摩诃婆罗多 · 章 13.47
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.47.1
ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः ।
दशवर्षसहस्राणि तेन देवः समाधिना ॥ १३.४७.१ ॥
亲爱的孩子,在克里塔时代,有一位名为坦狄的著名仙人。他以禅定之力侍奉神灵达一万年。
13.47.2
आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय ।
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् ॥ १३.४७.२ ॥
他被虔诚的信徒供奉而感到欣喜。听其结果:他见到了摩诃提婆,并以颂歌赞美这遍在者。
13.47.3
इति तण्डिस्तपोयोगात्परमात्मानमव्ययम् ।
चिन्तयित्वा महात्मानमिदमाह सुविस्मितः ॥ १३.४७.३ ॥
坦狄以苦行瑜伽冥想不灭的至高自我,大为惊异,对那位大我说了如下的话。
13.47.4
यं पठन्ति सदा साङ्ख्याश्चिन्तयन्ति च योगिनः ।
परं प्रधानं पुरुषमधिष्ठातारमीश्वरम्। ॥ १३.४७.४ ॥
数论者常诵、瑜伽者所观的,是至上者、原初之物、补卢沙,即主宰之主。
13.47.5
उत्पत्तौ च विनाशे च कारणं यं विदुर्बुधाः ।
देवासुरमुनीनां च परं यस्मान्न विद्यते ॥ १३.४७.५ ॥
智者所知为创造与毁灭之因、且在诸神、阿修罗与仙人之上再无他者的那一位。
13.47.6
अजं तमहमीशानमनादिनिधनं प्रभुम् ।
अत्यन्तसुखिनं देवमनघं शरणं व्रजे ॥ १३.४७.६ ॥
我皈依那无生的伊舍那,无始无终的主宰,至上喜乐、无罪的神。
13.47.7
एवं ब्रुवन्नेव तदा ददर्श तपसान्निधिम् ।
तमव्ययमनौपम्यमचिन्त्यं शाश्वतं ध्रुवम् ॥ १३.४७.७ ॥
他一边这样说,一边以苦行看见了那不朽、无可比拟、不可思议、永恒而恒常者的宝库。
13.47.8
निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम् ।
योगिनां परमानन्दमक्षरं मोक्षसंज्ञितम् ॥ १३.४७.८ ॥
梵,无分与有分;无德而可由德所知;瑜伽士的至高喜乐,不灭者,名为解脱。
13.47.9
मनोरिन्द्राग्निमरुतां विश्वस्य ब्रह्मणो गतिम् ।
अग्राह्यमचलं शुद्धं बुद्धिग्राह्यं मनोमयम् ॥ १३.४७.९ ॥
心、因陀罗、火神与风神群、宇宙及梵的归宿;不可把握,不动,清净,可由智慧把握,由意所成。
13.47.10
दुर्विज्ञेयमसङ्ख्ये दुष्प्रापमकृतात्मभिः ।
योनि विश्वस्य जगतस्तमसः परतः परम् ॥ १३.४७.१० ॥
无数种方式都难以认知,未修炼之心难以到达;是宇宙与世界的源头,是超越黑暗的至高者。
13.47.11
यः प्राणवन्तमात्मानं ज्योतिर्जीवस्थितं मनः ।
तं देवं दर्शनाकाङ्क्षी बहून्वर्षगणानृषिः।
तपस्युग्रे स्थितो भूत्वा दृष्ट्वा तुष्टाव चेश्वरम् ॥ १३.४७.११ ॥
那位神,即具生命气息的自我、光明、住于众生中的意。仙人渴望得见,在猛烈苦行中站立多年,见到了他,并赞颂了自在者。
13.47.12
पवित्राणां पवित्रस्त्वं गतिर्गतिमतांवर ॥ १३.४७.१२ ॥
你是清净者中最清净的,是有归趣者的归趣,是他们中最殊胜的。
13.47.13
अत्युग्रं तेजसां तेजस्तपसां परमं तपः ।
विश्वावसुहिरण्याक्षपुरुहूतनमस्तृत ॥ १३.४७.१३ ॥
你是光芒中最猛烈的光芒,苦行中最高的苦行,为毗湿婆婆苏、希兰耶叉和补鲁呼多所礼敬。
13.47.14
भूरिकल्याणद विभो परं सत्यं नमोस्तु ते ।
जातीमरणभीरूणां यतीनां यततां विभो ॥ १३.४७.१४ ॥
主啊,你赐予广大的福祉,你是至高的真理,愿向你致敬。主啊,对于畏惧生死的苦行者和努力修行的人,你就是归依。
13.47.15
निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय ।
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः ॥ १३.४७.१५ ॥
向你致敬,赐予解脱者,千光者,幸福的归依。梵天、百祭者(因陀罗)、毗湿奴、诸天与大仙,皆是你。
13.47.16
न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् ।
त्वत्तः प्रवर्तते सर्वं त्वयि सर्वं प्रतिष्ठितम् ॥ १३.४७.१६ ॥
