Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.33.1

प्रायश्चित्तं कृतघ्नानां प्रतिब्रूहि पितामह ।
मातॄः पितॄन्गुरुंश्चैव येऽवमन्यन्ति मोहिताः ॥ १३.३३.१ ॥

祖父啊,请说明那些因迷惑而轻慢母亲、父亲与师长的忘恩者的赎罪之法。

13.33.2

ये चाप्यन्ते परे तात कृतघ्ना निरपत्रपाः ।
तेषां गतिं महाबाहो श्रोतुमिच्छामि तत्वतः ॥ १३.३३.२ ॥

亲爱的,大臂者啊,我想如实听闻那些忘恩负义、毫无羞耻的人在来世的去处。

13.33.3

कृतघ्नानां गतिस्तात नरके शाश्वतीः समाः ।
मातापितृगुरूणां च ये न तिष्ठन्ति शासने।
क्रिमिकीटपिपीलेषु जायन्ते स्थावरेषु च ॥ १३.३३.३ ॥

亲爱的,忘恩者的去处是地狱,历经无尽岁月;不遵从母亲、父亲与师长之教诲者,将投生为虫、蛆、蚁及不动之物。

13.33.4

दुर्लभो हि पुनस्तेषां मानुष्ये पुनरुद्भवः ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ १३.३३.४ ॥

对他们而言,再得人身实属罕见。关于此事,人们也讲述这段古老的故事。

13.33.5

वत्सनाभो महाप्राज्ञो महर्षिः संशितव्रतः ।
वल्मीकभूतो ब्रह्मर्षिस्तप्यते सुमहत्तपः ॥ १३.३३.५ ॥

瓦特萨纳跋,大智慧者,大仙人,持戒坚定,化作蚁垤,梵仙正修行极大的苦行。

13.33.6

तस्मिंश्च तप्यति तपो वासवो भरतर्षभ ।
ववर्ष समुहद्वर्षं सविद्युत्स्तनयित्नुमान् ॥ १३.३३.६ ॥

婆罗多族的雄牛啊,他修行苦行之时,因陀罗降下大雨,伴随闪电与雷鸣。

13.33.7

तत्र सप्ताहवर्षं तु मुमुचे पाकशासनः ।
निमीलिताक्षस्तद्वर्षं प्रत्यगृह्यत वै द्विजः ॥ १३.३३.७ ॥

在那里,惩罚帕迦的因陀罗降下七日之雨,那位再生者闭目承受了这雨。

13.33.8

तस्मिन्पतति वर्षे तु शीतवातसमन्विते ।
विशीर्णध्वस्तशिखरो वल्मीकोऽशनिताडितः ॥ १३.३३.८ ॥

当那场伴随寒风的雨落下时,被雷电击中的蚁丘顶部崩裂破碎了。

13.33.9

ताड्यमाने ततस्तस्मिन्वत्सनाभे महात्मनि ।
कारुण्यात्तस्य धर्मः स्वमानृशंस्यमथाकरोत् ॥ १३.३३.९ ॥

当那位大德之人被击打时,法神出于慈悲,显现了他自身的温和。

13.33.10

चिन्तयानस्य ब्रह्मर्षि तपन्तमतिधार्मिकम् ।
अनुरूपा मतिः क्षिप्रमुपजाता स्वभावजा ॥ १३.३३.१० ॥

那位正在沉思、修苦行的至法梵仙心中,很快生起一个与其本性相合的念头。

13.33.11

स्वं रूपं माहिषं कृत्वा मनोहरम् ।
रक्षार्थं वत्सनामस्य चतुष्पादुपरिस्थितः ॥ १३.३३.११ ॥

他化作自己迷人的水牛之形,站立在伐蹉那婆之上以守护他。

13.33.12

यदा त्वपगतं वर्षं वृष्टिवातसमन्वितम् ।
ततो महिषरुपेण धर्मो धर्मभृतांवर।
शनैर्वल्मीकमुत्सृज्य प्राद्रवद्भरतर्षभ ॥ १३.३३.१२ ॥

当雨与风停歇之后,法神以水牛之形,缓缓离开那蚁丘逃走了,哦,婆罗多族的雄牛。

13.33.13

स्थितेऽस्मिन्वृष्टिसम्पाते वीक्षते स्म महातपाः ।
दिशश्च विपुलास्तत्र गिरीणां शिखराणि च ॥ १३.३३.१३ ॥

