摩诃婆罗多 · 章 13.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.40.1
आत्मन्यग्नौ समाध्नाय य एते कुरुनन्दन ।
द्विजातयो व्रतोपेता जपयज्ञपरायणाः ॥ १३.४०.१ ॥
库鲁之喜,这些将火安立于自我之中、持守誓愿、专注于念诵祭祀的再生者——
13.40.2
यजन्त्यारम्भयज्ञैश्च मानसं यज्ञमास्थिताः ।
अग्निभ्यश्च परं नास्ति येषामेषोऽव्यवस्थितः ॥ १३.४०.२ ॥
以发端之祭行祭、依托心意之祭、认为无物高于火祭,而其道尚未确定的人——
13.40.3
तेषां गतिर्महाप्राज्ञ कीदृशी किम्पराश्च ते ।
एतदिच्छामि तत्वेन त्वत्तः श्रोतुं पितामह ॥ १३.४०.३ ॥
他们的归宿如何?大智的祖父啊,他们专注于何种至高目标?我想从您这里如实听闻此事。
13.40.4
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
वैकुण्ठस्य च संवादं सुपर्णस्य च भारत ॥ १३.४०.४ ॥
婆罗多之子啊,我在此为你讲述一段古老的历史:毗湿奴(Vaikuṇṭha)与金翅鸟(Suparṇa)的对话。
13.40.5
अमृतस्य समुत्पत्तौ देवानामसुरैः सह ।
षष्टिवर्षसहस्राणि दैवासुरमवर्तत। ॥ १३.४०.५ ॥
甘露出现之时,诸神与阿修罗之间的战争持续了六万年。
13.40.6
तत्र देवास्तु दैतेयैर्वध्यन्ते भृशदारुणैः ।
त्रातारं नाधिगच्छन्ति वध्यमाना महासुरैः ॥ १३.४०.६ ॥
在那里,诸神被极其凶猛的提帝耶人所杀;被大阿修罗所击杀,却找不到保护者。
13.40.7
आर्तास्ते देवदेवेशं प्रपन्नाः शरणैषिणः ।
पितामहं महाप्राज्ञं वध्यमानाः सुरेतरैः ॥ १३.४०.७ ॥
他们痛苦不堪,前往求助于诸神之主、大智慧的祖父,因为他们正被阿修罗杀害。
13.40.8
ता दृष्ट्वा देवता ब्रह्मा सम्भ्रान्तेन्द्रियमानसः ।
वैकुण्ठं शरणं देवं प्रतिपेदे च तैः सह ॥ १३.४०.८ ॥
梵天见到他们,心神与感官皆惊乱,便与他们一同向毗湿奴神寻求庇护。
13.40.9
ततः स देवैः सहितः पद्मयोनिर्नरेश्वर ।
तुष्टाव प्राञ्जलिर्भूत्वा नारायणमनामयम् ॥ १३.४०.९ ॥
于是,莲花所生的梵天与诸神一同,合掌赞颂无垢的那罗延天。帝王啊。
13.40.10
त्वद्रूपचिन्तनान्नाम्नां स्मरणादर्चनादपि ।
तपोयोगादिभिश्चैव श्रेयो यान्ति मनीषिणः ॥ १३.४०.१० ॥
冥想你的形相,忆念你的名号,乃至礼拜,以及苦行、瑜伽等修行,智者便得至上的善果。
13.40.11
भक्तवत्सल पद्माक्ष परमेश्वर पापहन् ।
परमात्माऽविकाराद्य नारायण नमोंस्तु ते ॥ १३.४०.११ ॥
慈爱信徒者、莲花眼者、至尊主、除罪者、最高我、无变易的本初者,那罗延天,愿向你致敬。
13.40.12
