Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.46

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.46.1

मूर्ध्ना निपत्य नियतस्तेजःसन्निचये ततः ।
परमं हर्षमागत्य भगवन्तमथाब्रवम् ॥ १३.४६.१ ॥

我以自制之心俯首投地于光辉之聚前,随后获得无上喜悦,便对世尊说道。

13.46.2

धर्मे दृढत्वं युधि शत्रुघातं ।
यशस्तथाऽग्र्यं परमं बलं च
योगप्रियत्वं तव सन्निकर्षं ।
वृणे सुतानां च शतं शतानि ॥ १३.४६.२ ॥

坚守法义,战场上杀灭敌人,无上的名声与最高的力量,喜好瑜伽,亲近于你,以及数以百计的儿子——这些我愿求得。

13.46.3

एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः ॥ १३.४६.३ ॥

我说:“就这样吧。”湿婆听了我这番话,便说道。

13.46.4

ततो मां जगतो माता धारिणी सर्वपावनी ।
उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः।
दत्तो भगवता पुत्रः साम्बो नाम तवानघ ॥ १३.४६.४ ॥

于是,承载世界、净化一切、苦行的宝藏、专注的湿婆之妃乌玛对我说道:“无罪者啊,世尊已赐予你一子,名为森婆。”

13.46.5

मत्तोप्यष्टौ वरानिष्टान्गृहण त्वं ददामि ते ।
प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन ॥ १३.४६.५ ॥

“你也从我这里取得八种你所愿的恩赐,我赐予你。”她低头行礼,啊,般度之子,我便对她说道。

13.46.6

द्विजेष्वकोपं पितृतः प्रसादं ।
शतं सुतानां परमं च भोगम्।
कुले प्रीतिं मातृतश्च प्रसादं-
शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् ॥ १३.४६.६ ॥

对再生者不生嗔怒,得父亲之恩,享有数百子嗣的无上福乐,家族中的爱,得母亲之恩,获得寂静,以及才能——这些我愿选择。

13.46.7

एवं भविष्यत्यमरप्रभाव ।
नाहं मृषा जातु वदे कदाचित्।
भार्यासहस्राणि च षोडशैव ।
तासु प्रियत्वं च तथाऽक्षयं ॥ १३.४६.७ ॥

如此将会发生,具有神力者啊。我从不说谎。将有一万六千位妻子,而你在她们之中的宠爱将永不衰减。

13.46.8

प्रीतिं चाग्र्यां बान्धवानां सकाशा-
द्ददामि तेऽहं वपुषः काम्यतां च।
भोक्ष्यन्ते वै सप्ततिं वै शतानि ।
गृहे तुभ्यमतिथीनां च नित्यम् ॥ १३.४६.८ ॥

我将从亲族那里赐予你至上的爱与身体的可爱之美。你的家中,将有七十万人与宾客一同永远用餐。

13.46.9

एवं दत्त्वा वरान्देवो मम देवी च भारत ।
अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज ॥ १३.४६.९ ॥

婆罗多啊,天神与我的女神赐予恩惠后,在那一刻与其随从一同隐没了,比摩的兄长啊。

13.46.10

एतदत्यद्भुतं पूर्वं ब्राह्मणायातितेजसे ।
उपमन्यवे मया कृत्स्नं व्याख्यातं पार्थिवोत्तम।
नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत ॥ १३.४६.१० ॥

这一极其奇妙的故事,我以前已完整地讲给光辉卓绝的婆罗门优婆曼尤听了,诸王中最优秀者啊。他向天神之神行礼后说道,持善誓者啊。

13.46.11

नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ।
नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे ॥ १३.४६.११ ॥

没有神与湿婆相等,没有归宿与湿婆相等。在布施上无人与湿婆相等,在战场上无人与湿婆相等。