加以殴打?

13.3.14

अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् ।
स्वयोनिं मानयत्येष भावो भावं नियच्छति ॥ १३.३.१४ ॥

然而此人性情罪恶,孩子,他不施悲悯。他尊重自己的出身;本性约束本性。

13.3.15

एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः ।
अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥ १३.३.१५ ॥

摩当伽听到这母驴的严厉之言,急忙下车,对母驴说道。

13.3.16

ब्रूहि रासभि कल्याणि माता मे येन दूषिता ।
केन मां वेत्सि चण्डालं ब्राह्मण्यं केन मेऽनशत्।
तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ॥ १३.३.१६ ॥

吉祥的母驴啊,请告诉我:是谁玷污了我的母亲?你是凭什么知道我是旃陀罗的?又是谁毁坏了我的婆罗门身份?大智慧者啊,请如实、完整地都告诉我。

13.3.17

ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह ।
जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् ॥ १३.३.१७ ॥

你是婆罗门女子与首陀罗所生,又是醉酒女子与理发匠所生;你是旃陀罗,因此你的婆罗门身份被毁坏了。

13.3.18

एवमुक्तो मतङ्गस्तु प्रतिप्रायाद्गृहं पुनः ।
तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥ १३.३.१८ ॥

摩当伽听了这番话,便回到家中。他的父亲看见他回来,便说了这些话。

13.3.19

यस्त्वं यज्ञार्थसंसिद्धौ नियुक्तो गुरुकर्मणि ।
कस्मात्प्रतिनिवृत्तोसि कच्चिन्न कुशलं तव ॥ १३.३.१९ ॥

你受命承担祭祀成就的重任,为何折返?你是否安好?

13.3.20

अन्त्ययोनिरयोनिर्वा कथं स कुशली भवेत् ।
कुशलं तु कुतस्तस्य यस्येयं जननी पितः ॥ १३.३.२० ॥

出身最卑贱或无出身者,怎能安好?父亲啊,此女是他的母亲,他的安好从何而来?

13.3.21

ब्राह्मण्यां वृषलाञ्जातं पितर्वेदयते हि माम् ।
अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ॥ १३.३.२१ ॥

父亲,这非人的母驴告诉我,我是婆罗门女与首陀罗所生。因此我将行大苦行。

13.3.22

एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः ।
ततो गत्वा महारण्यमतपत्सुमहत्तपः ॥ १३.३.२२ ॥

他对父亲这样说完,便坚定地出发了。随后他进入大森林,行了极大的苦行。

13.3.23

ततः स तापयामास विबुधांस्तपसाऽन्वितः ।
मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ॥ १३.३.२३ ॥

于是他以苦行加身,令诸天受煎熬;摩檀伽渴望一个极其安乐的所在,即便以善行也能获得,故而如此。

13.3.24

तं तथा तपसा युक्तमुवाच हरिवाहनः ।
मतङ्ग तप्स्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥ १३.३.२४ ॥

对于如此专注苦行的他,诃梨婆诃那(因陀罗)说道:摩檀伽啊,你舍弃人间的享乐,为何修行苦行?

13.3.25

वरं ददामि ते हन्त वृणीष्व त्वं यदिच्छसि ।
यच्चाप्यवाप्यं हृदि ते सर्वं तद्ब्रूहि मा चिरम् ॥ १३.३.२५ ॥

我确实赐你一个恩惠。你想要什么就选择什么,把你心中所欲得到的一切,不要迟延,尽管说出来。

13.3.26

ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः ।
गच्छेयं तदवाप्येह वर एष वृतो मया ॥ १३.३.२६ ॥

我渴望婆罗门的境界,因此开始了这苦行。愿我在此获得它,并抵达那一境界——这就是我所选择的恩惠。

13.3.27

एतच्छ्रुत्वा तु वचनं तमुवाच पुरदरः ।
मतङ्ग दुर्लभमिदं विप्रत्वं प्रार्थ्यते त्वया ॥ १३.३.२७ ॥

听到这些话,补兰达罗对他说:啊,摩檀伽,这婆罗门的境界难以获得,而你正在追求它。

13.3.28

ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ।
विनशिष्यसि दुर्बुद्धे तदुपारम मा चिरम् ॥ १३.३.२८ ॥

你追求那对于心未调伏者而言不可得的婆罗门境界,必将毁灭。愚蠢的人啊,所以请放弃,不要迟延。

13.3.29

श्रेष्ठं यत्सर्वभूतेषु तपो यदतिवर्तते ।
तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि ॥ १३.३.२९ ॥

你追求那在一切众生中最殊胜的苦行,它甚至超越那些,你将很快毁灭。

13.3.30

देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् ।
चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन ॥ १३.३.३० ॥

在诸天、阿修罗与凡人之中被认为最为纯洁的境界,出生于旃陀罗之胎的人无论如何也无法获得。