雨势停歇之时,那位大苦行者环顾四方广阔之地与群山的山峰。

13.33.14

दृष्ट्वा च पृथिवीं सर्वां सलिलेन परिप्लुताम् ।
जलाशयान्स तान्दृष्ट्वा विप्रः प्रमुदितोऽभवत् ॥ १३.३३.१४ ॥

婆罗门看见整个大地被水淹没,又看见那些池塘湖泊,心中十分欢喜。

13.33.15

अचिन्तयद्विस्मितश्चि विप्रः प्रमुदितोऽभवत् ।
अचिन्तयद्विस्तितश्च वर्षात्केनाभिरक्षितः।
ततोऽपश्यत्स महिषमवस्थितमदूरतः ॥ १३.३३.१५ ॥

婆罗门惊讶地想,是谁使他免于雨淋?这时他看见不远处站着一头水牛。

13.33.16

तिर्यग्योनावपि कथं दृश्यते धर्मवत्सलः ॥ १३.३३.१६ ॥

即使在畜生之身,爱护法的人怎会如此显现!

13.33.17

अतो नु भद्रमहिषः शिलापट्टमवस्थितः ।
पीवरश्चैव बल्यश्च बहुमांसो भवेदयम् ॥ १३.३३.१७ ॥

因此这头好水牛站在石板之上;它必定肥壮,适合祭祀,肉多。

13.33.18

तस्य बुद्धिरियं जाता धर्मसंसक्तजा मुनेः ।
कृतघ्ना नरकं यान्ति ये च विश्वस्तघातिनः ॥ १३.३३.१८ ॥

这个念头在那位因热爱法而生的仙人心中升起:忘恩负义者与背弃信任者,都要堕入地狱。

13.33.19

निष्कृतिं नैव पश्यामि कृतघ्नानां कथञ्चन ।
क्रते प्राणिपरित्यागाद्धर्मज्ञानां वचो यथा ॥ १३.३३.१९ ॥

我看不到忘恩负义者有任何赎罪之道,唯有舍弃生命,正如知法者之言。

13.33.20

अकृत्वा भरणं पित्रोरदत्त्वा गुरुदक्षिणाम् ।
कृतघ्नतां च सम्प्राप्य मरणान्ता च निष्कृतिः ॥ १३.३३.२० ॥

若不奉养父母,不给师长酬礼,又陷于忘恩,其赎罪便只能以死告终。

13.33.21

आकाङ्क्षायामुपेक्षायां चोपपातकमुत्तमम् ।
तस्मात्प्राणान्परित्यक्ष्ये प्रायश्चित्तार्थमित्युत ॥ १३.३३.२१ ॥

因贪欲与疏忽而生的极重小罪;故我为赎罪将舍弃性命,他如此说道。

13.33.22

स मेरुशिखरं गत्वा निस्यङ्केनान्तरात्मना ।
प्रायश्चित्तं कर्तुकामः शरीरं त्यक्तुमुद्यतः।
निगृहीतश्च धर्मात्मा हस्ते धर्मेण धर्मवित् ॥ १३.३३.२२ ॥

他来到须弥山顶,以清净的内心,想要行赎罪之事,准备舍弃身体;那位善于守法、通晓达摩的人,依法握住他的手,将他阻止。

13.33.23

वत्सनाभ महाप्राज्ञ बहुवर्षशतायुष ।
परितुष्टोस्मि त्यागेन निस्सङ्गेन तथाऽऽत्मनः ॥ १३.३३.२३ ॥

瓦特萨纳跋啊,大智者,寿逾百年!我因你无染的舍弃,也因你对自我的舍弃,而深感欣慰。

13.33.24

एवं धर्मभृतः सर्वे विमृशन्ति कृताकृतम् ।
न कश्चिद्वत्सनाभस्य यस्य नोपहतं मनः ॥ १३.३३.२४ ॥

如此,所有持守达摩的人都会权衡已做与未做之事;却没有人能像瓦特萨纳跋那样,内心不受伤害。

13.33.25

यश्चानवद्यश्चरति शक्तो धर्मं च सर्वशः ।
निवर्तस्व महाप्राज्ञ् पूतात्मा ह्यसि शाश्वतः ॥ १३.३३.२५ ॥

凡行止无瑕、能全面守持法义者,请回转吧,大智者!你心性纯净,且是永恒的。