Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.41

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.41.1

सोऽहमामन्त्र्य पितरं तद्भावगतमानसः ।
स्वमेवालयमासाद्य तमेवार्थमचिन्तयम् ॥ १३.४१.१ ॥

我向父亲告辞,心念沉浸于那种境界,回到自己的居所,便思索那同一对象。

13.41.2

तद्भावगतभावात्मा तद्भूतगतमानसः ।
गोविन्दं चिन्तयन्नासे शाश्वतं परमव्ययम् ॥ १३.४१.२ ॥

我的自我沉浸于那种境界,心念专注于那存在,坐着冥想永恒、至高、不灭的哥文达。

13.41.3

धृतं बभूव हृदयं नारायणदिदृक्षया ।
सोहं वेगं समास्थाय मनोमारुतवेगवान्।
रम्यां विशालां बदरीं गतो नारायणाश्रमम् ॥ १३.४१.३ ॥

因渴望见到那罗延,我的心意坚定了。我以如心念和风一般的速度前往美丽广阔的菩提林那罗延修行处。

13.41.4

ततस्तत्र हरिं जगतः प्रभवं विभुम् ।
गोविन्दं पुण्डरीकाक्षं प्रणतः शिरसा हरिम्।
ऋग्यजुस्सामभिश्चैनं तुष्टाव परया मुदा ॥ १३.४१.४ ॥

于是我在那里向哈里——哥文达,世界之源,遍在者,莲花目者——低首顶礼,并以梨俱、夜柔、娑摩之颂,以无上欢喜赞美他。

13.41.5

अथापश्यं सुविपुलमश्वत्थं देवसंश्रयम् ॥ १३.४१.५ ॥

然后我看见一棵极其广大的圣无花果树,是诸神的依归。

13.41.6

चतुर्द्विगुणपीनांसः शङ्कचक्रगदाधरः ।
प्रादुर्बभूव पुरुषः पीतवासाः सनातनः।
मध्याह्नार्कप्रतीकाशस्तेजसा भासयन्दिशः ॥ १३.४१.६ ॥

永恒的补鲁沙显现,肩膀宽阔厚实,持螺号、轮盘与铁杵,身着黄衣,如正午之日,以光辉照亮四方。

13.41.7

संस्तुतः संविदं कृत्वा व्रजेति श्रेयसे रतः ।
प्रागुदीचीं दिशं देवः प्रतस्थे पुरुषोत्तमः।
दिशश्च विदिशश्चैव भासयन्स्वेन तेजसा ॥ १३.४१.७ ॥

受到赞颂,与之立约并说“去吧”之后,专注于至善的神——至上人——向东北方向出发,以自身的光辉照亮了四方与隅方。

13.41.8

तमहं पुरुषं दिव्यं व्रजन्तममितौजसम् ।
अनुवव्राज वेगेन शनैर्गच्छन्तमव्ययम् ॥ १३.४१.८ ॥

那位神圣、力量无限、正在前行的人,我急速地跟随;他缓步而行,不朽不灭。

13.41.9

योजनानां सहस्राणि षष्टिमष्टौ तथा शतम् ।
तथा शतसहस्रं च शतं द्विगुणमेव च ॥ १३.४१.९ ॥

千数由旬:六万八千,又十万,以及加倍的一百(这便是距离)。

13.41.10

स गत्वा दीर्गमध्वानमपश्यमहमद्भुतम् ।
महान्तं पावकं दीप्तमर्चिष्मन्तमनिन्धनम् ॥ १३.४१.१० ॥

走过那漫长的道路,我看见一团奇异的大火,燃烧着,火焰熊熊,却无薪柴。

13.41.11

शतयोजनविस्तीर्णं तस्माद्द्विगुणमायतम् ।
विवेश स महायोगी पावकं पावकद्युतिः ॥ १३.४१.११ ॥

那火宽百由旬,长则加倍。那位大瑜伽行者,光辉如火,走进了那火之中。

13.41.12

तत्र शंभुस्तपस्तेपे महादेवः सहोमया ।
स तेन संविदं कृत्वा पावकं समतिक्रमत् ॥ १३.४१.१२ ॥

那里,大天神商布(湿婆)与乌玛一同修苦行。他与之立约后,越过了那火。

13.41.13

श्रमाभिभूतेन मया कथञ्चिदनुगम्यते ॥ १३.४१.१३ ॥

我被疲劳压倒,勉强跟随着他。

13.41.14

गत्वा स दीर्घमध्वानं भास्करेणावभासितम् ।
अभास्करममर्यादं विवेश सुमहत्तमः ॥ १३.४१.१४ ॥

他走过一条被太阳照亮的长路,进入了无日、无界、极其广大的黑暗之中。

13.41.15

अथ दृष्टिः प्रतिहता मम तत्र बभूव ह ।
यथास्वभावं भूतात्मा विवेश स महाद्युतिः ॥ १३.४१.१५ ॥