नमस्ते सर्वलोकादे सर्वात्मामितविक्रम ।
सर्वभूतभविष्येश सर्वभूतमहेश्वर ॥ १३.४०.१२ ॥
敬礼你,一切世界的本始,一切之我,力量无量者,一切过去与未来众生的主宰,一切众生的大自在天。
13.40.13
देवानामपि देवस्त्वं सर्वविद्यापरायणः ।
जगद्वीजसमाहार जगतः परमो ह्यसि ॥ १३.४०.१३ ॥
你是诸神之中的神,专注于一切知识。你是聚集世界种子的,你确实是世界的至上者。
13.40.14
त्रायस्व देवता वीर दानवाद्यैः सुपीडिताः ।
लोकांश्च लोकपालांश्च ऋषींश्च जयतांवर ॥ १३.४०.१४ ॥
英雄啊,请保护被檀那婆等人严重折磨的诸神;也请保护世界、世界守护者和仙人,胜利者中的至尊啊。
13.40.15
वेदाः साङ्गोपनिषदः सरहस्याः ससङ्ग्रहाः ।
सोङ्काराः सवषट्काराः प्राहुस्त्वां यज्ञमुत्तमम् ॥ १३.४०.१५ ॥
吠陀连同其支分与奥义书、秘义与汇编,连同唵与呗,称你为至上的祭祀。
13.40.16
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ।
तपस्विनां तपश्चैव दैवतं देवतास्वपि ॥ १३.४०.१६ ॥
清净中的清净,吉祥中的吉祥;苦行者的苦行,诸神之中你也是神明。
13.40.17
एवमादिपुरस्कारैर्ऋक्सामयजुषां गणैः ।
वैकुण्ठं तुष्टुवुर्देवाः सर्वे ब्रह्मर्षिभिः सह ॥ १३.४०.१७ ॥
以如此的前导敬礼,连同梨俱、娑摩、夜柔的众,以及梵仙,诸神都赞颂了吠孔陀。
13.40.18
ततोऽन्तरिक्षे वागासीन्मेघगम्भीरनिस्वना ।
जेष्यध्वं दानवान्यूयं मयैव सह सङ्गरे ॥ १३.४०.१८ ॥
于是天空中响起一个如雷云般深沉的声音:“你们将与我一同在战斗中战胜檀那婆。”
13.40.19
ततो देवगणानां च दानवानां च युध्यताम् ।
प्रादुरासीन्महातेजाः शार्ङ्गचक्रगदाधरः ॥ १३.४०.१९ ॥
那时,诸神与檀那婆交战之际,出现了大光明者,手持弓Śārṅga、轮与棍棒。
13.40.20
सुपर्णपृष्ठमास्थाय तेजसा प्रदहन्निव ।
व्यधमद्दानवान्सर्वान्बाहुद्रविणतेजसा ॥ १३.४०.२० ॥
他骑在迦鲁达的背上,仿佛以光辉焚烧一般,凭借双臂的威力之光,击倒了所有檀那婆。
13.40.21
तं समासाद्य समरे दैत्यदानवपुङ्गवाः ।
व्यनश्यन्त महाराज पतङ्गा इव पावकम् ॥ १३.४०.२१ ॥
大王啊,在战场上接近他的,那些达伊提亚与檀那婆中的英豪,都如飞蛾扑火一般毁灭了。
13.40.22
स विजित्यासुरान्सर्वान्दानवांश्च महामतिः ।
पश्यतामेव देवानां तत्रैवान्तरधीयत ॥ १३.४०.२२ ॥
那位大智慧者战胜了所有阿修罗与檀那婆,就在诸神眼前,隐没于那里。
13.40.23
तं दृष्ट्वान्तर्हितं देवा विष्णुं देवामितद्युतिम् ।
विस्मयोत्फुल्लनयना ब्रह्माणमिदमब्रुवन् ॥ १३.४०.२३ ॥
