摩诃婆罗多 · 章 13.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.31.1
मित्रसौहार्दयोगेन उपदेशं करोति यः ।
जात्याऽधरस्य राजर्षे दोषस्तस्य भवेन्न वा ॥ १३.३१.१ ॥
若有人出于友好之情施以教导,哦王中仙人,若受教者生来卑下,施教者是否有过失?
13.31.2
एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह ।
सूक्ष्मा गतिर्हि धर्मस्यि यत्र मुह्यन्ति मानवाः ॥ १३.३१.२ ॥
祖父啊,我愿意听您如实讲解此事,因为法的道路精微,人们在其中迷惑。
13.31.3
अत्र ते वर्तयिष्यामि शृणु राजन्यथाक्रमम् ।
मदुक्तं वचनं राजन्यथान्यायं यथागमम्।
ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा पुरा ॥ १३.३१.३ ॥
国王啊,我将依次为你讲述,请听。我所说之言合于正理与传承,正如往昔听闻诸仙人所言。
13.31.4
उपदेशो न कर्तव्यो जातिहीनस्य कस्य चित् ।
उपदेशे महान्दोष उपाध्यायस्य भाष्यते ॥ १३.३१.४ ॥
不应向出身卑下之人施教;据说施教者会犯大过。
13.31.5
नाध्यापयेच्छूद्रमिह तथा नैव च याजयेत् ।
निदर्शनमिदं राजञ्शृणु मे भरतर्षभ ॥ १३.३१.५ ॥
此处不应教导首陀罗,也不应为他主持祭祀。国王啊,婆罗多中的雄牛,请听我讲这个例子。
13.31.6
दुरुक्तवचने राजन्यथापूर्वं युधिष्ठिर ।
ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे ॥ १३.३१.६ ॥
国王尤提施提罗啊,关于一句说错的话,如前所述:在喜马拉雅旁吉祥的梵天修行处所发生之事。
13.31.7
तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् ।
नानागुल्मलताकीर्णं मृगद्विजनिषेवितम्।
सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् ॥ १३.३१.७ ॥
那里有一处神圣的修行林地,遍布众多种类的树林,覆盖着各式灌木与藤蔓,鹿群与飞鸟常来栖息,回荡着悉陀与遮罗那的吟诵之声,是一片花开的可爱森林。
13.31.8
व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् ।
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसन्निभैः ॥ १३.३१.८ ॥
众多持守誓愿之人聚集其中,苦行者使其增辉,还有如日如火、大福德的婆罗门。
13.31.9
नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः ।
दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः ॥ १३.३१.९ ॥
充满持守戒律与誓愿的苦行者,他们已受戒、饮食有节、克己自制,婆罗多之最啊。
13.31.10
वेदाध्ययनघोषैश्च नादितं भरतर्षभ ।
वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् ॥ १३.३१.१० ॥
回荡着诵读吠陀的声音,婆罗多之雄啊,为众多的瓦拉基利亚与苦行者所常驻。
13.31.11
तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः ।
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥ १३.३१.११ ॥
那里有一位首陀罗怀着热忱与慈悲来到修行林地,受到苦行者的敬重。
13.31.12
तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ।
विविधां वहतो दीक्षां सम्प्राहृष्यत भारत ॥ १३.३१.१२ ॥
他见到那些如天神般、具有大威力、奉持各种灌顶誓愿的仙人群,极为欢喜,婆罗多啊。
13.31.13
अथास्य बुद्धिरभावत्तापस्ये भरतर्षभ ।
ततोऽब्रवीत्कुलपतिं पादौ सङ्गृह्य भारत ॥ १३.३१.१३ ॥
于是他心中生起修苦行的决心。婆罗多之牛啊,他抱住族长的双足,说道。
13.31.14
भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ ।
तस्मादभिगतं त्वं मां प्रव्राजयितुमर्हसि ॥ १३.३१.१४ ॥
蒙您恩典,婆罗门中之最,我愿奉行法。因此,我来投奔您,您应当使我出家修行。
13.31.15
वर्णावरोऽहं भगवञ्शूद्रो जात्याऽस्मि सत्तम ।
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥ १३.३१.१५ ॥
尊者,善人中最上者,我生来是首陀罗,是种姓中最下的。我愿意侍奉。请怜悯我这个投奔您的人。
13.31.16
न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम् ।
आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥ १३.३१.१६ ॥
在这里,首陀罗不可能披戴苦行者的标记而生活。若你的心意如此,那就留下,专心服侍。
13.31.17
शुश्रूषया पराँल्लोकानवाप्स्यसि न संशयः ॥ १३.३१.१७ ॥
凭借服侍,你将获得更高的世界,此事毫无疑问。
13.31.18
एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप ।
कथमत्र मया कार्यं श्रुद्धा धर्मपरा च मे ॥ १३.३१.१८ ॥
国王啊,那位贤者如此说后,首陀罗思忖:我在此该如何是好?我有信心,也一向奉行法。
13.31.19
विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः ।
गत्वाऽऽश्रमपदाद्दूरमुटजं कृतवांस्तु सः ॥ १३.३१.१९ ॥
“就这样吧;我将做我所喜爱的事。”他这样想着,走到离修行处很远的地方,建造了一间茅屋。
13.31.20
तत्र वेदीं च भूमिं च देवतायतनानि च ।
निवेश्य भरतश्रेष्ठ नियमस्थोऽभवन्मुनिः ॥ १३.३१.२० ॥
在那里设立了祭坛、场地和神庙之后,婆罗多中最优秀的人啊,那位仙人便坚守誓戒。
13.31.21
अभिषेकांश्च नियमान्देवतायतनेषु च ।
बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् ॥ १३.३१.२१ ॥
在神庙中,他行沐浴与戒律,作供物,向火中献祭,也礼拜了诸神。
13.31.22
सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः ।
नित्यं सन्निहिताभिस्तु ओषधीभिः फलैस्तथा ॥ १३.३१.२२ ॥
他具足决心与戒律,以果为食,克制诸根,常以近处的草药与果实为生。
13.31.23
अतिथीन्पूजयामास यथावत्समुपागतान् ।
एवं हि सुमहान्कालो व्यत्यक्रामत तस्य वै ॥ १३.३१.२३ ॥
他依礼妥善款待前来的客人;如此,他的漫长岁月便已流逝。
13.31.24
अथास्य मुनिरागच्चत्सङ्गत्या वै तमाश्रमम् ।
सम्पूज्य स्वागतेनर्षिं विधिवत्समतोषयत् ॥ १३.३१.२४ ॥
那时,一位仙人偶然来到他的那处修行所;他以欢迎之礼敬之,依礼使这位仙人欢喜。
13.31.25
अनूकूलाः कथाः कृत्वा यथागतमपृच्छत ।
ऋषिः परमतेजस्वी धर्मात्मा संशितव्रतः ॥ १३.३१.२५ ॥
与他进行了愉快的交谈之后,这位具有至高光辉、心怀正法、坚守誓愿的仙人,问他是如何而来的。
13.31.26
एवं सुबहुशस्तस्य शूद्रस्य भरतर्षभ ।
सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभः ॥ १३.३१.२६ ॥
婆罗多族之牛啊,如此与那位首陀罗多次交谈之后,这位人中之牛的仙人前往他的修行处去看望这位首陀罗。
13.31.27
अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ ।
पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु ॥ १३.३१.२७ ॥
于是那首陀罗对那苦行者说,婆罗多族中最优秀的人啊:“我将为祖先举行祭仪;请在此施恩于我。”
13.31.28
बाढमित्येव तं विप्र उवाच भरतर्षभ ।
शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् ॥ १३.३१.२८ ॥
婆罗多族中最优秀的人啊,那婆罗门只说了一句“好吧”。于是那首陀罗净身之后,为那位仙人取来了洗足之水。
13.31.29
अथ दर्भाश्च वन्यांश्च ओषधीर्भरतर्षभ ।
पवित्रमासनं चैव बृसीं चि समुपानयत् ॥ १३.३१.२९ ॥
婆罗多族中最优秀的人啊,然后他取来了吉祥草、林中的草药、净化的座位,还有一张神圣的草席。
13.31.30
अथ दक्षिणमावृत्य बृसीं चरमशैर्षिकीम् ।
कृतामन्यायतो दृष्ट्वा तं शूद्रमृषिरब्रवीत् ॥ १३.३१.३० ॥
那位仙人将那草席转向南方,看到它末端制作不当,于是对那首陀罗说道。
13.31.31
कुरुष्वैतां पूर्वशीर्षां भवांश्चोदङ्मुखः शुचिः ।
स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत् ॥ १३.३१.३१ ॥
你应头朝东、面朝北、保持清净来行此礼。那位首陀罗也照仙人所说的一切去做了。
13.31.32
यथोपदिष्टं मेधावी दर्भार्घादि यथातथम् ।
हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना ॥ १३.३१.३२ ॥
聪慧者完全按照所教导的去做,包括吉祥草、供水等一切。苦行者已完整讲述了献给天神与祖先的仪轨。
13.31.33
ऋषिणा पितृकार्येषु सदा धर्मपथे स्थितः ।
