Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.39

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.39.1

अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव हि ।
एताभ्यामीश्वरं विन्द्यादूर्ध्वस्रोतस्तथैव च ॥ १३.३९.१ ॥

在向下之流、在创造之中,以及在横向之流中;由这两者当知主宰,同样也由向上之流而知。

13.39.2

कर्मेन्द्रियाणां पञ्चानामीश्वरो बुद्धिगोचरः ।
बुद्धीन्द्रियाणामपि तु ईश्वरो मन उच्यते ॥ १३.३९.२ ॥

五业根之主宰是觉智所及之境;而五知根之主宰也称为意。

13.39.3

मनसः पञ्चभूतानि सगुणान्याहुरीश्वरम् ।
भूतानामीश्वरं विद्याद्ब्रह्माणं परमेष्ठिनम् ॥ १३.३९.३ ॥

由意所生,连同其德性的五大元素,被称为主宰;众生的主宰应当被认作至尊之座的梵天。

13.39.4

भवान्हि कुशलश्चैव धर्मेष्वेषु परेषु वै ।
कालाग्निरह्नः कल्पान्ते जगद्दहति चांशुभिः ॥ १३.३९.४ ॥

您确实精通这些至上的法则;在劫末,白昼之时,时间之火以其光芒焚烧世界。

13.39.5

ततः सर्वाणि भूतानि स्थावराणि चराणि च ।
महाभूतानि दग्धानि स्वां योनिं गमितानि वै ॥ १३.३९.५ ॥

于是一切众生,无论静止还是运动,以及大元素,都被焚毁,回到了它们自己的本源。

13.39.6

कूर्मपृष्ठनिभा भूमिर्निर्दग्धकुशकण्टका ।
निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा ॥ १३.३९.६ ॥

大地如龟背,吉祥草与荆棘皆已焚尽,无树无草,那时被时间之火焚烧。

13.39.7

जगत्प्रलीनं जगति जगच्चापि प्रलीयते ।
नष्टिगन्धा तदा सूक्ष्मा जलमेवाभवत्तदा ॥ १३.३९.७ ॥

世界消融,世界之中的世界亦消融。此时气味灭尽,唯余微细之水。

13.39.8

ततो मयूखजालेन सूर्यस्त्वापीयते जलम् ।
रसात्मा लीयते चार्के तथा ब्राह्मणसत्तम ॥ १३.३९.८ ॥

此时太阳以光线之网也吸尽水分;婆罗门中最优者啊,以味为本性的水便融入太阳之中。

13.39.9

अन्तरिक्षगतान्भूतान्प्रदहत्यनलस्तदा ।
अग्निभूतं तदा व्योम भवतीत्यभिचक्षते ॥ १३.३९.९ ॥

此时火焰焚烧住在虚空中的众生;此时虚空便化为火,人们如此说。

13.39.10

तं तथा विस्फुरद्वह्निं वायुर्जरयते महान् ।
महता बलवेगेन आदत्ते तं हि भानुमान् ॥ १३.३९.१० ॥

那熊熊之火被大风消磨;以巨大的力量与速度,太阳果然将它吸纳。

13.39.11

वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा ।
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत् ॥ १३.३९.११ ॥

当虚空连风的触性也吞没之时,风便平息;而虚空则静静存续,不发声响。

13.39.12

तस्य तं निनदं शब्दमादत्ते वै मनस्तदा ।
स शब्दगुणहीनात्मा तिष्ठते मूर्तिमांस्तु वै ॥ १३.३९.१२ ॥

此时意识领受其回响之声;那失去声音之德的本性,仍以有形之身存留。

13.39.13

भुङ्क्ते च स तदा व्योम मनस्तात दिगात्मकम् ।
व्योमात्मनि विनष्टे तु सङ्कल्पात्मा विवर्धते ॥ १३.३९.१३ ॥

那时他吞食虚空,亲爱的意,其性为方位。虚空之我灭尽时,由意志构成的我便增长。

13.39.14

सङ्कल्पात्मानमादत्ते चित्तं वै स्वेन तेजसा ।
चित्तं ग्रसत्यहङ्कारस्तदा वै मुनिसत्तम ॥ १३.३९.१४ ॥