诸神见无量光辉的毗湿奴已隐没,睁大惊异的眼睛,对梵天说了这些话。
13.40.24
भगवन्सर्वलोकेश सर्वलोकपितामह ।
इदमत्यद्भुतं वृत्तं तन्नः शंसितुमर्हसि ॥ १३.४०.२४ ॥
世尊啊,诸世界之主,诸世界之祖父,请您为我们讲述这件极为奇异的事。
13.40.25
दैवासुरेऽस्मिन्सङ्ग्रामे त्राता येन वयं विभो ।
एतद्विज्ञातुमिच्छामः कुतोसौ कश्च तत्वतः ॥ १३.४०.२५ ॥
啊,大能者!我们想要真正知道,在这场诸神与阿修罗之战中保护我们的那位是谁,他从何而来。
13.40.26
कोऽयमस्मान्परित्राय तूष्णीमेव यथागतम् ।
प्रतिप्रयातो दिव्यात्मा तं नः शंसितुमर्हसि ॥ १३.४०.२६ ॥
这位神圣的灵魂保护了我们,随后像来时一样悄然离去,他究竟是谁?你应当把他的事告诉我们。
13.40.27
एवमुक्तः सुरैः सर्वैर्वचनं वचनार्थवित् ।
उवाच पद्मनाभस्य पूर्वरूपं प्रति प्रभो ॥ १३.४०.२७ ॥
众神如此询问之后,通晓言辞之义者谈起了莲花脐者的往昔形相,啊,主啊。
13.40.28
न ह्येनं वेद तत्वेन भुवनं भुवनेश्वरम् ।
सङ्ख्यातुं नैव चात्मानं निर्गुणं गुणिनां वरम् ॥ १३.४०.२८ ॥
其实无人真正知晓这位世界之主;他虽无属性,却是有属性者中最殊胜的,也无法被计数。
13.40.29
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
सुपर्णस्य च संवादमृषीणां चापि देवताः ॥ १३.४०.२९ ॥
在此我将为你讲述一段古老的传说——金翅鸟(迦卢荼)的对话,以及仙人与诸神的对话。
13.40.30
पुरा ब्रह्मर्षयश्चैव सिद्दाश्च भुवनेश्वरम् ।
आश्रित्य हिमवत्पृष्ठे चक्रिरे विविधाः कथाः ॥ १३.४०.३० ॥
往昔,梵仙与成就者们皈依世界之主,在喜马拉雅山脊上讲述了种种故事。
13.40.31
तेषां कथयतां तत्र कथान्ते पततां वरः ।
प्रादुरासीन्महातेजा वाहश्चक्रगदाभृतः ॥ १३.४०.३१ ॥
当他们在那里讲故事时,故事结束时,飞禽中最优秀的、持轮与杵者(毗湿奴)的坐骑、大光明者出现了。
13.40.32
स तानृषीन्समासाद्य विनयावनताननः ।
अवतीर्य महावीर्यस्तानृषीनभिजग्मिवान् ॥ १३.४०.३२ ॥
那位大勇者走近那些仙人,面容因谦卑而低垂,下来走向他们。
13.40.33
अभ्यर्चितः स ऋषिभिः स्वागतेन महाबलः ।
उपाविशत तेजस्वी भूमौ वेगवतां वरः ॥ १३.४०.३३ ॥
受到仙人的欢迎致敬,那位大力而光辉、迅捷者中的最优秀者坐在地上。
13.40.34
तमासीनं महात्मानं वैनतेयं महाद्युतिम् ।
ऋषयः परिपप्रच्छुर्महात्मानस्तपस्विनः ॥ १३.४०.३४ ॥
那些大德的苦行仙人向坐着的大德、大光明的毗娜提耶(迦卢达)仔细发问。
13.40.35