पितृकार्ये कृते चापि विसृष्टः स जगाम ह ॥ १३.३१.३३ ॥
在仙人的指引下,他在祭祀祖先的仪式中始终行于法道。祖先之仪完成后,他被遣送离去。
13.31.34
अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः ।
वने पञ्चत्वमगमत्सुकृतेन च तेन वै।
अजायत महाराज वंशे स च महाद्युतिः ॥ १३.३१.३४ ॥
此后,那位首陀罗苦行者长久修苦行,在林中命终。大王,凭这善业,他降生于一个世家,并且光辉赫奕。
13.31.35
तथैव स ऋषिस्तात कालधर्ममवाप ह ।
पुरोहितकुले विप्रः स जातोऽस्य वशानुगः ॥ १३.३१.३५ ॥
孩子,那位仙人也同样走向了时间的法则。他降生为婆罗门,生于家传祭司之家,成为此人的顺从追随者。
13.31.36
एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा ।
क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ ॥ १३.३१.३६ ॥
如此,那位首陀罗与那位仙人都降生在那里。二人依次成长,都精通了诸学问。
13.31.37
अथर्ववेदे वेदे च बभूवर्षिः सुनिष्ठितः ।
कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः।
साङ्ख्ये चैव परा प्रीतिस्तस्य चैवं व्यवर्धत ॥ १३.३१.३७ ॥
这位仙人在《阿闼婆吠陀》和吠陀中十分精通。在仪轨实践与天文学中,他达到了最高境界。在数论中他也有深厚的喜爱;他就这样日益增长。
13.31.38
पितर्युपरते चापि कृतशौचस्तु पार्थिवः ।
अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः ॥ १३.३१.३८ ॥
即使父亲去世后,那位完成净化仪式的国王,王子,也被臣民举行灌顶,即位为王。
13.31.39
अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः ॥ १३.३१.३९ ॥
那位受灌顶的国王,使那位仙人受灌顶,成为家族祭司。
13.31.40
स तं पुरोधाय सुखमवसद्भरतर्षभः ।
राज्यं शशास धर्मेण प्रजाश्च परिपालयन् ॥ १३.३१.४० ॥
他以那人为首席祭司,婆罗多族之雄牛安乐地居住,依法治理国家并保护臣民。
13.31.41
पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् ।
उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम्।
एवं स बहुशो राजन्पुरोधसमुपाहसत् ॥ १३.३१.४१ ॥
在吉祥诵唱与宗教事务中,国王常常看见祭司便微笑着说话,甚至大笑。啊,国王,他就这样多次嘲笑祭司。
13.31.42
लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् ।
उत्स्मयन्तं च सततं दृष्ट्वा तं मन्युमानभूत् ॥ १३.३१.४२ ॥
祭司多次留意到那位人主;见他不停地微笑,他便愤怒起来。
13.31.43
अथ शून्ये पुरोधास्तु सह राज्ञा समागतः ।
कथाभिरनुकूलाभी राजानं चाभ्योरचयत् ॥ १३.३१.४३ ॥
于是,在僻静处,国师与国王相见,以悦耳的言辞讨好国王。
13.31.44
ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ ।
वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ॥ १३.३१.४४ ॥
于是国师对国王说:“婆罗多族中的雄牛啊,大光明者啊,我愿求您所赐的一个恩典。”
13.31.45
वराणां ते शतं दद्यां किं बतैकं द्विजोत्तम ।
स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ॥ १३.३१.४५ ॥
国王说:“婆罗门中最优秀的人啊,我可以赐您一百个恩典,何况只是一个。出于爱和深深的敬重,我没有什么是不能给您的。”
13.31.46
एकं वै वरमिच्छामि यदि तुष्टिसि पार्थिव ।
प्रतिजानीहि तावत्त्वं सत्यं यद्वद नानृतम् ॥ १३.३१.४६ ॥
“国王啊,若您欢喜,我只愿求一个恩典。请先立誓,说实话,不要说谎。”
13.31.47
बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर ।
यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ॥ १३.३१.४७ ॥
国王回答他说:“好吧,坚战啊。若我知道,我便告诉你;若我不知道,我便不答应。”
13.31.48
पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् ।
शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य मां ॥ १३.३१.४८ ॥
“在吉祥诵祝、宗教仪式与息灾祭中,始终一再如此——你看着我时,为何发笑?”
