Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.37.1

सदृशं राजशार्दूल वृत्तस्य च कुलस्य च ॥ १३.३७.१ ॥

王中猛虎啊,这既符合你的品行,也符合你的家族。

13.37.2

को राज्यं विपुलं गृह्य स्फीताकारं पुनर्महत् ।
निर्जितारातिसामन्तं देवराज्योपमं सुखम् ॥ १३.३७.२ ॥

谁获得了广大而繁盛的王国,敌人与属国都已被征服,能享有如同天神之国的幸福?

13.37.3

राज्ये राज्यगुणा ये च तान्व्युदस्य नराधिप ।
दोषं पश्यति राजेन्द्र देहेऽस्मिन्पाञ्चभौतिके ॥ १३.३७.३ ॥

人主啊,即使舍弃王权中的王者之德,王中之王啊,人们仍会在这由五大所成的身体中看到过失。

13.37.4

अतिक्रान्तास्त्वया राजन्वृत्तेन प्रपितामहाः ।
धर्मो विग्रहवान्धीरो विदुरश्च महायशाः ॥ १३.३७.४ ॥

国王啊,你的曾祖辈因其德行而逝去,化身为法的人、坚毅的毗杜罗,以及大名之人也都已逝去。

13.37.5

सञ्जयश्च महातेजा ये चान्ये दिव्यदर्शनाः ।
प्रवृत्तज्ञानसम्पन्नास्तत्वज्ञानविदो नृप ॥ १३.३७.५ ॥

大光辉的桑迦耶,以及其他具有天眼、精通已发生之事之知、通晓真理之智的人啊,国王。

13.37.6

तेऽतिक्रान्ता महाराज ब्रह्माद्याः ससुरासुराः ।
अनित्यं दुःखसंतप्तं जगदेतन्न संशयः ॥ १३.३७.६ ॥

大王啊,他们都已逝去,梵天等诸神与阿修罗皆然。此世无常,为苦所逼,此中无疑。

13.37.7

एवमेतान्महाबाहो ब्रह्माद्यान्ससुरासुरान् ।
अनित्यान्सततं पश्य मनुष्यादिषु का कथा ॥ १३.३७.७ ॥

大臂者啊,如此应永远视梵天等及诸天、阿修罗为无常,何况人类等呢?

13.37.8

नित्यां तु प्रकृतीमाह याऽसौ प्रसवधर्मिणी ।
अरूपिणीमनिर्देश्यामकृतां पुरुषातिगाम् ॥ १३.३७.८ ॥

然而他所说的是永恒的自性(Prakṛti),其本性是生成之性:无形、不可言说、非作、超越补鲁沙。

13.37.9

तामत्यन्तसुखां सौम्यां निर्वाणमिति संज्ञिताम् ।
आहुर्ब्रह्मर्षयो ह्याद्यां भुवि चैव महर्षयः ॥ १३.३७.९ ॥

人们称之为极乐、寂静、名为涅槃者;梵仙与大仙在世间称她为原初者。

13.37.10

तया पुरुषरूपिण्या धर्मप्रकृतिकोऽनघ ।
स यात्येव हि निर्वाणं यत्तत्प्रकृतिसंज्ञितम् ॥ १३.३७.१० ॥

无罪者啊,以那具人形的她,怀有法性者必定抵达那名为自性的涅槃。

13.37.11

स एष प्राकृतो धर्मो भ्राजत्यादियुगे नृप ।
विकारधर्माः शेषेषु युगेषु भरतर्षभ।
भ्राजन्तेऽभ्यधिकं वीर संसारपथगोचराः ॥ १३.३७.११ ॥

大王啊,那原始之法在初始时代光辉显现;在其余时代则有变化之法。婆罗多之杰、英雄啊,行于轮回之道者更加显耀。

13.37.12

प्रकृतीनां च सर्वासामकृता प्रकृतिः स्मृता ।
एवं प्रकृतिधर्मा हि वरां प्रकृतिमाश्रिता ॥ १३.३७.१२ ॥

在一切自性之中,被称为不作之自性;如此具自性之法者,便依止于殊胜的自性。

13.37.13

पश्यन्ति परमां लोके दृष्टादृष्टानुदर्शिनीम् ।
सत्वादियुगपर्यन्ते त्रेतायुगसमुद्भवे ॥ १३.३७.१३ ॥

世人视其为至上,它追随可见与不可见之物,于以萨埵为始的诸时代之末,生于特利塔时代。

13.37.14

कामं कामयमानेषु ब्राह्मणेषु तिरोहितः ।
कुपथेषु तु धर्मेषु प्रादुर्भूतेषु कौरव।
जातो मन्दप्रचारो हि धर्मः कलियुगे नृप ॥ १३.३७.१४ ॥

在贪求欲望的婆罗门之中,它随意隐没;当歧途之法兴起时,俱卢之子啊,法在迦利时代以微弱之势而生,王啊。

13.37.15

नित्यस्तु पुरुषो ज्ञेयो विश्वरूपो निरञ्जनः ।
ब्रह्माद्या अपि देवाश्च यं सदा पर्युपासते ॥ १३.३७.१५ ॥

应当认识那永恒的原人,其形遍及一切,无染无垢;连以梵天为首的诸神也常常敬奉他。

13.37.16

तं च नारायणं विद्धि परं ब्रह्मेति शाश्वतम् ।
तत्कर्म कुरु कायेन ध्यायस्व मनसा च तम् ॥ १३.३७.१६ ॥

当知那那罗延即是至上永恒的梵;以身体行那事,以心念冥想他。

13.37.17

कीर्तयस्व च तन्नाम वाचा सर्वत्र भूपते ।
तत्पदं प्राप्नुहि प्राप्यं शाश्वतं चापुनर्भवम् ॥ १३.३७.१७ ॥

以言语到处颂扬他的名号,大地之主啊;证得那可证得的、永恒而不再轮回的境界。

13.37.18

इत्येतद्विष्णुमाश्रित्य संसारग्रहमोक्षणम् ।
कथितं ते महाबाहो किं भूयः श्रोतुमिच्छसि ॥ १३.३७.१८ ॥

如此依靠毗湿奴,已经为你讲述了从轮回之擒中解脱的道理。大臂者啊,你还想再听什么?