कौतूहलं वैनतेय परं नो हृदि वर्तते ।
तस्य नान्योस्ति वक्तेह त्वामृते पन्नगाशन ॥ १३.४०.३५ ॥
毗娜提耶啊,我们心中对此有极大的好奇;此处除你之外,没有别人能讲述,噬蛇者啊。
13.40.36
तदाख्यातमिहेच्छामो भवता प्रश्नमुत्तमम् ।
एवमुक्तः प्रत्युवाच प्राञ्जलिर्विनतासुतः ॥ १३.४०.३६ ॥
我们希望在此听你回答那个优秀的问题。被这样问及后,毗娜塔之子合掌回答。
13.40.37
धन्योस्म्यनुगृहीतोस्मि यन्मां ब्रह्मर्षिसत्तमाः ।
प्रष्टव्यं प्रष्टुमिच्छन्ति प्रीतिमन्तोऽनसूयकाः ॥ १३.४०.३७ ॥
我何其有幸、蒙受恩典,因为你们这些婆罗门仙人中最杰出者,怀着慈爱而无嫉妒,愿意向我提问。
13.40.38
किं मया ब्रूत वक्तव्यं कार्यं च वदतां वराः ।
यूयं हि मां यथायुक्तं सर्वं वै प्रष्टुमर्हथ ॥ १३.४०.३८ ॥
辩才中最杰出者,我该说什么,该做什么?你们确实有资格依礼向我提出一切问题。
13.40.39
नमस्कृत्वा ह्यनन्ताय ततस्त ऋषिसत्तमाः ।
प्रष्टुं प्रचक्रमुस्तत्र वैनतेयं महाबलम् ॥ १३.४०.३९ ॥
于是那些贤者中的翘楚,向无尽者致敬之后,便在那里开始向大力的毗娜达之子提问。
13.40.40
देवदेवं महात्मानं नारायणमनामयम् ।
भवानुपास्ते वरदं कुतोऽसौ कश्च तत्वतः ॥ १३.४०.४० ॥
神中之神、大心、无瑕的那罗延,赐恩的主——你所崇拜的他,从何而来?他究竟是谁?
13.40.41
प्रकृतिर्विकृतिर्वाऽस्य कीदृशी क्वनु संस्थितिः ।
एतद्भवन्तं पृच्छामो देवोऽयं क्व कृतालयः ॥ १३.४०.४१ ॥
他的本性或显现是怎样的?他安住于何处?这是我们要问你的:这位神将居所安置在何处?
13.40.42
एथ भक्तप्रियो देवः प्रियभक्तस्तथैव च ।
त्वं प्रियश्चास्य भक्तश्च नान्यः काश्यप विद्यते ॥ १३.४०.४२ ॥
这位神是他的信徒所钟爱的,而你也是他所钟爱的信徒。哦,迦叶波,他没有另一位像你这样的信徒。
13.40.43
मुष्णन्निव मनश्चक्षूंष्यविभाव्यतनुर्विभुः ।
अनादिमध्यनिधनो न विद्मैनं कुतो ह्यसौ ॥ १३.४०.४३ ॥
他仿佛夺走了心意与双眼,遍在者的形相不可辨识。他没有始、中、终。我们不认识他,也不知道他是怎样的。
13.40.44
वेदेष्वपि च विश्वात्मा गीयते न च विद्महे ।
तत्वतस्तत्वभूतात्मा विभुर्नित्यः सनातनः ॥ १३.४०.४४ ॥
即使在吠陀中,宇宙之我也被赞颂,但我们并未真正认识他。那遍在者、即真实本质的自我,是永恒而常住的。
13.40.45
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
गुणाश्चैषां यथासङ्ख्यं भावाभावौ तथैव च ॥ १३.४०.४५ ॥
地、风、空、水,以及第五的火。它们的属性依次排列,有与无也是如此。
13.40.46
