摩诃婆罗多 · 章 13.34
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.34.1
स्त्रीपुंसयोः सम्प्रयोगे स्पर्शः कस्याधिको भवेत् ।
एतस्मिन्संशये राजन्यथावद्वक्तुमर्हसि ॥ १३.३४.१ ॥
男女交合之时,谁的触感更为强烈?大王,您应当如实解答这一疑问。
13.34.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भङ्गास्वनेन शक्रस्य यथा वैरमभूत्पुरा ॥ १३.३४.२ ॥
此处人们也引用这段古老的历史,说明往昔因陀罗与婆迦斯婆那之间如何结下仇怨。
13.34.3
पुरा भङ्गास्वनो नाम राजर्षिरतिधार्मिकः ।
अपुत्रः पुरुषव्याघ्र पुत्रार्थं यज्ञमाहरत् ॥ १३.३४.३ ॥
往昔有一位名叫婆迦斯婆那的王仙,极为虔诚。人中虎啊,他没有子嗣,便为求子而举行祭祀。
13.34.4
अग्निष्टुतं स राजर्षिरिन्द्रद्विष्टं महाबलः ।
प्रायश्चित्तेषु मर्त्यानां पुत्रकामेषु चेष्यते ॥ १३.३४.४ ॥
那位大力王仙举行了因陀罗所憎恶的阿格尼斯图塔祭祀;希求子嗣的凡人在赎罪仪式中举行此祭。
13.34.5
इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः ।
अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः।
न चैवास्यान्तरं राजन्स ददर्श महात्मनः ॥ १३.३४.५ ॥
大福的诸神之主因陀罗知道了那场祭祀,便在那位自制其心的王仙身上寻找空隙;大王啊,然而他在那位大德身上竟找不到一丝空隙。
13.34.6
कस्य चित्त्वथ कालस्य मृगयां गतवान्नृपः ।
इदमन्तरमित्येव शक्रो नृपममोहयत् ॥ १३.३४.६ ॥
其后某时,国王外出狩猎,因陀罗心想“这正是空隙”,便迷惑了国王。
13.34.7
एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः ।
न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा ॥ १३.३४.७ ॥
被因陀罗迷惑的王仙,独自骑着一匹马,饥渴交迫,此时竟辨不清方向。
13.34.8
इतश्चेतश्च धावन्वै श्रमतृष्णार्दितो नृप ।
सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा ॥ १३.३४.८ ॥
国王啊,他疲惫干渴,四处奔跑,看见一片极为美丽、盛满上好清水的湖泊。
13.34.9
सोऽवगाह्य सरस्तात पाययामास वाजिनम् ॥ १३.३४.९ ॥
孩子,他入湖沐浴后,让马饮水。
13.34.10
अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः ।
अवगाह्य ततः स्नातस्तत्र स्त्रीत्वमवाप्तवान् ॥ १३.३४.१० ॥
之后,这位最优秀的国王让马饮水,将其拴在树上,入湖沐浴,就在那里变成了女身。
13.34.11
आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः ।
चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः ॥ १३.३४.११ ॥
看见自己已变成女身,这位最优秀的国王感到羞愧;他全身被忧虑所笼罩,感官与心识都陷入混乱。
13.34.12
आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम् ।
इष्टेनाग्निष्टुता चापि पुत्राणां शतमौरसम् ॥ १३.३४.१२ ॥
“我怎样才能骑上马?怎样才能回到城中?”他虽有百子,皆由自身所生,经祭祀与火供赞颂而得,却仍哀叹。
13.34.13
जातं महाबलानां मे तान्प्रवक्ष्यामि किन्नवहम् ।
दारेषु चात्मकीयेषु पौरजानपदेषु च ॥ १३.३४.१३ ॥
关于我那些大力之子的诞生,我又该如何向他们述说呢?在我的妻子们之中、在我的亲族之中,在城市与乡村的百姓之中也都(传开了)。
13.34.14
मृदुत्वं च तनुत्वं च पराधीनत्वमेव च ।
हासभावादि लावण्यं स्त्रीगुणाद्वा कुतूहलम्।
स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः ॥ १३.३४.१४ ॥
柔软、纤细、依赖他人、欢笑及类似的情态、姿容之美,或由女性之德而生的好奇——见法之真谛与义理的仙人宣说,这些便是女人的德性。
13.34.15
व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः ॥ १३.३४.१५ ॥
勤勉用力、刚毅坚硬与勇力——这些便是男子的德性。
13.34.16
पौरुषं विप्रनष्टं स्त्रीत्वं केनापि मेऽभवत् ।
स्त्रीभावात्पुनरश्वं तं कथमारोढुमुत्सहे ॥ १३.३४.१६ ॥
我的男子气概已全然丧失,因某种缘故,我竟成了女身。如今以女子之身,我怎敢再骑上那匹马?
