Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.5.1

एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः ।
सहस्रमेकपादेन ततो ध्याने व्यतिष्ठत ॥ १३.५.१ ॥

摩当伽听后,以收摄的心与坚定的誓愿,单足站立一千年,沉浸于禅定之中。

13.5.2

तं सहस्रावरे काले शक्रो द्रष्टुमुपागमत् ।
तदेव च पुनर्वाक्यमुवाच बलवृत्रहा ॥ १३.५.२ ॥

千年将尽之时,因陀罗前来看望他,那击杀弗栗多的强大者又说了同样的话。

13.5.3

इदं वर्षसहस्रं वै ब्रह्मचारी समाहितः ।
अतिष्ठमेकपादेन ब्राह्मण्यं नाप्नुयां कथम् ॥ १३.५.३ ॥

我以梵行者的身份、专注地单足站立了一千年;那我怎会不能获得婆罗门身份呢?

13.5.4

चण्डालयोनो जातेन नावाप्यं वै कथञ्चन ।
अन्यं कामं वृणीष्व त्वं मा वृथा तेऽस्त्वयं श्रमः ॥ १३.५.४ ॥

出生于旃陀罗之胎者,绝不可能以任何方式获得此果。请另选一个愿望,不要让你的苦修白费。

13.5.5

एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः ।
अध्यतिष्ठद्गयां गत्वा सोऽङ्गुष्टेन शतं समाः ॥ १३.५.५ ॥

摩当伽听后陷入极大的悲伤,他前往迦耶,用大脚趾站立了一百年。

13.5.6

सुदुर्वहं वहन्योगं कृशो धमनिसन्ततः ।
त्वगस्थिभूतो धर्मात्मा स ततापेति नः श्रुतम् ॥ १३.५.६ ॥

据我们所闻,那位法魂承受着极其艰难的瑜伽,形销骨立,满身血脉凸显,只剩皮与骨,仍在苦修。

13.5.7

तं तपन्तमभिद्रुत्य पाणिं जग्राह वासवः ।
वराणामीश्वरो दाता सर्वभूतहिते रतः ॥ १३.५.७ ॥

因陀罗(Vāsava)奔向正在苦行的他,握住了他的手——他是众赐福之主、施予者,乐于众生之利。

13.5.8

मतङ्ग ब्राह्मणत्वं ते विरुद्धमिह दृश्यते ।
ब्राह्मण्यं दुर्लभतरं संवृतं परिपन्थिभिः ॥ १३.५.८ ॥

摩单伽啊,你的婆罗门身份在此显得不相称。婆罗门性极难获得,又被对手所阻隔。

13.5.9

पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् ।
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः ॥ १३.५.९ ॥

尊敬婆罗门的人得到快乐,不尊敬的人得到痛苦。众生的福祉与安稳都安立于婆罗门之中。

13.5.10

ब्राह्मणेभ्योऽनुतृप्यन्ते पितरो देवतास्तथा ।
ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते ॥ १३.५.१० ॥

借由婆罗门,祖先与诸神同样得到满足。摩单伽啊,婆罗门被称为众生中最尊贵者。

13.5.11

ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति ॥ १३.५.११ ॥

婆罗门所做的,正是他如何且所欲之事。

13.5.12

बह्वीस्तु संसरन्योनीर्जायमानः पनुःपुनः ।
पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति ॥ १३.५.१२ ॥

亲爱的,在多次轮回、反复出生之中,人在某一时节于此得到婆罗门身份。

13.5.13

तदुत्सृज्येह दुष्प्रापं ब्राह्मण्यमकृतात्मभिः ।
अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः ॥ १३.५.१३ ॥

因此,放弃这里对未修炼之心者难以获得的婆罗门身份,另选一个恩赐吧;这个恩赐对你来说是难得的。

13.5.14

किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् ।
त्वां तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषसे ॥ १३.५.१४ ॥

你为何折磨我这悲痛之人,又要再杀已死之人?我为你悲伤,你得到了婆罗门身份,却不愿成为婆罗门。

13.5.15

ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्दुरासदम् ।
सुदुर्लभं सदावाप्य नानुतिष्ठन्ति मानवाः ॥ १३.५.१५ ॥

