Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.36.1

चित्तं मे दूयते तात लोके परमविन्दतः ॥ १३.३६.१ ॥

亲爱的父亲,我的心在世间感到痛苦,因为我未能找到至高者。

13.36.2

अशाश्वतमिदं सर्वं जगत्स्थावरजङ्गमम् ।
क्रते नारायणं पुण्यं प्रतिभाति पितामह ॥ १३.३६.२ ॥

这整个世界,静止与运动之物,都是无常的;在克利塔时代,唯有圣洁的那罗延显现,祖父啊。

13.36.3

नारायणो हि विश्वात्मा पुरुषः पुष्करेक्षणः ।
तस्यास्य देवकीसूनोः श्रुतं कृत्स्नं त्वयाऽनघ ॥ १३.३६.३ ॥

那罗延确是宇宙之灵,莲花眼的原人;无垢者啊,关于那位德瓦吉之子的一切,你都已听闻。

13.36.4

युधिष्ठिर महाप्राज्ञ मया दृष्टं च सङ्गरे ॥ १३.३६.४ ॥

般度之子坚战啊,大智者,我也曾在战场上亲眼见过。

13.36.5

त्वत्त एव तु राजेन्द्र राजधर्माश्च पुष्कलाः ।
श्रुतं पुराणमखिलं नारदेन निवेदितम्।
गुह्यं नारायणाख्यानं त्रिविधक्लेशनाशनम् ॥ १३.३६.५ ॥

诸王之主啊,我从你那里听到了许多王法;我也听完了那伽罗陀所述的全部古老往世书,以及能消除三种苦恼的秘密那罗延故事。

13.36.6

एकान्तिधर्मनियमाः समासव्यासकल्पिताः ।
कथिता वै महाभाग त्वया वै मदनुग्रहात् ॥ १३.३६.६ ॥

大福者啊,你出于对我的慈悲,确实讲述了那些或简或详的一心法则。

13.36.7

लोकरक्षणकर्तृत्वं तस्यैव हरिमेधसः ।
आतिथेयविधिश्चैव तपांसि नियमाश्च ये ॥ १३.३६.७ ॥

守护世界的职责属于那位哈里梅达斯;待客之道、苦行与戒律亦然。

13.36.8

वेदवादप्रसिद्धाश्च वाजपेयादयो मखाः ।
यज्ञा द्रविणनिष्पाद्या अग्निहोत्रानुपालिताः ॥ १३.३६.८ ॥

吠陀论说中著名的祭祀,如婆阇裴耶祭;以财富完成、以祠火供奉维持的诸祭。

13.36.9

जपयज्ञाश्च विविधा ब्राह्मणानां तपस्विनाम् ।
एकादशविधाः प्रोक्ता हविर्यज्ञा द्विजातिनाम् ॥ १३.३६.९ ॥

婆罗门与苦行者的念诵祭多种多样;再生族的供物祭被宣说为十一种。

13.36.10

तेषां फलविशेषाश्च उञ्छधर्मास्तथैव च ।
अहन्यहनि ये प्रोक्ता महायज्ञा द्विजातिनाम् ॥ १३.३६.१० ॥

它们特有的果报与拾穗之法亦是如此;再生族每日所说的大祭。

13.36.11

वेदश्रवणधर्माश्च ब्रह्मयज्ञफलं तथा ।
वेदव्रतविधानं च नियमाश्चैव वैदिकाः ॥ १३.३६.११ ॥

闻吠陀之法与梵祭之果亦是如此;吠陀誓戒之仪轨与吠陀之戒律亦然。

13.36.12

स्वाहा स्वधा प्रणीते च इष्टापूर्तफलं तथा ।
उत्तरोत्तरसेवायामाश्रमाणां च यत्फलम् ॥ १३.३६.१२ ॥

