摩诃婆罗多 · 章 13.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.32.1
कीदृशे पुरुषे तात स्त्रीषु भरतर्षभ ।
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह ॥ १३.३२.१ ॥
婆罗多族的雄牛啊,祖父,请告诉我:莲花所生的吉祥天女(Śrī)常住于什么样的男子之中,又常住于什么样的女子之中?
13.32.2
अत्र ते वर्णयिष्यामि यथावृत्तं यथाश्रुतम् ।
रुक्मिणी देवकीपुत्रसन्निधौ पर्यपृच्छत ॥ १३.३२.२ ॥
关于此事,我将按照实际发生的情况和我所听闻的,为你讲述:罗克米尼在提婆吉之子(黑天)面前发问。
13.32.3
नारायणस्याङ्कगतां ज्वलन्तीं ।
दृष्ट्वा श्रियं पद्मसमानवक्त्राम्।
पप्रच्छ माता मकरध्वजस्यष ॥ १३.३२.३ ॥
见吉祥天女坐在那罗延怀中,光彩照人,面如莲花,摩羯旗(迦摩)之母便问道……
13.32.4
कौतूहलाद्विस्मितचारुनेत्रा ।
कानीह भूतान्युपसेवसे त्वं
सन्तिष्ठसे कानि च सेवसे त्वम् ।
तानि त्रिलोकेश्वरभूतकान्ते
तत्त्वेन मे ब्रूहि महर्षिकन्ये ॥ १३.३२.४ ॥
母亲因好奇而惊叹,美目圆睁,说道:你在此侍奉哪些众生?又安住于哪些之中?又侍奉哪些?三界之主所爱的女子,大仙之女啊,请如实告诉我。
13.32.5
एवं तदा श्रीराभिभाष्यमाणा ।
देव्या समक्षं गरुडध्वजस्य।
उवाच वाक्यं मधुराभिधानं ।
मनोहरं चन्द्रमुखी प्रसन्ना ॥ १३.३२.५ ॥
当时,在持迦楼罗旗的毗湿奴面前,被女神如此询问的月面、和悦的吉祥天女,以甜美的声音说出了动人的话语。
13.32.6
वसामि नित्यं सुभगे प्रगल्भे ।
दक्षे नरे कर्मणि वर्तमाने।
अक्रोधने देवपरे कृतज्ञे ।
जितेन्द्रिये नित्यमुदीर्णसत्वे ॥ १३.३२.६ ॥
幸运者啊,我常住于那刚毅而能干、勤于行事、不怀怒气、敬奉诸神、知恩图报、克制诸根、常怀刚强之德的人之中。
13.32.7
नाकर्मशीले पुरुषे वसामि ।
न नास्तिके साङ्करिके कृतघ्ने।
न भिन्नवृत्ते न नृशंसवृत्ते ।
न चाविनीते न गुरुष्वसूयके ॥ १३.३२.७ ॥
我不住在懒于行事之人身上,也不住在无神论者、乱其种姓者、忘恩者之中,不住在行为败坏或残忍之人、傲慢无礼之人,或嫉妒长辈之人之中。
13.32.8
ये चाल्पतेजोबलसत्त्वमानाः ।
क्लिश्यन्ति कुप्यन्ति च यत्रतत्र।
न चैव तिष्ठामि तथाविधेषु ।
नरेषु सङ्गुप्तमनोरथेषु ॥ १३.३२.८ ॥
我也不停留在那些光彩、力量、勇气与自尊都微弱,到处受苦而发怒,心愿隐而不显的人之中。
13.32.9
यश्चात्मनि प्रार्थयते न किञ्चि-
द्यश्च स्वभावोपहतान्तरात्मा।
द्यश्च स्वभावोपहतान्तरात्मा ।
नरेषु नाहं निवसामि स्म्यक् ॥ १३.३२.९ ॥
我不善于住在那些不为自己求取任何东西、内心因其天性而败坏之人之中,也不住在内心因其天性而败坏之人之中。
13.32.10
वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु ।
वृद्धसेविषु दान्तेषु सत्वज्ञेषु महात्मसु ॥ १३.३२.१० ॥
我住在有德之人之中,住在知法之人之中,住在侍奉长辈的大德之人之中,住在自我克制之人之中,也住在了知众生本性的大德之人之中。
13.32.11
अवन्ध्यकालेषु सदा दानशौचरतषु च ।
ब्रह्मचर्यतपोज्ञानगोद्विजातिप्रियेषु च ॥ १३.३२.११ ॥
我住在那些时时不虚度光阴、乐于布施与清净的人之中,也住在那些为梵行者、苦行者、智者、牛与再生者所爱戴的人之中。
13.32.12
स्त्रीषु कान्तासु शान्तासु देवद्विजपरासु च ।