他们也不能真正认识你,我们又怎能认识?一切从你而生,一切安立于你之中。
13.47.17
कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि ।
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः ॥ १३.४७.१७ ॥
你也名为时间、原人与梵天。精通往世书的天界仙人记住了你的这三种身相。
13.47.18
अधिपौरुषमध्यात्ममधिभूताधिदैवतम् ।
अधिलोकाधिविज्ञानमधियज्ञस्त्वमेव हि ॥ १३.४७.१८ ॥
关于人身、关于自我、关于众生与诸神、关于诸世界与胜智、关于祭祀——这些都是你。
13.47.19
त्वां विदित्वाऽऽत्मदेवस्थं दुर्विदं दैवतैरपि ।
विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ॥ १३.४७.१९ ॥
认识了你——安居于我性之神、连诸神也难以认识的你,智者便摆脱束缚,抵达至上无病的境界。
13.47.20
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः ।
द्वारं तु स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ॥ १३.४७.२० ॥
啊,全能者!虽非你所愿,生死却以种种方式降临。通往天界与解脱之门,是你关闭,也是你开启。
13.47.21
त्वं वै स्वर्गश्च मोक्षश्च कामः क्रोधस्त्वमेव च ।
सत्वं रजस्ममश्चैव अधश्चोर्ध्वं त्वमेव हि ॥ १३.४७.२१ ॥
你确实是天界与解脱,也是欲望与愤怒。你是善性、激情与暗性,你确实既是下界也是上界。
13.47.22
ब्रह्मा भवश्च विष्णुश्च स्कन्देन्द्रौ सविता यमः ।
वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ॥ १३.४७.२२ ॥
梵天、婆婆(湿婆)、毗湿奴、室建陀与因陀罗,萨维特里、阎摩、伐楼那与月神,摩奴、达多与毗陀多,以及财神,都是你。
13.47.23
भूर्वायुः सलिलाग्निश्च खं वाग्बुद्धिः स्थितिर्मतिः ।
कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ॥ १३.४७.२३ ॥
地、风、水与火,虚空,言语,智慧,稳固与思虑,行为,真与伪两者,都是你;你是存在者,也是非存在者。
13.47.24
इन्द्रियाणीन्द्रियार्थाश्च प्रकृतिभ्यः परं ध्रुवम् ।
विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ॥ १३.४७.२४ ॥
诸根与诸根之境,超越原质(prakṛti)的恒常至上,超越宇宙与非宇宙的存在状态,可思与不可思,都确实是你。
13.47.25
यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् ।
या गतिः साङ्ख्ययोगानां स भवान्नात्र संशयः ॥ १३.४७.२५ ॥
那至上的梵,那至高的境界,数论与瑜伽修习者的归宿——那便是您,此中无疑。
13.47.26
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् ।
यां गतिं प्रार्तयन्तीह ज्ञाननिर्मलबुद्धयः ॥ १३.४७.२६ ॥
今日我们确已圆满;我们确已到达善人之归宿,那是此世中以智慧使心念澄净者所渴求的归宿。
13.47.27
अयो मूढाः स्म सुचिरमिमं कालमचेतसा ।
यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ॥ १३.४७.२७ ॥
唉,我们愚痴无知,如此长久地昏昧,竟不曾认识那至上永恒的神,智者所知的那一位。
13.47.28
सेयमासादिता साक्षात्त्वद्भक्तिर्जन्मभिर्मया ।
भक्तानुग्रहकृद्देवो यं ज्ञात्वाऽमृतमश्नुते ॥ १३.४७.२८ ॥
我对您的这份虔信,历经多次轮回,终于亲身获得;知晓那位施恩于虔信者的神,人便得到甘露。
13.47.29
देवासुरमुनीनां तु यच्च गुह्यं सनातनम् ।
गुहायां निहितं ब्रह्मि दुर्विज्ञेयं मुनेरपि ॥ १३.४७.२९ ॥
诸神、阿修罗与仙人所拥有的那秘密而永恒的奥义,隐藏于心洞中的梵之内,即使仙人也难以领悟。
13.47.30
स एष भगवान्देवः सर्वकृत्सर्वतोमुखः ।
सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ॥ १३.४७.३० ॥
这位世尊之神,是一切的创造者,面向一切方向,是一切的自我,见一切,遍在一切,知一切。
13.47.31
देहकृद्देहभृद्देही देहभुग्देहिनां गतिः ।