13.31.49
सव्रीडं वै भवति हि मनो मे हसता त्वया ।
कामया शापितो राजन्नान्यथावक्तुमर्हसि ॥ १३.३१.४९ ॥
国王啊,你的笑声使我心中羞愧。我已被诅咒,所以你不应该另外说。
13.31.50
भाव्यं हि कारणेनात्र न ते हास्यमकारणम् ।
कौतूहलं मे सुभृशं तत्त्वेन कथमस्व मे ॥ १३.३१.५० ॥
这里必定有原因,你的笑并非无故。我非常好奇;请如实告诉我究竟如何。
13.31.51
एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि ।
अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज ॥ १३.३१.५१ ॥
婆罗门啊,你既然这样说了,即使是不可说的,也必须说出来。二生者啊,请专心一意地听。
13.31.52
पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम ।
जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु ॥ १३.३१.५२ ॥
二生者中最优秀的人啊,请了解我前世的经历。婆罗门啊,我记得我的出生;请专心听我说。
13.31.53
शुद्रोऽहमभवं पूर्वं तपसे कृतनिश्चयः ।
ऋषिरुग्रतपास्त्वं च तदाऽभूर्द्विजसत्तम ॥ १३.३१.५३ ॥
我从前是首陀罗,决心修苦行。二生者中最优秀的人啊,那时你是苦行严峻的仙人。
13.31.54
प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना ।
पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ॥ १३.३१.५४ ॥
婆罗门啊,那时你怀着对我的恩惠之心而喜悦,无过失者啊,你先前曾就祖先之职对我作过教导。
13.31.55
वृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम ।
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः ॥ १३.३१.५५ ॥
最优秀的圣人啊,因为祭祀中的这一过失——在牛祭、在吉祥草上、在献给神的供物和献给祖先的供物中——你才生为祭司。
13.31.56
अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् ।
मत्कृतस्योपदेशस्य त्वयाऽवाप्तमिदं फलम् ॥ १३.३१.५६ ॥
婆罗门中最优秀的人啊,我是国王——看看时间的逆转。你因我所给的教导而得到了这个果报。
13.31.57
एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम ।
न त्वां परिभवन्ब्रह्मनप्रहसामि गुरुर्भवान् ॥ १३.३१.५७ ॥
因此,婆罗门啊,再生者中最优秀的人啊,我笑你;但婆罗门啊,我并非轻蔑你而笑——你是我的老师。
13.31.58
विपर्ययेण मे मन्युस्तेन सन्तप्यते मनः ।
जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै ॥ १३.३१.५८ ॥
因这番颠倒,我心生愤怒,内心因此而痛苦。我提醒你我自己的出身,所以才笑你。
13.31.59
एवं तवोग्रं हि तप उपदेशेन नाशितम् ।
पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे ॥ १३.३१.५९ ॥
如此,你的苦行因我的教导而毁坏了。请放弃祭司之职,努力求得再生。
13.31.60
इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज ।
गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम ॥ १३.३१.६० ॥
从此,再生者啊,不要再得到另一个低劣的胎生。婆罗门啊,接受财富吧;善人中最优秀的人啊,成为心灵清净者。
13.31.61
ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः ।
ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ॥ १३.३१.६१ ॥
随后,这位婆罗门被国王放行,他向婆罗门布施了种种财物:财富、土地以及各处的村庄。
13.31.62
कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमैः ।
