摩诃婆罗多 · 章 13.30
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.30.1
ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह ।
न प्रयच्छन्ति लोभात्ते के भवन्ति महामते ॥ १३.३०.१ ॥
祖父啊,在这世上,那些向婆罗门许诺布施,却因贪婪而不给予的人,会变成什么?大智者啊!
13.30.2
एतन्मे तत्वतो ब्रूहि धर्मे धर्मभृतांवर ।
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ॥ १३.३०.२ ॥
法的护持者中最优秀的人啊,请如实告诉我,关于法,那些许诺却不给予的邪恶之人会怎样?
13.30.3
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ।
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥ १३.३०.३ ॥
许诺之后,无论多少都不给予的人,他的一切希望都会毁灭,就像无能者得不到子嗣的果实一样。
13.30.4
यां रात्रिं जायते पापो यां च रात्रिं विनश्यति ।
एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत ॥ १३.३०.४ ॥
罪人出生之夜与他灭亡之夜,婆罗多啊,在这期间,他所做的一切善行……
13.30.5
यच्च तस्य हुतं किञ्चिद्दत्तं वा भरतर्षभ ।
तपस्तप्तमथो वाऽपि सर्वं तस्योपहन्यते ॥ १३.३०.५ ॥
婆罗多族中的雄牛啊,他所行的任何祭祀、布施或苦行,全都会被毁灭。
13.30.6
अथैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः ।
निशास्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥ १३.३०.६ ॥
于是精通法典的人们宣说这番话。婆罗多中最优秀的人啊,以最高明的理智听闻之后……
13.30.7
अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः ।
अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते ॥ १३.३०.७ ॥
精通法论的人也引用此说:以一千匹黑耳马布施,他便得解脱。
13.30.8
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
सृगालस्य च संवादं वानरस्य च भारत ॥ १३.३०.८ ॥
此处也援引这古老的传说:胡狼与猴子的对话,婆罗多啊。
13.30.9
तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप ।
अन्यां योनिं समापन्नौ सृगालीं वानरीं तथा।
सम्भाषणात्ततः सख्यं तत्रतत्र परस्परम् ॥ १३.३०.९ ॥
啸敌者啊,往昔在人间,他们二人是朋友;后来他们投入另一种生胎,生为雌胡狼与雌猴,经由交谈,彼此在各处结成了友谊。
13.30.10
ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् ।
श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन् ॥ १३.३०.१० ॥
于是猴子看见胡狼在火葬场中间吞食死尸,回想起前世,便对它说道。
13.30.11
किं त्वया पापकं पूर्वं कृतं कर्म सुदारुणम् ।
यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ॥ १३.३०.११ ॥
你从前犯了怎样极其可怕的罪业,以致在火葬场吞食腐臭、可厌的死尸?
13.30.12
एवमुक्तः प्रत्युवाच सृगालो वानरं तदा ।
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाहृतम् ॥ १३.३०.१२ ॥
如此被问,胡狼于是回答猴子说:“我曾向一位婆罗门许诺,却未曾将它奉上。”
13.30.13
तत्कृते पापिकां योनिमापन्नोस्मि प्लवङ्गम ।
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥ १३.३०.१३ ॥
因为那件事,我堕入了罪恶的生命形态,跳跃者啊。因此饥饿时,我便吃这样的食物。
13.30.14
सृगालो वानरं प्राह पुनरेव नरोत्तम ।
किं त्वया पातकं कर्म कृतं येनासि वानरः ॥ १३.३०.१४ ॥
豺狼又对猴子说:“人中最杰出者啊,你做了什么罪恶之事,以致成了猴子?”
13.30.15
स चाप्याह फलाहारो ब्राह्मणानां प्लवङ्गमः ।
तस्मान्न ब्राह्मणस्वं तु हर्त्तव्यं विदुषा सदा।
सीमाविवादे मोक्तव्यं दातव्यं च प्रतिश्रुतम् ॥ १३.३०.१५ ॥
以果为食的猴子也说:“因此,智者绝不可夺取婆罗门的财物。在边界争端中应当放弃,所许诺的应当给予。”
13.30.16
इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम् ।
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ॥ १३.३०.१६ ॥
君王啊,我从那样说话的婆罗门那里听到了这个神圣古老的故事,是那位通晓法的婆罗门所讲。
13.30.17
श्रुतं चापि मया भूयः कृष्णस्यापि विशांपते ।
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ॥ १३.३०.१७ ॥
人主啊,般度之子啊,我也再次听到了那个故事,就是克里希那从前向一位婆罗门所讲的。
13.30.18
न हर्तव्यं विप्रधनं क्षन्तव्यं तेषु नित्यशः ।
बालाश्च नावमन्तव्या दरिद्राः कृपणा अपि ॥ १३.३०.१८ ॥
不可夺取婆罗门的财富,对他们应当始终宽容。不可轻视孩童、贫穷者,甚至困苦之人。
13.30.19
एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै ।
प्रतिश्रुतं भवेद्देयं नाशा कार्या द्विजोत्तमे ॥ १३.३०.१९ ॥
同样,婆罗门们总是教导我:已许诺的必须给予,不应对最优秀的再生者抱有期望。
13.30.20
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते ।
सुसमिद्धो यता दीप्तः पावकस्तद्विधः स्मृतः ॥ १३.३०.२० ॥
婆罗门啊,地上之主!他因先前所起的愿望,就像烈火熊熊燃烧的火焰;人们如此记住他。
13.30.21
यं निरीक्षेत सङ्क्रुद्ध आशया पूर्वजातया ।
प्रदहेच्च हितं राजन्कक्षमक्षय्यभुग्यथा ॥ १३.३०.२१ ॥
国王啊,他若怀着先前所生的愿望,怒视何人,便会将其焚烧——正如不灭之火烧尽干枯的灌木。
13.30.22
स एव हि यदा तुष्टो वचसा प्रतिनन्दति ।
भवत्यगदसंकाशो विषये तस्य भारत ॥ १३.३०.२२ ॥
婆罗多的后裔啊,当他满意地以言语致意时,他便在那人的国境内成为一剂良药。
13.30.23
पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा ।
पुरं जनपदं चैव शान्तिरिष्टेन पोषयेत् ॥ १३.३०.२३ ॥
应当以和平与所愿的布施,供养子孙、牲畜、亲属、大臣,以及城市与国土。
13.30.24
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते ।
सहस्रकिरणस्येव सवितुर्धरणीतले ॥ १३.३०.२४ ॥
婆罗门这至高的光辉,在大地之上显现于此,如同千道光芒的太阳萨维特利之光。
13.30.25
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर ।
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ॥ १३.३०.२५ ॥
因此,坚战啊,若在此已许诺,就应当施予,若欲得到殊胜之生,婆罗多中最优秀者啊。
13.30.26
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः ।
शक्यः प्राप्तुं विशेषेण दानं हि महती क्रिया ॥ १३.३०.२६ ॥
以施予婆罗门的布施,必定可以得到无上的天界;布施乃是大功德之行。
13.30.27
इतो दत्तेन जीवन्ति देवताः पितरस्था ।
तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ॥ १३.३०.२७ ॥
从此处所施之物,使彼处的诸天与住于彼的祖先得以存活;因此明智者应向婆罗门施舍。
13.30.28
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते ।
वेलायां न तु कस्यां चिद्गच्छेद्विप्रो ह्यपूजितः ॥ १३.३०.२८ ॥
婆罗多中最优秀者啊,婆罗门被称为大圣地;未受尊敬的婆罗门,任何时候都不应前往。