विशुद्धगृहभाण्डासु गोधान्याभिरतासु च ॥ १३.३२.१२ ॥
我住在那些美丽而安详、奉事诸神与再生者、家中器物洁净、以牛与谷物为乐的女子之中。
13.32.13
वसागि देवद्विजपूजिकासु ॥ १३.३२.१३ ॥
我住在那些敬拜诸神与再生者的女子之中。
13.32.14
प्रकीर्णभाण्डामनवेक्ष्यकारिणीं ।
सदा च भर्तुः प्रतिकूलवादिनीम्। ॥ १३.३२.१४ ॥
器物散乱、行事不加留意、且总是违逆丈夫说话的女子,这样的女人我会离开。
13.32.15
लोलामदक्षामवलेपिनीं च ।
व्यपेतशौचां कलहप्रियां च।
निद्राभिभूतां सततं शयाना-
मेवंविधां स्त्रीं परिवर्जयामि ॥ १३.३२.१५ ॥
轻浮、笨拙、傲慢、不洁、好争吵,又常年昏睡躺卧的女子——这样的女人我会远离。
13.32.16
सत्यासु नित्यं प्रियदर्शनासु ।
सौभाग्ययुक्तासु गुणान्वितासु।
वसामि नारीषु पतिव्रतासु ।
कल्याणशीलासु विभूषितासु ॥ १३.३२.१६ ॥
我住在那些时常诚实、令人喜悦、具有福德与美德、忠于丈夫、品性良善而装饰庄严的女子之中。
13.32.17
यानेषु कन्यासु विभूषणेषु ।
यज्ञेषु मेघेषु च वृष्टिमत्सु।
वसामि फुल्लासु च पद्मिनीषु ।
नक्षत्रवीथीषु च शारदीषु ॥ १३.३२.१७ ॥
我居于车辆之中,居于少女之中,居于装饰之中,居于祭祀之中,居于降雨的云中,居于莲花盛开的池塘中,也居于秋日的星辰之道中。
13.32.18
गजेषु गोष्ठेषु तथाऽऽसनेषु ।
सरःसु फुल्लोत्पलपङ्कजेषु।
नदीषु हंसस्वननादितासु ।
क्रौञ्चावघुष्टस्वरशोभितासु ॥ १३.३२.१८ ॥
我居于大象之中,居于牛栏之中,也同样居于座位之中;居于开满蓝莲与白莲的湖泊之中,居于回荡着天鹅鸣声的河流之中,也居于以鹤鸣(克罗ñca鸟之声)为饰的河流之中。
13.32.19
विकीर्णकूलद्रुमराजितासु ।
तपस्विसिद्धद्विजसेवितासु।
वसामि नित्यं सुबहूदकासु ।
सिम्हैर्गजैश्चाकुलितोदकासु ॥ १३.३२.१९ ॥
我常居于河流之中:河岸上散布着树木而显得光彩,为苦行者、成就者与再生者所侍奉,水量丰沛,水波被狮子与大象搅动。
13.32.20
मत्ते गजे गोवृषभे नरेन्द्रे ।
सिम्हासने सत्पुरुषेषु नित्यम् ॥ १३.३२.२० ॥
我常居于发情的大象之中,居于牛群中的公牛之中,居于人主之中,居于狮子座之中,也居于善良之人之中。
13.32.21
यस्मिञ्चनो हव्यभुजं जुहोति ।
गोब्राह्मणं चार्चति देवताश्च
काले च पुष्पैर्बलयः क्रियन्ते ।
तस्मिन्गृहे नित्यमुपैमि वासम् ॥ १३.३२.२१ ॥
凡有人在那吞食祭品的火中献祭,敬重牛与婆罗门,礼拜诸神,并在适当时节以花供献的家中,我总是前来居住。
13.32.22
स्वाध्यायनित्येषु सदा द्विजेषु ।
क्षत्रे च धर्माभिरते सदैव।
वैश्ये च कृष्याभिरते वसामि ।
शूद्रे च शुश्रूषणनित्ययुक्ते ॥ १३.३२.२२ ॥
我常住于恒常诵习吠陀的再生者之中,常住于喜好法的刹帝利之中,住于喜好农耕的吠舍之中,也住于恒常侍奉的首陀罗之中。
13.32.23
नारायणे त्वेकमना वसामि ।
सर्वेण भावेन शरीरभूता।
तस्मिन्हि धर्मः सुमहान्निविष्टो ।
ब्रह्मिण्यता चात्र तथा प्रियत्वम् ॥ १३.३२.२३ ॥
我一心专注于那罗延,以全部的身心化为形体而住于其中。在他之中安立着大法,梵的虔敬与此处的可爱之处也同样如此。
13.32.24
नाहं शरीरेण वसामि देवि ।
नैवं मया शक्यमिहाभिधातुम्।
भावेन यस्मिन्निवसामि पुंसि ।
स वर्धते धर्मयशोर्थकामैः ॥ १३.३२.२४ ॥
女神啊,我并非以身体而住;我这样说也是不可能的。我以心意而住于其中的那个人,因法、名声、财富与欲望而兴盛。