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः ॥ १३.४७.३१ ॥
他是身体的创造者、身体的承载者、有身者、享受身体者,是有身者的归宿。他是气息的创造者、气息的承载者、有气者、赐予气息者,是有气众生的归宿。
13.47.32
अध्यात्मगतिरिष्टानां ध्यायिनामात्मवेदिनाम् ।
अपुनर्भवकामानां या गतिः सोऽयमीश्वरः ॥ १३.४७.३२ ॥
这是内在自我的归宿,是所爱者、冥思者、知晓自我者以及不愿再生者的归宿。此即自在主。
13.47.33
अयं च सर्वभूतानां शुभाशुभगतिप्रदः ।
अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु।
अयं संसिद्धिकामानां या गतिः सोयमीस्वरः। ॥ १३.४७.३३ ॥
他赐予一切众生善恶之趣,并在一切生灵中安排生与死。渴求圆满者的归宿,即此自在主。
13.47.34
भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः ।
दधाति देवस्तनुभिरष्टाभिर्यो बिभर्ति च ॥ १३.४७.३४ ॥
神创造了包括「地」在内的一切世界以及天界居民,并以八种形体承载它们;养育它们的也是他。
13.47.35
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् ।
अस्मिंश्च प्रलयं याति अयमेकः सनातनः ॥ १३.४७.३५ ॥
一切由此而起,一切安立于此,一切在劫末又回归于此。唯有他是永恒的。
13.47.36
अयं स सत्यकामानां सत्यलोकः परं सताम् ।
अपवर्गश्च मुक्तानां कैवल्यं चात्मवेदिनाम् ॥ १३.४७.३६ ॥
对渴求真理者而言,他即真理之界;对善人而言,他即至上之界;对解脱者而言,他即解脱;对知晓自我者而言,他即独存(解脱)。
13.47.37
अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रुभुः ।
देवासुरमनुष्याणामप्रकाशो भवेदिति ॥ १३.४७.३७ ॥
此主被梵天等及成就者藏于心洞之中,使其对天神、阿修罗与人类保持不显现。
13.47.38
तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् ।
मोहिताः खल्वनेनैव हृदिस्थेनाप्रकाशिना ॥ १३.४७.३८ ॥
天神、阿修罗与人类并不如实地认识你的本体;实则他们正被这位居于心中、不显现者所迷惑。
13.47.39
ये चैनं प्रतिपद्यन्ते भक्तियोगेन भाविताः ।
तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ॥ १३.४७.३९ ॥
凡以虔信瑜伽得到净化而亲近他的人,这位心中安住者便以自身向他们显示自己。
13.47.40
यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते ।
यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ॥ १३.४७.४० ॥
知晓他,便再无轮回与死亡;了知他,便无所谓至上的所知,也无须再知的事物。
13.47.41
यं लब्ध्वा परमं लाभं नाधिकं मन्यते बुधः ।
यां सूक्ष्मां परमां प्राप्तिं गच्छन्नव्ययमक्षयम् ॥ १३.४७.४१ ॥
智者得到他之后,便不再视任何其他收获为更大;达到这微妙的最高成就,他便走向不朽不灭之境。
13.47.42
यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः ।
सूक्ष्मज्ञानतराः सूक्ष्मं ज्ञात्वा मुच्यन्ति बन्धनैः ॥ १३.४७.४२ ॥
精通诸德之理、熟习数论典籍的数论者,以最微妙的智慧,了知那微妙者,便从束缚中解脱。
13.47.43
यं च वेदविदो वेद्यं वेदान्ते च प्रतिष्ठितम् ।
प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ॥ १३.४७.४३ ॥
吠陀的知者所应认知者,立于吠檀多之中,常修调息者入于其中并诵念之。
13.47.44
ओंकाररथमारुह्य ते विशन्ति महेश्वरम् ।
अयं स देवयानानामादित्यो द्वारमुच्यते ॥ १३.४७.४४ ॥
乘上唵之车,他们进入大自在天。此太阳被称为诸天之道的门。
13.47.45
अयं च पितृयानानां चन्द्रमा द्वारमुच्यते ।
एष काष्ठा दिशश्चैव संवत्सरयुगादि च ॥ १३.४७.४५ ॥
此月被称为祖先之道的门。它也是迦湿陀、诸方、年、劫等。
13.47.46
दिव्यादिव्यः परो लाभ अयने दक्षिणोत्तरे ।