तीर्थानि चापि गत्वा वै दानानि विविधानि च ॥ १३.३१.६२ ॥
随后,依照最优秀的再生者所规定,他行了苦行,前往圣渡口朝拜,并布施了各种施舍。
13.31.63
दत्त्वा गाश्चैव विप्रेभ्यः पूतात्माऽभवदात्मवान् ।
तमेव चाश्रमं गत्वा चचार विपुलं तपः ॥ १३.३१.६३ ॥
他向婆罗门布施了牛,心灵变得纯净,能自我克制;他又回到同一个修行处,修习了广大的苦行。
13.31.64
ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम ।
सम्मतस्चाभवत्तेषामाश्रमे तन्निवासिनाम् ॥ १३.३१.६४ ॥
于是,最优秀的国王啊,那位婆罗门获得了最高的成就,并受到那座修行处居民的敬重。
13.31.65
एवं प्राप्तो महत्कृच्छ्रमृषिः सन्नृपसत्तम ।
ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने ॥ १३.३१.६५ ॥
最优秀的国王啊,他虽是经历了如此大苦的圣人,婆罗门也不应将此话告诉低等种姓的人。
13.31.66
वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप ।
उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् ॥ १३.३१.६६ ॥
国王啊,婆罗门应当永远避免教诲他人,因为施教的再生者会遭受苦难。
13.31.67
नेषितव्यं सदा वाचा द्विजेन नृपसत्तम ।
न च प्रवक्तव्यमिह किञ्चिद्वर्णावरे नरे ॥ १३.३१.६७ ॥
众王之最,再生族之人不应以言语常如此说,也不应在此谈论低种姓之人。
13.31.68
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः ।
एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति ॥ १३.३१.६८ ॥
婆罗门、刹帝利、吠舍——这三种种姓是再生族。大王,婆罗门谈论他们时并不因此受污。
13.31.69
तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किंचिदग्रतः ।
सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः ॥ १३.३१.६९ ॥
因此,善人不应在任何人面前说任何事,因为法的道路精微,未能自制者难以知晓。
13.31.70
तस्मान्मौनेन मुनयो दीक्षां कुर्वन्ति चादृताः ।
दुरुक्तस्य भयाद्राजन्नाभाषन्ते च किञ्चन ॥ १३.३१.७० ॥
因此,受尊敬的牟尼以沉默受持誓愿。大王,因畏惧恶语,他们什么也不说。
13.31.71
धार्मिका गुणसम्पन्नाः सत्यार्जवसमन्विताः ।
दुरुक्तवाचाभिहितैः प्राप्नुवन्तीह दुष्कृतम् ॥ १३.३१.७१ ॥
即便是正直、具备德性、拥有真实与正直的人,也会因以恶言所说的话而在此招致罪过。
13.31.72
उपदेशो न कर्तव्यो ह्यज्ञात्वा यस्यकस्य चित् ।
उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् ॥ १३.३१.७२ ॥
不应在不知其为何人的情况下向任何人教导,因为婆罗门会因教导而完全承担那份罪过。
13.31.73
विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता ।
सत्यानृतेन हि कृत उपदेशो हिनस्ति हि ॥ १३.३१.७३ ॥
因此,渴望法的智者应当在深思熟虑之后才开口;将真与假混杂而给出的教导,必定带来伤害。
13.31.74
वक्तव्यमिह पृष्टेन विनिश्चयविपर्ययम् ।
स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् ॥ १३.३१.७४ ॥
在此被询问时,应当说出与既定结论相反的话;并应给出能使人获得法的教导。
13.31.75
एतत्ते सर्वमाख्यातमुपदेशकृते मया ।
महान्क्लेशो हि भवति तस्मान्नोपदिशेदिह ॥ १३.३१.७५ ॥
为了教导,我已将这一切都告诉了你;其中确实有很大的烦恼,因此在此不应教导他人。