摩诃婆罗多 · 章 13.50
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.50.1
यदिदं सहधर्मेति प्रोच्यते भरतर्षभ ।
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ॥ १३.५०.१ ॥
婆罗多族的雄牛啊,在执手之时,这被称为“共同之法”(sahadharma)的,为何被认为适用于女子?
13.50.2
आर्ष एष भवेद्धर्मः प्राजापत्योऽथवाऽसुरः ।
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥ १३.५०.२ ॥
往昔大仙所说的这“共同之法”,或许是仙人之法,或许是生主之法,或许是阿修罗之法。
13.50.3
सन्देहः सुमहानेष विरुद्ध इति मे मतिः ।
इह यः सहधर्मो वै प्रेत्यायं विहितः क्वनु ॥ १३.५०.३ ॥
这是极大的疑惑;在我看来它是相互矛盾的。这里所规定的共同之法,死后又在何处呢?
13.50.4
स्वर्गो मृतानां भवति सहधर्मः पितामह ।
पूर्वमेकस्तु म्रियकस्तिष्ठते वद ॥ १३.५०.४ ॥
祖父啊,共同之法对死者而言是否成为天界?先是一人死去,另一人留存,请告诉我这一点。
13.50.5
नानाधर्मफलोपेता नानाकर्मनिवासिताः ।
नानानिरयनिष्ठान्ता मानुपा बहवो यदा ॥ १३.५०.५ ॥
当众多人,具足种种法之果报,安住于种种业中,又终于种种地狱之时……
13.50.6
अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति ।
यदाऽनृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ॥ १३.५०.६ ॥
经句的作者断定:“女子是虚妄的。”亲爱的,女子既是虚妄的,那么共同之法又是如何被记述的呢?
13.50.7
अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते ।
धर्मो यः पूर्विको दृष्ट उपचारः क्रियाविधिः ॥ १३.५०.७ ॥
吠陀中也这样记载:女人是虚妄的。古来所见的法、习俗与仪轨之规便是如此。
13.50.8
गहरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् ।
निःसन्देहमिदं सर्वं पितामह यथाश्रुतिः ॥ १३.५०.८ ॥
祖父啊,我日夜思索,此事显得极为深奥。依照闻自天启之典,这一切确凿无疑。
13.50.9
यदैतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् ।
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ॥ १३.५०.९ ॥
此事是何等样子,又如何确立?大智者啊,请您将此一一为我完整讲述。
13.50.10
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अष्टावक्रस्य संवादं दिशया सह भारत ॥ १३.५०.१० ॥
这里的人们也讲述这段古老的历史:阿湿陀婆伽与人的对话,婆罗多啊,连同那一方向。
13.50.11
निर्विष्टुकामस्तु पुरा अष्टावक्रो महातपाः ।
ऋषेरथ वदान्यस्य वव्रे कन्यां महात्मनः ॥ १३.५०.११ ॥
往昔,大苦行者阿湿陀婆伽欲求婚配,便选中了慷慨的大德仙人之女。
13.50.12
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि ।
गुणप्रभावशीलेन चारित्रेण च शोभनाम् ॥ १३.५०.१२ ॥
名叫苏普拉跋的少女,在大地上容貌无双,其德行、威仪、品性与操行也极为美好。
13.50.13
सा तस्यर्षेर्मनो दृष्टा जहार शुभलोचना ।
वनराजी यथा चित्रा वसन्ते कुसुमाञचिता ॥ १३.५०.१३ ॥
那位美目女子见到仙人便夺去了他的心,如同春天里开满鲜花、色彩斑斓的林木行列令人心醉。
13.50.14
ऋषिस्तमाह देया मे सुता तुभ्यं हि तच्छृणु ॥ १३.५०.१४ ॥
仙人对他说:“我的女儿可以许配给你,你听着。”
13.50.15
अनन्यस्त्रीजनः प्राज्ञो ह्यप्रवासी प्रियंवदः ।
सुरूपः सम्मतो वीरः शीलवान्भोगभुक्छुचिः ॥ १३.५०.१५ ॥
不沉溺于其他女子、有智慧、不远行、言语温和、相貌英俊、受人尊重、勇敢、品行端正、享受欢乐且清净的人。
13.50.16
दारानुमतयज्ञश्च सुनक्षत्रामथोद्वेहेत् ।
सभृत्यः स्वजनोपेत इह प्रेत्य च मोदते ॥ १३.५०.१६ ॥
征得妻子同意而行祭祀、在吉星之下成婚的人,与仆从和亲人相伴,今生与来世都得欢喜。
13.50.17
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥ १३.५०.१७ ॥
你现在去那个神圣的北方;从那里你将会看到。