तमः सत्वं रजश्चैव भावाश्चैव तदात्मकाः ।
मनो बुद्धिश्च तेजश्च बुद्धिगम्यानि तत्वतः।
जायन्ते तात तस्माद्धि तिष्ठते तेष्वसौ विभुः ॥ १३.४०.४६ ॥
暗性、善性与激性,以及同其本性的诸状态生起;心、觉与光明也依真实而可由智慧所知。亲爱的孩子,他从此并在其中而住。
13.40.47
सञ्चिन्त्य बहुधा बुद्ध्या नाध्यवस्यामहे परम् ।
तस्य देवस्य तत्वेन तन्नः शंस यथातथम् ॥ १३.४०.४७ ॥
我们以智慧多方思量,仍无法确定至上者。请如实地把那位神的真实本体告诉我们。
13.40.48
एतमेव परं प्रश्नं कौतूहलसमन्विताः ।
एवं भवन्तं पृच्छामस्तन्नः शंसितुमर्हसि ॥ १३.४०.४८ ॥
正是这至上之问,我们怀着好奇提出。因此我们向您请教;您理应为我们宣说。
13.40.49
स्थूलतो यस्तु भगवांस्तेनैव स्वेन हेतुना ।
त्रैलोक्यस्य तु रक्षार्थं दृश्यते रूपमास्थितः ॥ १३.४०.४९ ॥
那位世尊,因其自身缘故,以粗大之相显现,为了守护三界而现出形体。
13.40.50
मया तु महदाश्चर्यं पुरा दृष्टं सनातने ।
देवे श्रीवत्सनिलये तच्छृणुध्वमशेषतः ॥ १३.४०.५० ॥
往昔我在那具有室利婆迦(Śrīvatsa)标记之居所的永恒之神身上见过一桩大奇迹。请完整听我说。
13.40.51
न स्म शक्यो मया वेत्तुं न भवद्भिः कथञ्चन ।
यथा मां प्राह भगवांस्तथा तच्छ्रुयतां मम ॥ १३.४०.५१ ॥
此事我无法知晓,你们也无论如何不能知晓。请照世尊告诉我的那样,从我这里听。
13.40.52
मयाऽमृतं देवतानां मिषतामृषिसत्तमाः ।
हृतं विपाट्य तं यन्त्रं विद्राव्यामृतरक्षिणः ॥ १३.४०.५२ ॥
诸位最上的仙人!在诸神注视之下,我劈开那机关,夺取了不死甘露,并驱散了甘露的守护者。
13.40.53
देवता विमुखीकृत्य सेन्द्राः समरुतो मृधे ।
उन्मथ्याशु गिरींश्चैव विक्षोभ्य च महोदधिं ॥ १३.४०.५३ ॥
在战斗中使诸神与因陀罗及摩录多们败退,迅速拔起群山,搅动大海。
13.40.54
तं दृष्ट्वा मम विक्रान्तं वागुवाचाशरीरिणी ।
प्रीतोस्मि ते वैनतेय कर्मणाऽनेन सुव्रत।
अवृथा तेऽस्तु मद्वाक्यं ब्रूहि किं करवाणि ते ॥ १३.४०.५४ ॥
见我如此英勇,一个无形之声说道:‘维那多耶啊,持善誓者!我因这一行为而欢喜于你。愿我的话不致落空。说吧,我该为你做什么?’
13.40.55
तामेवंवादिनीं वाचमहं प्रत्युक्तवांस्तदा ।
ज्ञातुमिच्छामि कस्त्वं हि ततो मे दास्यसे वरम्।
प्रकृतिर्विकृतिर्वा त्वं देवो वा दानवोपि वा ॥ १३.४०.५५ ॥
我于是回答那说话的声音:我想知道你是谁,然后你将赐我恩典。你是本来的形态还是变化的形态,是天神还是檀那婆?