13.34.17
महता त्वथ खेदेन आरुह्याश्वं नराधिपः ।
पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तमः। ॥ १३.३४.१७ ॥
孩子啊!那时,他以极大的苦恼骑上那匹马,这位人主、诸王中最尊贵者,便以女身返回了城中。
13.34.18
पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते ।
किन्न्विदं त्विति विज्ञाय विस्मयं परमं गताः ॥ १३.३४.१८ ॥
诸子、妻妾、侍从,以及城中与乡间的百姓,得知此事后,便说“这是什么?”,于是陷入了极大的惊异。
13.34.19
अथोवाच स राजर्षिः स्त्रीभूतो वदतांवरः ।
मृगयामस्मि निर्यातो बलैः परिवृतो दृढम्।
उद्भान्तः प्राविशं घोरामटवीं दैवमोहितः ॥ १३.३४.१९ ॥
那位化为女身的王仙,言辞最为出众,说道:我被军队紧紧围护,出外狩猎;迷失方向,为天命所惑,我进入了那片可怕的森林。
13.34.20
अटव्यां च सुघोंरायां तृष्णार्तो नष्टचेतनः ।
सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् ॥ १३.३४.२० ॥
在那片极其可怕的森林里,我被干渴折磨,神志昏乱,看见一片极其美丽、布满飞鸟的湖泊。
13.34.21
तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः ।
अतृप्त एव पुत्राणां दाराणां च धनस्य च ॥ १३.३४.२१ ॥
我在那里沐浴,明显是因天命而变为女身,毫无疑问;我对儿子、妻子和财富仍不知满足。
13.34.22
नामगोत्राणि चाभाव्य दाराणां मन्त्रिणां तथा ।
आह पुत्रांस्ततः सोऽथ स्त्रीभूतः पार्तिवोत्तमः।
सम्प्रीत्या भुज्यतांराज्यं वनं यास्यामि पुत्रकाः ॥ १३.३४.२२ ॥
于是,他又念及妻子和大臣的名字与族姓,那位化为女身的最优秀国王对诸子说:亲爱的儿子们,你们要怀着爱意享用王国;我将前往森林。
13.34.23
स पुत्राणां शतं राजा अभिषिच्य वनं गतः ।
गत्वा चैवाश्रमं सा तु तापसं प्रत्यपद्यत ॥ १३.३४.२३ ॥
那位国王为一百个儿子举行灌顶之后前往森林;而她来到修行处,遇到了一位苦行者。
13.34.24
तापसेनास्य पुत्राणामाश्रमेष्वभवच्छतम् ।
अथ साऽऽदाय तान्सर्वान्पूर्वपुत्रानभाषत ॥ १३.३४.२४ ॥
借助那位苦行者,他在修行处生下了一百个儿子;然后她带着他们所有人,对先前的儿子们说话。
13.34.25
पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः ।
एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः ॥ १३.३४.२५ ॥
在男身之中你们是儿子,在女身之中这一百人是儿子。诸子啊,以兄弟之情共同享有此王国吧。
13.34.26
सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा ॥ १३.३४.२६ ॥
于是那些兄弟同心共同享有王国。
13.34.27
तान्दृष्ट्वा भातृभावेन भुञ्जानान्राज्यमुत्तमम् ।
चिन्तयामास देवेन्द्रो मन्युनाऽथ परिप्लुतः।
उपकारोऽस्य राजर्षेः कृतो नापकृतं मया ॥ १३.३४.२७ ॥
见他们以兄弟之情享有这殊胜的王国,被愤怒充满的天神之王思忖道:“我未曾施恩于这位王仙,也未曾加害于他。”
13.34.28
ततो ब्राह्मणरुपेण देवराजः शतक्रतुः ।
भेदयामास तान्गत्वा नगरं वै नृपात्मजान् ॥ १३.३४.२८ ॥
于是天神之王舍脂俱胝以婆罗门之身来到城中,离间了那些王子。
13.34.29
भ्रातृणां नास्ति सौभ्रात्रं येऽप्येकस्य पितः सुताः ।
कश्यपस्य सुराश्चैव असुराश्व सुतास्तथा। ॥ १३.३४.२९ ॥