于是我的视线在那里受阻,那位大光明的众生之魂依其本性进入了其中。

13.41.16

ततोऽहमभवं मूढो जडान्धबधिरोपमः ।
दिशश्च विदिशश्चैव न विजज्ञे तमोवृतः ॥ १३.४१.१६ ॥

于是我变得迷惑,如同愚钝、盲人与聋人;被黑暗包围,我连方向与隅向也不能分辨。

13.41.17

अविजानन्नहं किञ्चित्तस्मिंस्तमसि संवृते ।
ससंभ्रान्तेन मनसा व्यथां परमिकां गतः ॥ १३.४१.१७ ॥

被那片黑暗包围,什么也不知道,我以慌乱的心陷入了极度的痛苦。

13.41.18

सोऽहं प्रपन्नः शरणं देवदेवं सनातनम् ।
प्राञ्चलिर्मनसा भूत्वा वाक्यमेतत्तदोक्तवान् ॥ १३.४१.१८ ॥

于是我皈依于永恒的神中之神,以心中合掌的姿态说出了这些话。

13.41.19

भगवन्भूतभव्येश भवद्भूतकृदव्यय ।
शरणं सम्प्रपन्नं मां त्रातुमर्हस्यरिंदम ॥ १३.४१.१९ ॥

尊贵的主啊,过去与未来之主,万物不朽的创造者,你应当庇护已来寻求皈依的我,降伏敌人者啊。

13.41.20

अहं तु तत्त्वजिज्ञासुः कोसि कस्यासि कुत्र वा ।
सम्प्राप्तः पदवीं देव स मां संत्रातुमर्हसि ॥ १३.४१.२० ॥

我渴望知晓真理。你是谁,属于谁,来自何方?天神啊,你既已到达此路,应当庇护我。

13.41.21

आविर्भूतः पुराणात्मा मामेहीति सनातनः ।
ततोपरान्ततो देवो विश्वस्य गतिरात्मवान्।
मोहयामास मां तत्र दुर्विभाव्यवपुर्विभुः ॥ १३.४१.२१ ॥

古老的本我、永恒者显现,说道:「来到我这里。」随后,宇宙的归宿、自持的神,形体难以测度的遍在者,在那里迷惑了我。

13.41.22

स्वभावमात्मनस्तत्र दर्शयन्स्वयमात्मना ।
श्रमं मे जनयामास भयं चाभयदः प्रभुः ॥ १३.४१.२२ ॥

他在那里以自身显示自己的本性,赐予无畏的主在我心中生起了疲倦,也生起了恐惧。

13.41.23

खिन्न इत्येव मां मत्वा भगवानव्ययोऽच्युतः ।
शब्देनाश्वासयामास जगाहे च तमो महत् ॥ १३.४१.२३ ॥

他想:「他已疲倦。」不朽、不坠的世尊便以声音安慰我,并进入了巨大的黑暗之中。

13.41.24

अहं तमेवानुगतः श्रमालसपदश्चरन् ।
मनसा देवदेवेशं ध्यातुं समुपचक्रमे ॥ १३.४१.२४ ॥

我独自跟随着他,以疲惫迟缓的步伐行走,开始在心中冥想神中之神、那位主宰。

13.41.25

तथागतं तु मां ज्ञात्वा भगवानमितद्युतिः ।
तमः प्रणाशयामास ममानुग्रहकाङ्क्षया ॥ १३.४१.२५ ॥

无量光明的世尊知我已至此境,欲施恩于我,便驱散了黑暗。

13.41.26

ततः प्रनष्टे तमसि तमहं दीप्ततेजसम् ।
अपश्यं तेजसा व्याप्तं मध्याह्न इव भास्करम् ॥ १३.४१.२६ ॥

黑暗消失之后,我见到那光辉炽盛者,被光明所遍照,如同正午的太阳。

13.41.27

स्वयंप्रभांश्च पुरुषान्स्त्रियश्च परमाद्भुताः ।
अपश्यमहमव्यग्रस्तस्मिन्देशे सहस्रशः ॥ १३.४१.२७ ॥

我在那地方安然无扰,看见成千上万自发光明的男子,以及极为奇妙的女子。

13.41.28

न तत्र द्योतते सूर्यो नक्षत्राणि तथैव च ।
न तत्र चन्द्रमा भाति न वायुर्वाति पांसुलः ॥ १३.४१.२८ ॥

那里太阳不照耀,星辰亦然;那里月亮不发光,也没有尘土飞扬的风吹拂。

13.41.29

तत्र तूर्याण्यनेकानि गीतानि मधुराणि च ।
अदृश्यानि मनोज्ञानि श्रूयन्ते सर्वतोदिशम् ॥ १३.४१.२९ ॥

那里四面八方都听得见许多乐器和甜美的歌声,虽不可见,却令人愉悦。

13.41.30

स्रवन्ति वैडूर्यलताः पद्मोत्पलझषाकुलाः ।
मुक्तासिकतवप्राश्च सरितो निर्मलोदकाः ॥ १३.४१.३० ॥