एनं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः ॥ १३.४७.४६ ॥
超越天与非天的最高之利,在南行与北行二道之中。往昔,生主以众多赞歌礼拜他。
13.47.47
प्रजार्थं वरयामास नीललोहितसंज्ञितम् ।
क्रग्भिर्यमनुशासन्ति तत्त्वे कर्मणि बह्वृचाः ॥ १३.४७.४७ ॥
为了子嗣,他选定了名为尼罗罗希多的神。在真实的祭仪中,诵《梨俱》的学者以梨俱诗句教导的那位,
13.47.48
यजुर्भिर्यत्त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे ।
सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः ॥ १३.४७.४८ ॥
以夜柔诗句三重可知者,祭司在祭祀中向其献供,心地清净的娑摩歌者以娑摩歌赞颂之。
13.47.49
ऋतं सत्यं परं ब्रह्म स्तुवन्त्याथर्वणा द्विजाः ।
यज्ञस्य परमा योनिः परिश्चायं परः स्मृतः ॥ १३.४७.४९ ॥
阿塔尔瓦诸再生者赞颂如、真实与至上梵;此乃祭祀的至高本源,此名为波利舍查耶者被称为至上。
13.47.50
रात्र्यहः श्रोत्रनयनः पक्षमासशिरोभुजः ।
ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् ॥ १३.४७.५० ॥
昼夜为其耳目,半月与月为其首与臂;季节为其力,苦行为其坚定;岁为其隐秘的股与足。
13.47.51
मृत्युर्यमो हुताशश्च कालः संहारवेगवान् ।
कालस्य परमा योनिः कालश्चायं सनातनः ॥ १३.४७.५१ ॥
死亡、阎摩、火,以及以毁灭为迅捷之力的时间;此乃时间的至高本源,此永恒者即是时间。
13.47.52
चन्द्रादित्यौ सनक्षत्रौ ग्रहाश्च सह वायुना ।
ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च ॥ १३.४७.५२ ॥
月与日连同星宿;诸行星连同风;北极星、七仙人,以及七界。
13.47.53
प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् ।
ब्रह्मादिस्तम्बपर्यन्तं भूतादि सदसच्च यत् ॥ १३.४७.५३ ॥
原质、大(觉)、未显、至于别相之终及其变异;自梵天至一根草茎;诸元素与众生,以及一切显与隐之物。
13.47.54
अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यः परः ।
अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते ॥ १३.४७.५४ ॥
八种本性,以及超越诸本性的至上者;此神的每一分,皆全体运转不息。
13.47.55
एतत्परममानन्दं यत्तच्छाश्वतमेव च ।
एषा गतिर्विरक्तानामेष भावः परः सताम् ॥ १३.४७.५५ ॥
这是至高的喜乐,也是永恒的。这是离欲者的归宿,是善人的至上境界。
13.47.56
एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् ।
शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ॥ १३.४७.५६ ॥
此境无所动摇,此乃永恒的梵。对于精通经典、吠陀及其支分的学者而言,此为禅修与至上之境。
13.47.57
इयं सा परमा काष्ठा इयं सा परमा कला ।
इयं सा परमा सिद्धिरियं सा परमा गतिः ॥ १३.४७.५७ ॥
此即至上之极限,此即至上之分;此即至上之成就,此即至上之归宿。
13.47.58
इयं सा परमा शान्तिरियं सा निर्वृतिः परा ।
यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त योगिनः ॥ १३.४७.५८ ॥
此即至上寂静,此即至上安乐;瑜伽士得之,便认为"我辈已完成所作"。
13.47.59
इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः ।
अध्यात्मगतिरिष्टानां विदुषां प्राप्तिरव्यया ॥ १३.४७.५९ ॥
此即满足,此即成就,此即天启,此即传承;此乃内在自我之道,是可爱智者不坏的所得。
13.47.60
यजतां कामयानानां मखैर्विपुलदक्षिणैः ।
या गतिर्यज्ञशीलानां सा गतिस्त्वं न संशयः ॥ १३.४७.६० ॥
那些怀着欲望、以丰厚布施行祭祀的人,以及专心祭祀者所得的归宿,正是你的归宿;此无疑。
13.47.61
सम्यग्योगजपैः शान्तिर्नियमैर्देहतापनैः ।
तप्यतां या गतिर्देव परमा सा गतिर्भवान् ॥ १३.४७.६१ ॥
以瑜伽、诵咒、戒律及苦行煎熬身体而修苦行者所得的寂静——那至高的归宿,哦神,就是你。