婆罗门身份难以获得,三种种姓也难以接近,且始终极为罕见;然而人们得到它之后,却并不去践行。

13.5.16

ये पापेभ्यः पापतमास्तेषामधम एव सः ।
ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम् ॥ १३.५.१६ ॥

在最有罪的罪人之中,轻视婆罗门身份者最为卑劣,仿佛得到了稀有的财富却轻慢它。

13.5.17

दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् ।
दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः ॥ १३.५.१७ ॥

婆罗门身份实在难以获得;获得之后,又难以守护。虽然是艰难得到的,人们却不去践行。

13.5.18

एकारामो ह्यहं शक्र निर्न्द्वद्वो निष्परिग्रहः ।
अहिंसादममास्थाय कथं नार्हामि विप्रताम् ॥ १३.५.१८ ॥

噢,释迦(因陀罗),我乐于独处,超越对立之双,无所占有。若我依止不害与克己,为何不配得婆罗门之位?

13.5.19

दैवं तु कथमेतद्वै यदहं मातृदोषतः ।
एतामवस्थां सम्प्राप्तो धर्मज्ञः सन्पुरन्दरं ॥ १३.५.१९ ॥

这是什么命运啊!我知法,却因母亲之过落到这般境地,哦补兰陀罗?

13.5.20

नूनं दैवं न शक्यं हि पौरुषेणातिवर्तितुम् ।
यदर्थं यत्नवानेव न लभे विप्रतां विभो ॥ १३.५.२० ॥

诚然,命运不可以人力超越;我虽努力,却不能得到婆罗门身份,哦大能者。

13.5.21

एवंगते तु धर्मज्ञ दातुमर्हसि मे वरम् ।
यदि तेऽहमनुग्राह्यः किचिद्वा सुकृतं मम ॥ १३.५.२१ ॥

既然如此,哦知法者,你应当赐我一个恩典,若我值得你的恩惠,或我略有一点善业。

13.5.22

वृणीष्वेति तदा प्राह ततस्तं बलवृत्रहा ।
चोदितस्तु महेन्द्रेण मतङ्गः प्राब्रवीदिदम् ॥ १३.५.२२ ॥

“请选择一个恩典吧”,他当时这样说;随后杀死弗栗多的因陀罗对他说。受摩亨陀罗催促,摩旦伽说了这些话。

13.5.23

यथा कामविहारी स्यां कामरूपी विहङ्गमः ।
ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम् ॥ १३.५.२३ ॥

愿我成为一只随意飞翔、随意变化形体的鸟,并且在婆罗门与刹帝利之间不生冲突的情况下,也能得到尊敬。

13.5.24

यथा ममाक्षया कीर्तिर्भवेच्चापि पुरन्दर ।
कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये ॥ १३.५.२४ ॥

愿我的名声永不磨灭,哦补兰陀罗,你应当成全;哦神,我低头向你祈求恩惠。

13.5.25

मतङ्ग गम्यतां शीघ्रमेवमेतद्भविष्यति ।
स्त्रियः सर्वास्त्वया लोके यक्ष्यन्ते भूतिकर्मणि ॥ १३.५.२५ ॥

摩多伽啊,快去吧;事情会这样发生。世间所有女子都将在吉祥的仪式中由你受到供奉。

13.5.26

छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि ।
कीर्तिश्च तेऽतुला वत्स त्रिषु लोकेषु यास्यति ॥ १३.५.२६ ॥

你将以“韵提婆”之名著称,成为女子所敬重的对象。亲爱的孩子啊,你无与伦比的名声将传遍三界。

13.5.27

एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत ।
प्राणांस्त्यक्त्वा मतङ्गोपि प्राप तत्स्थानमुत्तमम् ॥ १३.५.२७ ॥

如此赐予他恩惠之后,婆薮消失了。摩多伽也舍弃了生命之气,到达了那最高的境界。

13.5.28

एवमेव परं स्थानं मर्त्यानां भरतर्षभ ।
ब्राह्मण्यं नाम दुष्प्रापमिन्द्रेणोक्तं महात्मना ॥ १३.५.२८ ॥

婆罗多族的雄牛啊,这正是凡人的最高境界。伟大的因陀罗宣告,名为婆罗门性的这一境界难以获得。