意以其自身光辉摄取由意志构成的我。那时,圣者中最上者,我慢吞噬意。

13.39.15

विनष्टे च तदा चित्ते अहङ्कारोऽभवन्महान् ।
अहङ्कारं तदादत्ते महान्ब्रह्मा प्रजापतिः ॥ १३.३९.१५ ॥

意灭尽时,大我慢便生起。那时,大生主梵天摄取我慢。

13.39.16

अभिमाने विनष्टे तु महान्ब्रह्मा विराजते ।
तं तदा त्रिषु लोकेषु मूर्तिष्वेवाग्रमूर्तिजम् ॥ १३.३९.१६ ॥

我慢灭尽时,大梵天显现。那时,在三界中,于诸形相之中,他被视为从最初之形所生者。

13.39.17

येन विश्वमिदं कृत्स्नं निर्मितं वै गुणार्थिना ।
मूर्तं जलेचरमपि व्यवसायगुणात्मकम्।
ग्रसिष्णुर्भगवान्ब्रह्मा व्यक्ताव्यक्तमसंशयम् ॥ १३.३९.१७ ॥

此一切世界由彼所造,因欲求诸德而造,乃至有形之物与水中行者,其性为精进与德性。世尊梵天无疑将吞没显现与未显现者。

13.39.18

एषोऽव्ययस्य प्रलयो मया ते परिकीर्तितः ।
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ॥ १३.३९.१८ ॥

不灭者之坏灭,我已为你宣说。今且听内我、外物与天神。

13.39.19

आकाशं प्रथमं भूतं श्रोत्रमध्यात्मं शब्दोधिभूतं दिशोधिदैवतं ॥ १३.३९.१९ ॥

虚空是第一大元素;听觉属内(adhyātma);声音属外(adhibhūta);方位属天神(adhidaivata)。

13.39.20

वायुर्द्वितीयं भूतं त्वगध्यात्मं स्पर्शोधिभूतं विद्युदधिदैवतं स्यात् ॥ १३.३९.२० ॥