13.40.56
ततो जलदगम्भीरं प्रहस्य वदतांवरः ।
उंवाच वरदः प्रीतः काले त्वं माऽभिवेत्स्यसि ॥ १३.४०.५६ ॥
于是,最善言者、赐予恩典者以如云般深沉的声音笑着,欣然说道:时候到了,你自会知道。
13.40.57
वाहनं भव मे साधो वरं दद्मि तवोत्तमम् ।
न ते वीर्येण सदृशः कश्चिल्लोके भविष्यति ॥ १३.४०.५७ ॥
善者啊,你做我的坐骑吧;我赐你至高的恩典。世上将无人能与你的勇力相比。
13.40.58
पतङ्ग पततांश्रेष्ठ न देवो नापि दानवः ।
मत्सखित्वमनुप्राप्तो दुर्धर्षश्च भविष्यसि ॥ १३.४०.५८ ॥
飞鸟中最优秀的帕丹伽啊,你既非天神,也非檀那婆。获得我的友谊后,你将不可战胜。
13.40.59
तमब्रवं देवदेवं मामेवंवादिनं परम् ।
प्रयतः प्राञ्जलिर्भूत्वा प्रणम्य शिरसा विभुम् ॥ १३.४०.५९ ॥
对那说这些话的诸神之神、至高的遍在者,我恭敬合掌,低头顶礼,说道。
13.40.60
एवमेतन्महाबाहो सर्वमेतद्भविष्यति ।
वाहनं ते भविष्यामि यथा वदति मां भवान् ॥ १३.४०.६० ॥
大臂者啊,这一切都将如此实现。正如您对我所说,我将成为您的坐骑。
13.40.61
मम चापि महाबुद्धे निश्चयं श्रूयतामिति ।
ध्वजस्तेऽहं भविष्यामि रथस्थस्य न संशयः ॥ १३.४०.६१ ॥
大智慧者啊,也请听我的决心:站在车上的你,我将成为你的旗帜,此事无疑。
13.40.62
तथास्त्विति स मामुक्त्वा भूयः प्राह महामनाः ।
न ते गतिविघातोऽद्य भविष्यत्यमृतं विना ॥ १३.४०.६२ ॥
"就这样吧。"他对我说罢,这位大度者又说:"没有甘露,今日你的行进不会受到阻碍。"
13.40.63
एवं कृत्वा तु समयं देवदेवः सनातनः ।
मामुक्त्वा साधयस्वेति यथाऽभिप्रायतो गतः ॥ १३.४०.६३ ॥
立下这样的约定后,那位永恒的诸神之神对我说:"去完成它。"然后便依他的心意离去了。
13.40.64
ततोऽहं कृतसंवादो येन केनापि सत्तमाः ।
कौतूहलसमाविष्टः पितरं कश्यपं गतः ॥ १३.४०.६४ ॥
于是我完成了那番对话,诸位善人中的贤者啊,满怀好奇地前往父亲迦叶那里。
13.40.65
सोहं पितरमासाद्य प्रणिपत्याभिवाद्य च ।
सर्वमेतद्यथातथ्यमुक्तवान्पितुरन्तिके ॥ १३.४०.६५ ॥
我走近父亲,行礼问安,将这一切如实地在父亲面前说了出来。
13.40.66
श्रुत्वा तु भगवान्मह्यं ध्यानमेवान्वपद्यत ।
स मुहूर्तमिव ध्यात्वा मामाह वदतां वरः ॥ १३.४०.६६ ॥
他听了这些,便陷入禅定。片刻沉思之后,这位最善言者对我说道:
13.40.67
धन्योस्यनुगृहीतश्च यत्त्वं तेन महात्मना ।
संवादं कृतवांस्तात गुह्येन परमात्मना ॥ १३.४०.६७ ॥
孩子啊,你是有福的,并蒙那位大德的恩典,因为他与你进行了关于至上我的秘密对话。
13.40.68
स्थूलदृश्यः स भगवांस्तेन तेनैव हेतुना ।