即使是同一父亲所生的兄弟,也没有兄弟之情;迦叶波之子诸天神与阿修罗亦是如此。
13.34.30
राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः ।
यूयं भङ्गास्वनापत्यास्तापसस्येतरे सुताः। ॥ १३.३४.३० ॥
为了王国,迦叶波之子诸天神与阿修罗相互争讼。你们已经分裂,且无后嗣;其余的儿子属于那位苦行者。
13.34.31
युष्माकं भेदितास्ते तु युद्धेऽन्योन्यमपातयन् ।
तच्छ्रुत्वा तापसी चापि संतप्ता प्ररुरोद ह ॥ १३.३४.३१ ॥
你们之中分裂的他们在战斗中相互击倒。苦行女闻之,悲痛不已,也放声大哭。
13.34.32
ब्राह्मणच्छद्मनाऽभ्येत्य तामिन्द्रोऽथान्वपृच्छत ।
केन दुःखेन संतप्ता रोदिषि त्वं वरानने ॥ १३.३४.३२ ॥
因陀罗化作婆罗门来到她面前,问道:“美颜的女子啊,你因何悲痛而哭泣?”
13.34.33
ब्राह्म्णं तं ततो दृष्ट्वा सा स्त्री करणमब्रवीत् ।
पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते ॥ १३.३४.३३ ॥
那女子看见婆罗门,便说明缘由:“婆罗门啊,我的两百个儿子已被时间夺去了。”
13.34.34
अहं राजाऽभव विप्र तत्र पूर्वं शतं मम ।
समुत्पन्नं सुरूपाणां पुत्राणां ब्राह्मणोत्तम ॥ १३.३४.३४ ॥
婆罗门啊,我从前曾在那里做国王,我生有一百个俊美的儿子,婆罗门中的最优秀者啊。
13.34.35
कदाचिन्मृगयां यात उद्धान्तो गहने वने ।
अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम ॥ १३.३४.३५ ॥
有一次我去打猎,在茂密的森林里迷了路;我潜入一个湖中,婆罗门中的最优秀者啊,我就变成了女人。
13.34.36
पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः ॥ १३.३४.३६ ॥
我安置好儿子们治理王国后,便进入了森林。
13.34.37
स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना ।
आश्रमे जनितं ब्रह्मन्नीतं तन्नगरं मया ॥ १३.३४.३७ ॥
我的妻子在修行处由那位伟大的苦行者生下了一百个儿子。婆罗门啊,那座城我带走了。
13.34.38
तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज ।
एतच्छोचाम्यहं ब्रह्मन्दैवेन समभिप्लुता ॥ १३.३४.३८ ॥
时运流转,他们之间产生了仇恨,婆罗门啊。我为此哀叹,被命运所困。
13.34.39
इन्द्रस्तां दुःशितां दृष्ट्वा अब्रवीत्परुषं वचः ॥ १३.३४.३९ ॥
因陀罗见她痛苦,便说出了严厉的话。
13.34.40
पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् ।
इन्द्रद्विष्टेन यजता मामनाहूय धिष्ठितम्।
इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते पातितं मया ॥ १३.३४.४० ॥
从前,善良的女子啊,你给我造成了难以忍受的痛苦。那位敌视因陀罗的祭主未召请我便擅自占据了座位。我是因陀罗,愚蠢的女子,你的仇恨是我所打倒的。
13.34.41
इन्द्रं दृष्ट्वा तु राजर्षिः पादयोः शिरसा गतः ।
प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः।
इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि ॥ १३.३४.४१ ॥
王仙见到因陀罗,便以头叩其足下。最优秀的三十天神啊,请息怒。那场祭祀是为求子嗣而举行的。天神中的猛虎啊,请在那里宽恕我。
13.34.42
प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ ॥ १३.३४.४२ ॥