13.50.18
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् ।
तथेदानीं मयो कार्यं यथा वक्ष्यति मां भवान् ॥ १३.५०.१८ ॥
我在那里应当看什么?请您告诉我。现在我便当按您的吩咐去做。
13.50.19
धनदं समतिक्रम्य हिमवन्तं च पर्वतम् ।
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ॥ १३.५०.१९ ॥
越过施财之神俱毗罗与喜马拉雅山,看见了由悉陀与遮罗那侍奉的楼陀罗之居所。
13.50.20
संहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः ।
दिव्याङ्गरागैः पैशाचैरन्यैर्नानाविधैः प्रभोः ॥ १३.५०.२० ॥
由主神欢喜的随从侍奉,充满各种面孔的舞者、以神圣身彩装饰的毕舍遮,以及其他种种眷属。
13.50.21
पाणितालसुतालैश्च शम्पातालैः समैस्तथा ।
सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ॥ १३.५०.२१ ॥
在那里,湿婆由欢喜起舞者侍奉,他们以拍掌、良好的节拍、尚巴拍与均匀的节奏相和。
13.50.22
इष्टं किल गिरौ स्थानं तद्दिव्यमिति शुश्रुम ।
नित्यं सन्निहितो देवस्तथा ते पार्षदाः स्मृताः ॥ १३.५०.२२ ॥
我们听说,山上那个地方既受珍爱又神圣。那里神始终在场,他的随从也被人铭记。
13.50.23
तत्र देव्या तपस्तप्तं सङ्करार्थं सुदुश्चरम् ।
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥ १३.५०.२३ ॥
女神在那里为了湿婆而进行了极为艰难的苦行。因此,那地方为神所喜爱,也为乌玛所喜爱,此即圣典所言。
13.50.24
पूर्वे तत्र महापार्श्वे देवस्योत्तरतस्तथा ।
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥ १३.५०.२४ ॥
在那里,神的大侧,东方与北方,有诸季节与迦罗罗怛黎,有天界者,也有人间者。
13.50.25
देवं चोपासते सर्वे रूपिणः किल तत्र ह ।
तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥ १३.५०.२५ ॥
在那里,所有有形之众都崇拜那位神。越过那座居所,你必定要前行。
13.50.26
ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसन्निभम् ।
रमणीयं मनोग्राहि तत्र वै द्रक्ष्यसे स्त्रियम् ॥ १३.५०.२६ ॥
随后你将看到一片如云般深蓝的林地。在那里你必定会见到一位令人心醉的可爱女子。
13.50.27
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् ।
द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः ॥ १३.५०.२७ ॥
在那里你应当见到一位苦修的女子,她极有福德,年迈,正奉行受戒之誓。你应当恭敬地尊敬她。
13.50.28
तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि ।
यद्येष समयः सर्वः साध्यतां तत्र गम्यताम् ॥ १३.५०.२८ ॥
见到她并返回之后,你便会迎娶她。若这就是全部约定,那就去完成吧;前往那里。
13.50.29
तथाऽस्तु साधयिष्यामि तत्र यास्याम्यसंशयम् ।
यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् ॥ १३.५०.२९ ॥
就这样吧;我会去完成它,毫无疑问地前往你所说的地方,善人啊。愿你言语真实。
13.50.30
ततोऽगच्छत्स भगवानुत्तरामुत्तरां दिशम् ।
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥ १३.५०.३० ॥
于是那位尊者一路越往北方而去,前往群山之首的喜马拉雅,那里有悉陀与遮罗那侍奉。
13.50.31
स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् ।
अभ्यगच्छन्नदीं पुण्यां बाहुदां पुण्यदायिनीम् ॥ १३.५०.३१ ॥
这位婆罗门中的猛虎来到大山喜马拉雅,走近了赐予功德的圣河巴呼达。
13.50.32
अशोके विमले तीर्थे स्नात्वा वै तर्प्य देवताः ।
तत्र वासाय शयने कौशे सुखमुवास ह ॥ १३.५०.३२ ॥
他在名为阿输迦的清净圣渡口沐浴,向诸神献上供水,然后在那里以吉祥草为床,安然住下。
13.50.33
ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः ।
स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैवं विधानतः ॥ १३.५०.३३ ॥