दृश्यतेऽव्यक्तरूपस्थः प्रधानप्रभवाप्ययः ॥ १३.४०.६८ ॥
那位世尊因同样的缘故以粗显之相被看见,但他仍安住于未显现之相,是原质生起与消融的根源。
13.40.69
मया हि स महातेजा नान्ययोगसमाधिना ।
तपसोग्रेण तेजस्वी तोषितस्तपसांनिधिः ॥ १३.४०.६९ ॥
我并非以其他瑜伽定力,而是以严酷的苦行取悦了那位大光明者;他是一切苦行的宝藏。
13.40.70
ततो मे दर्शयामास तोषयन्निव पुत्रक ।
श्वेतपीतारुणनिभः कद्रूकपिलपिङ्गलः ॥ १३.४०.७० ॥
于是他向我显现,仿佛要使我欢喜,孩子啊:其色如白、黄、赤,犹如迦德卢所生之蛇的棕黄色。
13.40.71
रक्तनीलासितनिभः सहस्रोदरपाणिमान् ।
द्विसाहस्रमहावक्त्र एकाक्षः शतलोचनः ॥ १३.४०.७१ ॥
其色如赤、青、黑;他有千腹千手,二千大口,一目与百目。
13.40.72
अनिष्पन्दा निराहाराः समानाः सूर्यतेजसा ।
तमुपासन्ति परमं गुह्यमक्षरमव्ययम् ॥ १३.४०.७२ ॥
他们静止不动,绝食,与太阳的光辉相等,崇拜那至上、秘密、不灭、不坏者。
13.40.73
समासाद्य तु तं विश्वमहं मूर्ध्ना प्रणम्य च ।
ऋग्यजुःसामभिः स्तुत्वा शरण्यं शरणं गतः ॥ १३.४०.७३ ॥
我走近那宇宙之主,低头礼拜,以《梨俱》《夜柔》《娑摩》诸颂赞颂他,归依于这值得归依的主。
13.40.74
महामेघौघधीरेण स्वरेण जयतांवरः ।
आभाष्य पुत्रपुत्रेति इदमाह धृतं वचः ॥ १३.४०.७४ ॥
以如大云雷鸣般沉稳的声音,胜利者中最杰出者呼唤道:「孩子,孩子」,并说出了这些审慎的话语。
13.40.75
त्वयाऽभ्युदयकामेन तपश्चीर्णं महामुने ।
अमुक्तस्त्वं समासङ्गैरविमुक्तोऽद्य पश्यसि ॥ १३.४०.७५ ॥
大仙啊,你为求兴旺而修苦行;然而因为亲近的执着,你尚未解脱,所以今日你看到自己仍未得解脱。
13.40.76
यदा सङ्गैर्विमुक्तश्च गतमोहो गतस्पृहः ।
भविष्यसि सदा ब्रह्म मामनुध्यास्यसे द्विज ॥ १३.४०.७६ ॥
当你摆脱执着,不再迷惑与贪求时,婆罗门啊,你将永远与梵合一,并且专心思念我。
13.40.77
ऐकान्तिकीं मतिं कृत्वा मद्भक्तो मत्परायणः ।
ज्ञास्यसे मां ततो ब्रह्मन्वीतमोहश्च तत्वतः ॥ १३.४०.७७ ॥
若你把心志专一地确立,成为我的虔信者,以我为最终归宿,婆罗门啊,那时你脱离迷惑,便能如实地认识我。
13.40.78
तेन त्वं कृतसंवादः स्वतः सर्वहितैषिणा ।
विश्वरूपेण देवेन पुरुषेण महात्मना।
तमेवाराधय क्षिप्रं तमाराध्य न सीदसि ॥ १३.४०.७८ ॥
你已与那具宇宙形相的神、伟大的原人对话,他出于自性而希望一切众生的福祉。快快地礼敬他吧;礼敬了他,你就不会沉溺于忧苦。
13.40.79
सोहमेवं भगवता पित्रा ब्रह्मर्षिसत्तमाः ।
अनुनीतो यथान्यायं स्वमेव भवनं गतः ॥ १३.४०.७९ ॥
诸位梵仙中的最优秀者啊,我因受尊贵的父亲依法劝导,便回到了自己的住所。