风是第二大元素;皮肤属内(adhyātma);触觉属外(adhibhūta);闪电属天神(adhidaivata)。

13.39.21

ज्योतिस्तृतीयं भूतं चक्षुरध्यात्मं रूपमधिभूतं सूर्योधिदैवतं स्यात् ॥ १३.३९.२१ ॥

光是第三大元素;眼睛属内(adhyātma);色相属外(adhibhūta);太阳属天神(adhidaivata)。

13.39.22

आपश्चतुर्थं भूतं जिह्वाध्यात्मं रसोधिभूतं वरुणोधिदैवतं स्यात् ॥ १३.३९.२२ ॥

水是第四大元素;舌属内(adhyātma);味属外(adhibhūta);伐楼那属天神(adhidaivata)。

13.39.23

पृथिवी पञ्चमं भूतं ध्राणमध्यात्मं गन्धोधिभूतं वायुरधिदैवतं स्यात् ॥ १३.३९.२३ ॥

地是第五大元素;鼻属内(adhyātma);香属外(adhibhūta);风属天神(adhidaivata)。

13.39.24

पाञ्चभौतिकमेतच्चतुष्टयं वर्णितम्। अत ऊर्ध्वमिन्द्रियमनुवर्णयिष्यामः ॥ १३.३९.२४ ॥

此由五大所成的四分已经叙述。此后我们将依次叙述诸根。

13.39.25

पादावध्यात्मं गन्तव्यमधिभूतं विष्णुरधिदैवतं स्यात् ॥ १३.३९.२५ ॥

双脚是内在(身体)方面,行走是其作用,外在元素方面是所踏之地,主宰之神是毗湿奴。

13.39.26

हस्तावध्यात्मं कर्तव्यमधिभूतमिन्द्रोऽधिदैवतं स्यात् ॥ १३.३९.२६ ॥

双手是内在(身体)方面,行动是其职责,外在元素方面是所持之物,主宰之神是因陀罗。

13.39.27

पायुरध्यात्मं विसर्गोऽधिभूतं मित्रोऽधिदैवतं स्यात् ॥ १३.३९.२७ ॥

排泄器官是内在(身体)方面,排泄是外在元素方面,主宰之神是密特拉。

13.39.28

उपस्थोऽध्यात्ममानन्दोऽधिभूतं प्रजापतिरवधिदैवतं स्यात्। ॥ १३.३९.२८ ॥

生殖器官是内在(身体)方面,喜乐是外在元素方面,主宰之神是生主。

13.39.29

वागध्यात्मं वक्तव्यमधिभूतमग्निरधिदैवतं स्यात् ॥ १३.३९.२९ ॥

言语是内在(身体)方面,言说是其作用,外在元素方面是所说之物,主宰之神是阿耆尼。

13.39.30

मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रमा अधिदैवतं स्यात् ॥ १३.३९.३० ॥

意是内在(身体)方面,思考是其作用,外在元素方面是所思之物,主宰之神是月亮。

13.39.31

अहङ्कारोऽध्यात्ममभिमानोऽधिभूतं विरिञ्चोऽधिदैवतं स्यात्। ॥ १३.३९.३१ ॥

我慢(ahaṅkāra)属内(adhyātma),自负(abhimāna)属物(adhibhūta),毗梨孔遮(Viriñca)属神(adhidaivata)。

13.39.32

बुद्धिरध्यात्मं व्यवसायोऽधिभूतं ब्रह्माधिदैवतं स्यात् ॥ १३.३९.३२ ॥

觉(buddhi)属内(adhyātma),决断(vyavasāya)属物(adhibhūta),梵天(Brahmā)属神(adhidaivata)。

13.39.33

एवमव्यक्तो भगवान्सकृत्कृत्स्नान्कुरुते सम्हरते च। कस्मात्क्रीडार्थम् ॥ १३.३९.३३ ॥

如是,无显之世尊一次性创造并收回一切世界。为何?为了游戏(krīḍā)。

13.39.34

यथाऽऽदित्योंऽशुजालं क्षिपति सम्हरते च एवमव्यक्तो गुणान्सृजति सम्हरते च ॥ १३.३९.३४ ॥

如日轮放出光网又收回,如是无显者生起并收摄诸德(guṇa)。

13.39.35

यथाऽर्णवादूर्मिमालानिच यश्चोर्ध्वमुत्तिष्ठते सम्हरते च ।
यथा चान्तरिक्षादभ्रमाकाशमुत्तिष्ठति स्तनितगर्जितोन्मिश्रं तद्वत्तत्रैव प्राणशत्।
एवमव्यक्तो गुणान्सृजति सम्हरति च ॥ १३.३९.३५ ॥

如海中波浪之环升起又平息,如天空中雷鸣轰响之云涌起,如是生命之气(prāṇa)在彼处运行。如是无显者生起并收摄诸德。

13.39.36

यथा कूर्मोऽङ्गानि कामात्प्रसारयते पुनश्च प्रवेशयति एवमव्यक्तो भगवान्लोकान्प्रकाशयति प्रवेशयते च ॥ १३.३९.३६ ॥

如龟随意伸展肢体又收回,如是无显世尊令诸世界显现,又使之没入。

13.39.37

एवं चेतनश्च भगवान्पञ्चविंशः शुचिस्तेनाधिष्ठिता प्रकृतिश्चेतयति नित्यं सहधर्मा च। भगवतोऽव्यक्तस्य क्रियावतोक्रियावतश्च प्रकृतिः क्रियावानजरामरः क्षेत्रज्ञो नारायणाख्यः पुरुषः ॥ १३.३९.३७ ॥

如是,具有觉知的世尊是第二十五原理,清净。受其主宰的自性恒常唤起觉知,并与其同性。未显现的世尊之自性既有作用又无作用;有作用的自性即不老不死的知场者,名为那罗延的补鲁沙。

13.39.38

इत्येतन्नारदायोक्तं कुमारेण च धीमता ।
एतच्छ्रुत्वा द्विजो राजन्सर्वयज्ञफलं लभेत् ॥ १३.३९.३८ ॥

如是此语由智慧的童子对那罗陀所说。大王,闻此者,再生者即得一切祭祀之果。