因陀罗因他的叩拜而满意,便赐予了恩惠。
13.34.43
पुत्रास्ते कतमे राजञ्जीवन्त्वेतत्प्रचक्ष्व मे ।
स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् ॥ १३.३४.४३ ॥
啊,国王,请告诉我,你的哪些儿子应当存活:是那些生于已化为女身者的,还是那些生于男子的?
13.34.44
तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः ।
स्त्रीभूतस्य हि ये पुत्रास्ते मे जीवन्तु वासव ॥ १३.३४.४४ ॥
于是那位苦行女合掌对因陀罗说:啊,婆娑婆,愿那些生于已化为女身者的儿子——我的儿子们——存活。
13.34.45
इन्द्रस्तु विस्मितो दृष्ट्वा स्त्रियं पप्रच्छ तां पुनः ।
पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव ॥ १३.३४.४५ ॥
因陀罗惊讶地看着那女子,又问她:那些生于男子的你的儿子,你怎么会厌恶他们?
13.34.46
स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम् ।
कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ॥ १३.३४.४६ ॥
你对那些生于已化为女身者的人,为何情爱更深?我想听其中的缘由;你应当在此告诉我。
13.34.47
स्त्रियास्त्वभ्यधिकः स्नेहो न तता पुरुषस्य वै ।
तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै ॥ १३.३४.४७ ॥
女子的情爱超过男子;男子则不然。因此,啊,舍迦罗,愿那些生于被变为女身者的人存活。
13.34.48
एवमुक्तस्ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह ।
सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि ॥ १३.३४.४८ ॥
因陀罗被如此询问,欣然说道:啊,诚实的女子,愿你所有的儿子都在此存活。
13.34.49
वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत ।
पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसे ॥ १३.३४.४९ ॥
王中之王啊,持善愿者,你所求的恩赐,请从我这里选择:你渴望的是男性还是女性。
13.34.50
स्त्रीत्वमेव वृणे शक्र पुंस्त्वं नेच्छामि वासव ।
एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह ॥ १३.३४.५० ॥
帝释啊,我选择女性;我不愿要男性,婆娑啊。被这样说后,天神之主回答了那位女子。
13.34.51
पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो ।
एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः ॥ १३.३४.५१ ॥
威严者啊,舍弃男性,你怎么反而喜欢女性?被这样问后,已成女身的那位王中最优者回答道。
13.34.52
स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा ।
एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् ॥ १३.३४.५२ ॥
与男子结合时,女子总有更大的喜悦。因此,帝释啊,我选择女性。
13.34.53
रमाभि चाधिकं स्त्रीत्वे सत्यं वै देवसत्तम ।
स्त्रीभावेन हि तुष्यामि गम्यतां त्रिदशाधिप ॥ १३.३४.५३ ॥
天神中的最优者啊,我在女性中确实更加喜悦。我以女性之身便已满足。三十天之主啊,你去吧。
13.34.54
एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः ।
एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते ॥ १३.३४.५४ ॥
他说“就这样吧”,与她告别后便升天而去。大王啊,因此人们说女子的喜悦更大。