念诵“娑訶”与“娑陀”、所备供物之中,祭祀与布施之果亦是如此;而逐级侍奉各住期所得之果。

13.36.13

प्रत्येकशश्च निष्ठायामाश्रमाणां महामते ।
मासपक्षोपवासानां सम्यगुक्तफलं च यत् ॥ १३.३६.१३ ॥

大智者啊,各个阶段在修持中的果报,以及月与半月禁食所得的果报,都已被完整宣说。

13.36.14

अनाशितानां ये लोका ये च पञ्चतपा नराः ।
वीराध्वानं प्रपन्नानां या गतिश्चाग्निहोत्रिणाम् ॥ १३.३६.१४ ॥

不食者的诸世界,行五火苦行之人的诸世界,已达英雄之道者的去处,以及行火祭者的去处。

13.36.15

ग्रीष्मे पञ्चतपानां च शिशिरे जलचारिणाम् ।
वर्षे स्थण्डिलशायीनां फलं यत्परिकीर्तितम् ॥ १३.३६.१५ ॥

夏季行五火苦行者、冬季居于水中者、雨季睡在裸地上者,所得之果报已被宣说。

13.36.16

लोके चक्रचराणां च द्विजानां यत्फलं स्मृतम् ।
अन्नादीनां च दानानां यत्फलं परिकीर्तितम् ॥ १३.३६.१६ ॥

在世间如乞食般游行的再生者所应得的果报,以及施舍食物等布施所得的果报,皆已被宣说。

13.36.17

सर्वतीर्थाभिषिक्तानां नराणां च फलोदयः ।
राज्ञां धर्माश्च ये लोके सम्यक्पालयतां प्रजाः ॥ १३.३६.१७ ॥

在一切圣渡处受灌顶之人所得果报的兴起,以及世间善护民众之王者的法。

13.36.18

ये च सत्यव्रता लोके ये तीर्थे कृतश्रमाः ।
मातापितृपरा ये च गुरुवृत्तीश्च संश्रिताः ॥ १३.३६.१८ ॥

世间守持真实誓愿者,在圣渡处精勤修行者,奉养父母者,以及依止师长之行者。

13.36.19

गोब्राह्मणपरित्राणे राष्ट्रातिक्रमणे तथा ।
त्यजन्त्यभिमुखाः प्राणान्निर्भयाः सत्वमाश्रिताः ॥ १३.३६.१९ ॥

那些在保护牛与婆罗门、抵抗侵犯国土之时,面对敌人、无所畏惧、依凭内在坚定(sattva)而舍弃性命的人。

13.36.20

सहस्रदक्षिणानां च या गतिर्वदनां वर ।
ये च संध्यामुपासन्ते सम्यगुक्ता महाव्रताः ॥ १३.३६.२० ॥

最优秀的人啊,关于那些布施千份酬金者、行晨昏(sandhyā)礼拜者、以及依法受持大誓者所得之归趣,人们如此述说。

13.36.21

तथा योगविधानं च यद्ग्रन्थेष्वभिशब्दितम् ।
वेदाद्याः श्रुतयश्चापि श्रुता मे गुरुसत्तम ॥ १३.३६.२१ ॥

此外,典籍中所宣说的瑜伽之法,以及以吠陀为首的天启圣典,我都已听闻,哦,最优秀的导师。

13.36.22

सिद्धान्तनिर्णयाश्चापि द्वैपायनमुखोद्गताः ।
श्रुताः पञ्च महायज्ञा येषु सर्वं प्रतिष्ठितम् ॥ १३.३६.२२ ॥

我也听闻了从二岛仙(Dvaipāyana,即毗耶娑)口中宣说的教义定论,以及一切都所立足的五大祭祀。

13.36.23

तत्प्रभेदेषु ये धर्मास्तेऽपि वै कृत्स्नशः श्रुताः ।
न च दूषयितुं शक्याः सद्भिरुक्ता हि ते तथा ॥ १३.३६.२३ ॥

