Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.4.1

एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः ।
अतिष्ठदेकपादेन वर्षाणां शतमच्युतः ॥ १३.४.१ ॥

摩current 被如此告知后,心志收束、誓戒坚定的摩檀伽单足而立,岿然不动,历时百年。

13.4.2

तमुवाच ततः शक्रः पुनरेव महायशाः ।
ब्राह्मण्यं दुर्लभं तात प्रार्थयानो न लप्स्यसे ॥ १३.४.२ ॥

于是名声显赫的帝释天再次对他说:「孩子,婆罗门的地位难以获得;你即便祈求,也不会得到。」

13.4.3

मतङ्ग परमं स्थानं प्रार्थयन्विनशिष्यसि ।
मा कृथाः साहसं पुत्र नैष धर्मपथस्तव ॥ १३.४.३ ॥

摩檀伽啊,你若求取至高之位,必将毁灭。孩子,不要做这种鲁莽之事;这不是你的法道。

13.4.4

विमार्गतो मार्गमाणः सर्वथा नभविष्यसि ।
न हि शक्यं त्वया प्राप्तुं ब्राह्मण्यमिह दुर्मते।
अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि ॥ १३.४.४ ॥

你以歪门邪道寻求正途,终究不会成功。愚昧的人啊,婆罗门之境你在此世无法获得;追求不可得之物,你很快就会毁灭。

13.4.5

मतङ्ग परमं स्थानं वार्यमाणोऽसकृन्मया ।
चिकीर्षस्येव तपसा सर्वथा नभविष्यसि ॥ १३.४.५ ॥

摩檀伽啊,我屡次阻止你追求至高之位,你仍想以苦行成就它;但你终究不会成功。

13.4.6

तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति ।
स जायते पुल्कसो वा चण्डालो वाऽप्यसंशयः ॥ १३.४.६ ॥

凡出生于畜生之胎的人,若再得人身,无疑会生为补尔迦娑或旃陀罗。

13.4.7

पुल्कसः पापयोनिर्वा यः कश्चिदिह लक्ष्यते ।
स तस्यामेव सुचिरं मतङ्ग परिवर्तते ॥ १३.४.७ ॥

凡在此显现为罪生或补尔迦萨者,会在那一状态中长久轮转。

13.4.8

ततो दशशते काले लभते शूद्रतामपि ।
शूद्रयोनावपि ततो बहुशः परिवर्तते ॥ १३.४.८ ॥

此后经过极长时间,他甚至得到首陀罗之身,并在首陀罗生中多次轮转。

13.4.9

ततस्त्रिंशद्गणे काले लभते वैश्यतामपि ।
वैश्यतायां चिरं कालं तत्रैव परिवर्तते।
ततः षष्टिगुणे काले राजन्यो नाम जायते ॥ १३.४.९ ॥

此后经过三十倍的时间,他甚至得到吠舍之身,在吠舍之中长久轮转于彼处。此后经过六十倍的时间,他以刹帝利(王族)之名而生。

13.4.10

ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् ।
ब्रह्मबन्धुश्चिरं कालं ततस्तु परिवर्तते ॥ १३.४.१० ॥

此后经过六十倍的时间,他得到婆罗门眷属(徒有婆罗门之名者)的状态,在其中久住,然后再次轮转。

13.4.11

ततस्तु द्विशते काले लभते काण्डपृष्ठताम् ।
काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते ॥ १३.४.११ ॥

此后经过二百倍的时间,他得到“坎达普里什塔”(卑贱者)之身,并以此身在彼处久久轮转。

13.4.12

ततस्तु त्रिशते काले लभते जपतामपि ।
तं च प्राप्य चिरं कालं तत्रैव परिवर्तते ॥ १३.४.१२ ॥

此后经过三百倍的时间,他甚至得到念诵祷词者的状态,得到之后在彼处久久轮转。

13.4.13

ततश्चतुःशते काले श्रोत्रियो नाम जायते ।
श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते ॥ १३.४.१३ ॥

此后经过四百个时代,生一名叫室罗德利耶的婆罗门。作为室罗德利耶,他长久停留在原处。

13.4.14

तदेवं शोकहर्षौ तु कामद्वेषौ च पुत्रक ।
अतिमानातिवादौ च प्रविशेते द्विजाधमम् ॥ १३.४.१४ ॥

如此,我的儿子,悲伤与喜悦、欲望与憎恶、过度的骄慢与过度的多言,这两者都进入那卑劣的婆罗门之中。

13.4.15

तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम् ।
अथ ते वै जयन्त्येनं तालं पक्वमिवापतेत् ॥ १३.४.१५ ॥

若他胜过那些敌人,那时便获得善趣。但若他们胜过他,他便像成熟的棕榈果一样坠落。

13.4.16

मतङ्ग सम्प्रधार्यैवं यदहं त्वामचूचुदम् ।
वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् ॥ १३.४.१६ ॥

摩당伽,我经如此思量后才劝导你。现在你可随意另选一物,因为婆罗门身份极难获得。