河流奔流,水清如净,两岸生长着青金石般的藤蔓,满是莲花、睡莲与鱼群,岸边是珍珠般的沙。

13.41.31

अगतिस्तत्र देवानामसुराणां तथैव च ।
गन्धर्वनागयक्षाणां राक्षसानां तथैव च ॥ १३.४१.३१ ॥

那里对诸神、阿修罗、乾闼婆、龙、夜叉和罗刹都无路可通。

13.41.32

स्वयंप्रभास्तत्र नरा दृश्यन्तेऽद्भुतदर्शनाः ।
येषां न देवतास्तुल्याः प्रभाभिर्भावितात्मनाम् ॥ १३.४१.३२ ॥

那里可见自身发光、形貌奇妙的人,其光明连诸神也不能相比,他们的自我已经净化。

13.41.33

स च तानप्यतिक्रम्य दैवतैरपि पूजितः ।
विवेश ज्वलनं दीप्तमनिन्धनमनौपमम् ॥ १३.४१.३३ ॥

他越过他们,连诸神也尊敬他,进入了无需燃料而熊熊燃烧的无与伦比的火焰。

13.41.34

ज्वालाभिर्मां प्रविष्टं च ज्वलन्तं सर्वतोदिशम् ।
दैत्यदानवरक्षोभिर्दैवतैश्चापि दुस्सहम् ॥ १३.४१.३४ ॥

我进入了火焰之中,那火焰从四面八方燃烧,连提迭、檀那婆、罗刹与诸神也无法忍受。

13.41.35

ज्वालामालिनमासाद्य तमग्निमहमव्ययम् ।
अविषह्यतमं मत्वा मनसेदमचिन्तयम् ॥ १३.४१.३५ ॥

我来到那被火焰环绕的不灭之火旁,认为它最难忍受,于是在心中思量了这些。

13.41.36

मया हि समरेष्वग्निरनेकेषु महाद्युतिः ।
प्रविष्टश्चापविद्धश्च न च मां दग्धवान्क्वचित् ॥ १३.४१.३६ ॥

在许多战斗中,那大光明之火被我闯入、又被抛弃,然而它从未烧过我。

13.41.37

अयं च दुस्सहः शश्वत्तेजसाऽतिहुताशनः ।
अत्यादित्यप्रकाशार्चिरनलो दीप्यते महान् ॥ १३.४१.३७ ॥

这团巨大、难以忍受、永远燃烧的火焰正在燃烧,其火焰之光超过太阳的光辉。

13.41.38

स तथा दह्यमानोपि तेजसा दीप्तवर्चसा ।
प्रपन्नः शरणं देवं शङ्कचक्रगदाधरम् ॥ १३.४१.३८ ॥

虽然他被那灼热的光辉焚烧,他仍然投奔那持螺、轮、杵的神。

13.41.39

भक्तश्चानुगतश्चेति त्रातुमर्हसि मां विभो ।
यथा मां न दहेदग्निः सद्यो देव तथा कुरु ॥ १३.४१.३९ ॥

“我是你的信徒和追随者;主啊,你应当护佑我。神啊,请立刻施为,使火不要焚烧我。”

13.41.40

एवं विलपमानस्य ज्ञात्वा मे वचनं प्रभुः ।
मा भैरिति वचः प्राह मेघगम्बीरनिस्वनः ॥ १३.४१.४० ॥

主知道我如此哀号的话语,以如云般深沉的声音说:“不要害怕。”

13.41.41

स मामाश्वास्य वचनं प्राहेदं भगवान्विभुः ।
मम त्वं विदितः सौम्य यथावत्तत्वदर्शने ॥ १३.४१.४१ ॥

安慰了我之后,那位世尊、遍在之主说道:“善良的人啊,在真实的见解中,我完全认识你。”

13.41.42

ज्ञापितश्चापि यत्पित्रा तच्चापि विदितं महत् ।
वैनतेय ममाप्येवमहं वेद्यः कथञ्चन ॥ १३.४१.४२ ॥

“你父亲所告知的,以及那个伟大的真理,我也都知道。维纳塔之子啊,我也就这样,以某种方式,是可以被认识的。”

13.41.43

महदेतत्स्वरूपं मे न ते वेद्यं कथञ्चन ।
मां हि विन्दन्ति विद्वांसो ये ज्ञाने परिनिष्ठिताः
निर्ममा निरहङ्कारा निराशीर्बन्धनायुताः ॥ १३.४१.४३ ॥

我这伟大的形相,你无论如何也无法认识。唯有那些坚定立于智慧、无我执、无我慢、摆脱欲望束缚的智者,才能找到我。

13.41.44

भवांस्तु सततं भक्तो मन्मनाः पक्षिसत्तम ।
स्थूलंमां वेत्स्यसे तस्माज्जगतः कारणेस्थितम् ॥ १३.४१.४४ ॥

但你始终虔诚于我,心意专注于我,禽鸟中最优秀的。因此你将以这粗显之相认识我,我安住于世界的根源之中。