其中各分支所含的法(dharma),我也已全部听闻。它们不可加以非议,因为善人正是这样宣说的。

13.36.24

एतेषां किल धर्माणामुत्तमो वैष्णवो विधिः ।
रक्षते भगवान्विष्णुर्भक्तमात्मशरीरवत् ॥ १३.३६.२४ ॥

在这些法中,最高的规则是毗湿奴派(Vaiṣṇava)之道:世尊毗湿奴守护他的信徒,就如同守护自己的身体。

13.36.25

कर्मणो हि कृतेस्येह कामितस्य द्विजोत्तम ।
फलं ह्यवश्यं भोक्तव्यमृषिर्द्वैपायनोऽब्रवीत् ॥ १३.३६.२५ ॥

最优秀的再生者啊,此世所作所求之业,其果报必定要承受,黑岛仙人如是说。

13.36.26

भोगान्ते चापि पतनं गतिः पूर्वं प्रभाषिता ।
न मे प्रीतिकरास्त्वेते विषोदर्का हि मे मताः ॥ १३.३६.२६ ॥

享乐终了之时的坠落与归宿,前面已经说过;这些并不令我欢喜,我认为它们的果报如毒药一般。

13.36.27

वधात्कृष्टतरं मन्ये गर्भवासं महाद्युते ।
दिष्टान्ते यानि दुःखानि पुरुषो विन्दते विभो।
ततः कष्टतराणीह गर्भवासे हि विन्दति ॥ १३.३६.२७ ॥

大光明者啊,我认为住在胎中比死亡更加痛苦。主啊,人在命定期限之末所受的苦,比起他在胎中所受的更为剧烈的苦,又算得了什么。

13.36.28

ततश्चाभ्याधिकां तीव्रां वेदनां लभते नरः ।
गर्भापक्रमणे तात कर्मणासुपसर्पणे ॥ १३.३६.२८ ॥

此后,人在离开胎中之时,会遭受极其剧烈的痛楚,亲爱的父亲;业力使生命之气来临之时,也是如此。

13.36.29

तस्मान्मे निश्चयो जातो धर्मेष्वेतेषु भारत ।
तदिच्छामि कुरुश्रेष्ठ त्वत्प्रसादान्महामते।
तं धर्मं चेह वेत्तुं वै यो जराजन्ममृत्युहा ॥ १३.३६.२९ ॥

因此,婆罗多啊,我对这些法已经有了决断。俱卢之最优秀者,大智慧的人啊,蒙你恩典,我想知道那能灭除衰老、出生与死亡的法。

13.36.30

येनोष्णदा वैतरणी असिपत्रवनं च तत् ।
कुण्डानि चाग्नितप्तानि क्षुरधारापथस्तथा।
शाल्मलीं च महाघोरामायसीं घोरकण्टकाम् ॥ १३.३६.३० ॥

那里有炽热的吠多蓝尼河、那片剑叶林、被火烧热的深坑、剃刀刃之路,以及长满铁刺的可怕的娑摩梨树。

13.36.31

मातापितृकते चापि सुहृन्मित्रार्थकारणात् ।
आत्महेतोश्च पापानि कृतानीह नरैश्च यैः।
तेषां फलोदयं कष्टमृषिर्द्वैपायनोऽब्रवीत् ॥ १३.३६.३१ ॥

人们为了父母、为了朋友同盟和财富、也为了自己而在此所犯的罪恶,其果报的痛苦显现,这是仙人二岛所宣说的。

13.36.32

कुम्भीपाकप्रदीप्तानां शूलार्तानां च क्रन्दताम् ।
रौरवे क्षिप्यमाणानां प्रहारैर्मथितात्मनाम् ॥ १३.३६.३२ ॥

那些在金布巴卡大锅中燃烧、被刺杆折磨、哭号、被投入啸叫地狱、身体被击打碾碎的人。

13.36.33

स्तनतामपकृत्तानां पिबतामात्मशोणितम् ।
तेषामेव प्रवदतां कारुण्यं नास्ति यन्त्रतः ॥ १३.३६.३३ ॥

