Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.44

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.44.1

अहो श्रावितमाख्यानं भवताऽत्यद्भुतं महत् ।
पुण्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ॥ १३.४४.१ ॥

啊!您所诵讲的这段故事极为奇妙、宏大;它功德殊胜,带来声望与长寿,引向天界,是极大的吉祥之源。

13.44.2

एतत्पवित्रं देवानामेतद्गुह्यं परंतप ।
एतज्ज्ञानवता ज्ञेयमेषा गतिरनुत्तमा ॥ १३.४४.२ ॥

此乃连诸神亦视为圣洁之物,也是秘密,啊,焚烧敌人者!智者应当知晓;此乃无上之道。

13.44.3

य इमां श्रावयेद्विद्वान्कथां पर्वसुपर्वसु ।
स लोकान्प्राप्नुयात्पुण्यान्देवर्षिभिरभिष्टुतान् ॥ १३.४४.३ ॥

若有学者逐篇诵讲此故事,便能抵达诸天仙所赞叹的功德之界。

13.44.4

श्राद्धकाले च विप्राणां य इमां श्रावयेच्छुचिः ।
न तत्र रक्षसां भागो नासुराणां च विद्यते ॥ १३.४४.४ ॥

若清净之人在祭祖(śrāddha)时为婆罗门诵讲此篇,则罗刹与阿修罗在那里都无份额。

13.44.5

अनसूयुर्जितक्रोधः सर्वसत्वहिते रतः ।
यः पठेत्सततं युक्तः स व्रजेत्तत्सलोकताम् ॥ १३.४४.५ ॥

若人无嫉妒,胜过愤怒,喜于众生之利,恒常专注地诵读此篇,便往生于同一世界。

13.44.6

वेदान्पारयते विप्रो राजा विजयवान्भवेत् ।
वैश्यस्तु धनधान्याढ्यः शूद्रः सुखमवाप्नुयात् ॥ १३.४४.६ ॥

婆罗门通达吠陀,国王得以胜利,吠舍富足于财物与谷物,首陀罗则获得安乐。

13.44.7

ततस्ते मुनयः सर्वे सम्पूज्य विनतासुतम् ।
स्वानेव चाश्रमाञ्जग्मुर्बभूवुः शान्तितत्पराः ॥ १३.४४.७ ॥

随后,所有这些仙人敬奉了毗那塔之子(迦鲁达),各自回到自己的修行林,专心于寂静。

13.44.8

स्थूलदर्शिभिराकृष्टो दुर्ज्ञेयो ह्यकृतात्मभिः ।
एषा धुतिर्महाराज धर्म्या धर्मभृतांवर ॥ १३.४४.८ ॥

凡只见表象者易被其引开,未净化之心者难以知晓。大王,这是合于法的坚定,持法者中最优秀的人啊。

13.44.9

सुराणां ब्रह्मणा प्रोक्ता विस्मितानां परंतप ।
मयाप्येषा कथा तात कथिता मातुरन्तिके।
वसुभिः सत्त्वसम्पन्नैस्तवाप्येषा मयोच्यते ॥ १३.४४.९ ॥

克敌者啊,此事是梵天向惊讶的诸神所说。亲爱的孩子,我也曾在母亲面前听闻此事,具足善德的婆薮也曾述说此事;现在我把它告诉你。

13.44.10

तदग्निहोत्रपरमा जपयज्ञपरायणाः ।
निराशीर्बन्धनाः सन्तः प्रयान्त्यक्षरसात्मतां ॥ १३.४४.१० ॥

因此,专注于火祭、沉浸于念诵祭、摆脱欲望束缚的善人,便入于不灭者的本性。

13.44.11

आरम्भयज्ञानुत्सृज्य जपहोमपरायणाः ।
ध्यायन्तो मनसा विष्णुं गच्छन्ति परमां गतिम् ॥ १३.४४.११ ॥

舍弃有为的祭祀,专注于念诵与献供,以心念思惟毗湿奴,他们便抵达至高的归趣。

13.44.12

तदेष परमो मोक्षो मोक्षद्वारं च भारत ।
यथा विनिश्चितात्मानो गच्छन्ति परमां गतिम् ॥ १३.४४.१२ ॥

因此,婆罗多的后裔啊,这便是至高的解脱,也是解脱之门,决心坚定者由此抵达至高的归趣。