13.47.62
कर्मन्यासकृतानां च विरक्तानां ततस्ततः ।
या गतिर्ब्रह्मिसदने सा गतिस्त्वं सनातन ॥ १३.४७.६२ ॥
那些弃绝业行、又以种种方式离欲者,在梵宫所得的归宿——那归宿,哦永恒者,就是你。
13.47.63
अपुनर्भवकामानां वैराग्ये वर्ततां च या ।
प्रकृतीनां लयानां च सा गतिस्त्वं सनातन ॥ १३.४७.६३ ॥
不愿再生、安住于离欲、融入自性(prakṛti)者所得的归宿——那归宿,哦永恒者,就是你。
13.47.64
ज्ञानविज्ञानयुक्तानां निरुपाख्या निरञ्जना ।
कैवल्या या गतिर्देव परमा सा गतिर्भवान् ॥ १३.४७.६४ ॥
那不可言说、清净无染的究竟解脱(kaivalya)之至高归宿,属于具备知识与智慧者——那至高归宿,哦神,就是你。
13.47.65
वेदशास्त्रपुराणोक्ताः पञ्च ता गतयः स्मृताः ।
त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ॥ १३.४७.६५ ॥
吠陀、论典与往世书所说的那五种归宿被世人记诵;哦遍在者,它们唯因你的恩典而可得,别无他途。
13.47.66
इति तण्डिस्तपोराशिस्तुष्टावेसानमात्मना ।
जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ ॥ १३.४७.६६ ॥
就这样,苦行之聚的檀迪以自身赞颂自在主,并如往昔世界的创造者所唱那样,歌唱至高的梵。
13.47.67
एवं स्तुतो महादेवस्तण्डिना ब्रह्मवादिना ।
उवाच भगवान्देव उमया सहितः प्रभुः ॥ १३.४७.६७ ॥
婆罗门论者坦丁如此赞颂之后,大天、世尊主神与乌玛在一起开口说道。
13.47.68
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः ।
न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः ॥ १३.४७.६८ ॥
梵天、百祭之因陀罗、毗湿奴、诸大天及大仙都不认识你。于是湿婆欢喜,对他说道。
13.47.69
अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः ।
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ १३.४७.६९ ॥
你将不朽不坏,远离苦恼,名声显赫,具足光明,并拥有神圣的智慧。
13.47.70
ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव ।
मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः ॥ १३.४७.७० ॥
你的儿子将为诸仙所亲近,并且是撰写经句的人。二生者中最优秀的人啊,凭我的恩典,此事必成,毫无疑问。
13.47.71
कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे ।
प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढाऽस्तु मे ॥ १३.४७.७१ ॥
今天我该赐你什么愿望?孩子,说出你所希望的吧。他合掌说道:愿我对你的虔诚坚定不移。
13.47.72
एतान्दत्त्वा वरान्देवो वन्द्यमानः सुरर्षिभिः ।
स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत ॥ १३.४७.७२ ॥
赐予这些恩惠后,神祇受天仙礼拜,受诸智慧天神赞颂,便在那里隐没了。
13.47.73
अन्तर्हिते भगवति सानुगे यादवेश्वर ।
ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह ॥ १३.४७.७३ ॥
耶达瓦之主啊,待世尊与随从隐去之后,仙人来到苦行林,在此向我宣说了这些。
13.47.74
यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम ।
मानानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये ॥ १३.४७.७४ ॥
人中最上者啊,为了成就,请听那些著名的度量——诸名号,即往昔檀迪向我所说的。
13.47.75
दश नामसहस्राणि देवेष्वाह पितामहः ।
सर्वस्य शास्त्रेषु तथा दश नामशतानि च ॥ १३.४७.७५ ॥
在诸神之中,祖父宣说了一万个名号;同样,在一切经典中也有一千个名号。
13.47.76
गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत ।
देवप्रसादाद्देवेशः पुरा प्राह महात्मने ॥ १३.४७.७६ ॥
这些秘密名号,檀迪得自世尊阿周那;因神的恩典,诸神之主往昔将之宣说给那位伟大心者。