那些被割裂而呻吟、饮自己鲜血的人,即使他们自己诉说,刑具对他们也毫无怜悯。

13.36.34

तृष्णाशुष्कोष्ठकण्ठानां विह्वलानामचेतसाम् ।
सर्वदुःखाभिभूतानां रुजार्तानां च क्रोशताम् ॥ १३.३६.३४ ॥

那些因口渴而嘴唇喉咙干枯、昏乱失神、被一切痛苦压倒、受病痛折磨而呼号的人。

13.36.35

वेदनार्ता हि क्रन्दन्ति पूरयन्तो दिशो दश ॥ १३.३६.३५ ॥

受病痛折磨的他们确实在哭喊,充满十方。

13.36.36

एकः करोति पापानि सहभोज्यानि बान्धवैः ।
तेषामेकः फलं भुङ्क्ते कष्टं वैवस्वते गृहे ॥ १३.३६.३६ ॥

一人造作罪业,同食之亲属共享其果;然而其中唯有一人在阎摩之家受苦。

13.36.37

येन नैतां गतिं गच्छेन्न विण्मूत्रास्थिपिच्छिले ।
विष्ठामूत्रकृमीमध्ये बहुजन्तुनिषेविते ॥ १३.३६.३७ ॥

使人不致陷入此境:在粪便、尿液、骨骼与淤泥之中,在粪尿与蛆虫之间,在众多生灵聚集之地。

13.36.38

को गर्भवासात्परतो नरकोऽन्यो विधीयते ।
यत्र वासकृतो योगः कुक्षौ वासो विधीयते ॥ १३.३६.३८ ॥

在胎中居住之外,还有何种地狱被规定?那里因居住而有结合,腹中居住被规定。

13.36.39

जातो विस्तीर्णशोकः स्याद्भवेत विगतज्वरः ।
न चैष लभ्यते कामो जातमात्रं हि मानवम्।
आविशन्तीह दुःखानि मनोवाक्कायिकानि तु ॥ १३.३६.३९ ॥

人生而有广大之忧,或可免于热恼,然此愿不可得。人一出生,心、口、身之苦便随即侵入。

13.36.40

तैरस्वतन्त्रो भवति पीड्यमानो भयानकैः ।
तैर्गर्भवासं गच्छति अवशो जायते तथा ॥ १३.३६.४० ॥

人被那些可怖之苦所逼迫,便不得自主;因之而入胎中居住,如是无力自主地出生。

13.36.41

अवशश्चेहते जन्तुर्व्रजत्यवश एव हि ।
जरसा रूपविध्वंसं प्राप्नोत्यवश एव तु ॥ १३.३६.४१ ॥

众生无力而勤作,亦无力而行去;因衰老而至形貌之毁坏——实乃无力。

13.36.42

शरीरभेदमाप्नोति जीर्यतेऽवश एव तु ।
एवं ह्यनियतो मृत्युर्भवत्येव सदा नृषु ॥ १३.३६.४२ ॥

身体终将败坏,人无力自主地衰老。如此,人间的死亡总是不可预知的。

13.36.43

गर्भेषु म्रियते कश्चिज्जायमानस्तथाऽपरः ।
जाता म्रियन्ते बहवो यौवनस्थास्तथाऽपरे।
मध्यभावे तु नश्यन्ति स्थविरो मृत एव तु ॥ १३.३६.४३ ॥

有人死于胎中,有人在出生时死去。已出生者中许多人死亡;处于青年和中年者也会消亡。老者早已如同死者。

13.36.44

को जन्मनो नोद्विजते स्वयम्भूरपि यो भवेत् ।
कुतस्त्वस्मद्विधस्तात मरणस्य वशानुगः ॥ १३.३६.४४ ॥

谁因出生而不惊惧,即使是自生的梵天?亲爱的,像我们这样受死亡支配的人,怎能不恐惧?

13.36.45

नित्याविष्टो भयेनाहं मनसा कुरुसत्तम ।
मुहूर्तमप्यहं शर्म न विन्दामि महामते ॥ १३.३६.४५ ॥

库鲁族中最优秀的人啊,我的心中时时被恐惧所攫住。大智慧者啊,即使一刻,我也找不到安宁。

13.36.46

कालात्मनि तिरोभूतो नित्यं तद्गुणवर्जितः ।
अन्नैर्बहुविधैः पुष्टं वस्त्रैर्नानाविधैर्वृतम् ॥ १३.३६.४६ ॥

隐藏于时间之我中,恒常不具其性质,以种种美食滋养,以种种衣物覆盖。

13.36.47

चन्दनागरुदिग्धाङ्गं मणिमुक्ताविभूषितम् ।
यानैर्बहुविधैर्यातमेकान्तेनैव लालितम् ॥ १३.३६.४७ ॥

身涂檀香与沉香,以宝石与珍珠装饰,乘坐种种车乘而行,独自被悉心娇养。

13.36.48

यौवनोद्धतरूपाभिर्मन्दविह्वलगामिभिः ।
इष्टिभिरभिरामाभिर्वरस्त्रीभिरयन्त्रितम् ॥ १३.३६.४८ ॥

被青春焕发、步履缓慢而摇曳的美丽而可爱的上等女子所牵引而无法自制。

13.36.49

रमितं सुचिरं कालं शरीरममितप्रभम् ।
अवितृप्ता गमिष्यन्ति हित्वा प्राणांस्तथाऽपरे ॥ १३.३६.४९ ॥

这具光辉无量的身体长久地享受着欢乐;其他人也会舍弃生命之气,带着未满足而离去。

13.36.50

स्वर्गेऽप्यनियता भूतिस्तथैवाकाशसंश्रये ।
देवाऽप्यधिष्ठानवशास्तस्माद्देवं न कामये ॥ १३.३६.५० ॥

即使在天堂,福禄也是不定的;依托于虚空也是如此。诸神也受其居所所束缚,因此我不愿成为神。

13.36.51

कामानां नास्त्यधिष्ठानमकामस्तु निवर्तते ।
लोकसङ्ग्रहधर्मास्तु सर्व एव न संशयः ॥ १३.३६.५१ ॥

欲望没有根基,而无欲者便会回头。维系世界的法则确实都在其中,这毫无疑问。

13.36.52

डोलासधर्मा धर्मज्ञ ऋषिर्द्वैपायनोऽब्रवीत् ।
अस्मात्को विषमं दुःखमारोहेत विचक्षणः ॥ १३.३६.५२ ॥

知法的仙人二生说,(人生)如同秋千;那么,哪位有智慧的人会从此攀上艰难的苦难呢?

13.36.53

विद्यमाने समे मार्गे डोलाधर्मविवर्जिते ।
को ह्यात्मानं प्रियं लोके डोलासाधर्म्यतांनयेत् ॥ १३.३६.५३ ॥

既有不摇摆、平坦的正道,世上谁会把自己所珍爱的自我引向如秋千般摇摆不定的境地呢?

13.36.54

चराचरैः सर्वभूतैर्गन्तव्यमविशङ्कया ।
अस्माल्लोकात्परं लोकमपाथेयमदैशिकम्।
घोरं तमः प्रवेष्टव्यमत्रातारमबान्धवम् ॥ १३.३६.५४ ॥

一切动与不动的众生,都必须毫不迟疑地从此世走向彼世,没有路粮,没有向导,进入可怕的黑暗,无人庇护,无亲可依。

13.36.55

ये तु तं किल धर्मज्ञा धर्मं नारायणेरितम् ।
अनन्यमनसो दान्ताः स्मरन्ति नियतव्रताः ॥ १३.३६.५५ ॥

然而,知法者以专一之心、自律并坚守誓愿,忆念那由那罗延所宣说的法。

13.36.56

ततस्तेनैव पश्यन्ति प्राप्नुव्ति परं पदम् ।
रक्षते भगवान्विष्णुर्भक्तानात्मशरीरवत् ॥ १३.३६.५६ ॥

于是,他们借此法而见,得到至上之位。世尊毗湿奴守护其信徒,如守护自己的身体。

13.36.57

कुलालचक्रप्रतिमे भ्राम्यमाणेषु जन्तुषु ।
मातापितृसहस्राणि सम्प्राप्तानि मया गुरो ॥ १३.३६.५७ ॥

众生如陶轮般旋转之时,老师啊,我已经历了数千位母亲与父亲。

13.36.58

स्नेहापन्नेन पीतास्तु मातॄणां विविधाः स्तलाः ॥ १३.३६.५८ ॥

我怀着眷恋之情,饮尽了众母的种种乳汁。

13.36.59

पुत्रदारसहस्राणि इष्टानिष्टशतानि च ।
प्राप्तान्यधिष्ठानवशादतीतानि तथैव च।
न क्वचिन्न सुखं प्राप्तं न क्वचिच्छाश्वती स्थितिः ॥ १३.३६.५९ ॥

数千子女与妻室,数百顺逆之事,由所居之境所得,又如是消逝。何处也未得安乐,何处也未得常住之境。

13.36.60

स्थानैर्महद्भिर्विभ्रंशो दुःखलब्धैः पुनः पुनः ।
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम्।
अध्वगानामिव पथि च्छायामाश्रित्य सङ्गमः ॥ १३.३६.६० ॥

从艰难获得的高位上,一次又一次地跌落,财富也随之丧失;即便是艰难得来的财富也会失去。如同行路的旅人在树荫下相聚,这种相会便是如此。

13.36.61

एवं कर्मवशो लोको ज्ञातीनां हितसङ्गमः ।
विश्रम्य च पुनर्याति कर्मभिर्दर्शितां गतिम् ॥ १३.३६.६१ ॥

如此,世界受业力支配,亲人的善意相聚也是如此。休息之后,人又依自己的业所指示的去路前行。

13.36.62

एतदीदृशकं दृष्ट्वा ज्ञात्वा चैव समागमम् ।
को न बिभ्येत्कुरुश्रेष्ठ विष्ठान्नस्येव भोजनात् ॥ १३.३६.६२ ॥

库鲁的俊杰啊!见到这样的情形,知晓这样的相聚,谁会不害怕呢?就像人害怕吃污秽之物一样。

13.36.63

बुद्धिश्च मे समुत्पन्ना वैष्णवे धर्मविस्तरे ।
तदेष शिरसा पादौ गतोऽस्मि भगवंस्तव।
शरणं च प्रपन्नोऽस्मि गन्तव्ये शरणे ध्रुवे ॥ १३.३६.६३ ॥

我心中已生起关于毗湿奴法的广大教义的智慧;因此,尊者啊,我以头顶礼您的双足。我已投奔您的庇护,那是应当到达的坚定庇护。

13.36.64

जन्ममृत्युजराखिन्नस्त्रिभिर्दुःखैर्निपीडितः ।
इच्छामि भवता त्रातुमेभ्यस्त्वत्तो महामते।
तस्याद्य युगधर्मस्य श्रवणात्कुरुपुङ्गव ॥ १३.३६.६४ ॥

我为生、死、老所困,被三种苦所逼迫。大智者啊,我希望由您使我脱离这些。库鲁的雄牛啊,今日听闻那时代的法,我愿如此。

13.36.65

एतदाद्ययुगोद्भूतं त्रेतायां तत्तिरोहितम् ।
स एव धर्ममखिलमृषिर्द्वैपायनोऽब्रवीत् ॥ १३.३६.६५ ॥

此法起于初始之世,在特雷塔时代隐没,圣者二生(广博仙)已完整宣说了全部法。