夜晚过去,那位再生者黎明时起身,沐浴之后,依照规定点燃圣火并供奉祭品。
13.50.34
रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत् ।
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ॥ १३.५०.३४ ॥
他来到楼陀罗妮之井,在湖边得到慰藉;休息之后起身,向凯拉萨山走去。
13.50.35
सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया ।
मन्दाकिनीं च नलिनीं धनदस्य महात्मनः ॥ १३.५०.३५ ॥
他看见金门,光辉灿烂仿佛自身发光;他还看见了大德财神(俱毗罗)的曼陀吉尼河和莲池。
13.50.36
अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम् ।
प्रत्युत्थिता भगवन्तं माणिभद्रपुरोगमाः ॥ १३.५०.३६ ॥
那时,守护莲池的所有罗刹在摩尼跋陀罗的率领下起身,迎接这位尊者。
13.50.37
स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् ।
निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् ॥ १३.५०.३७ ॥
他回敬那些勇猛可怖的罗刹,说道:"快去通报我,说施财者已经来到。"
13.50.38
ते राक्षसास्तथा राजन्भगवन्तमथाब्रुवन् ।
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ॥ १३.५०.३८ ॥
大王,那些罗刹于是对那位尊者说:"那位毗沙罗婆那王亲自来到您面前了。"
13.50.39
विदितो भगवानस्य कार्यमागमनस्य यत् ।
पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा ॥ १३.५०.३९ ॥
尊者,他前来的目的您已知晓。请看这位大福之人,他光辉耀眼,如同燃烧一般。
13.50.40
ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् ।
विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥ १३.५०.४० ॥
随后毗沙罗婆那走近,依礼问候无过的八曲仙人的安康,然后对那位梵仙说道。
13.50.41
सुखं प्राप्तो भवान्कच्चित्किंवा मत्तश्चिकीर्षति ।
ब्रूहि सर्वं करिष्यामि यन्मां वक्ष्यसि वै द्विज ॥ १३.५०.४१ ॥
"再生者啊,您平安到达了吗?还是想让我为您做些什么?您说的,我都会照办。"
13.50.42
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम ।
सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः ॥ १३.५०.४२ ॥
再生者中最优秀的人啊,请随意进入我的府邸。您受到尊敬,任务完成后,将毫无阻碍地离去。
13.50.43
प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् ।
आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च ॥ १३.५०.४३ ॥
他带着那位最优秀的再生者进入自己的家中,把自己的座位让给他,同样也奉上洗足水与敬礼之水。
13.50.44
अथोपविष्टयोस्तत्र माणिभद्रपुरोगमाः ।
निषेदुस्तत्र कौबेरा यक्षगन्धर्वकिन्नराः ॥ १३.५०.४४ ॥
当二人坐定之后,以摩尼跋陀罗为首的俱毗罗随从——夜叉、乾闼婆和紧那罗——也在那里就座。
13.50.45
ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् ।
भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ॥ १३.५०.४५ ॥
于是财神(俱毗罗)对就座的人说:“知道了你们的心愿,让阿普萨拉斯的众女歌舞吧。”
13.50.46
आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा ।
संवर्ततामित्युवाच मुनिर्मधुरया गिरा ॥ १३.५०.४६ ॥
“要行最上等的款待,对你们的侍奉也应如此。”那位仙人以甜美的声音说。
13.50.47
यथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा ।
अलम्बुसा घृताची च चित्रा चित्राङ्गदारुचिः ॥ १३.५०.४७ ॥
如乌尔瓦拉、弥什罗羯希、蓝跋、乌尔瓦希,以及阿兰布莎、弗里塔奇、芝特拉和芝唐伽达如吉。
13.50.48
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा ।
विद्युता प्रशमी दान्ता विद्योता रतिरेव च ॥ १३.५०.४८ ॥
摩诺诃罗、苏凯希、苏穆基、哈希妮、波罗婆、毗丘多、普罗舍弥、檀多、毗约多,以及罗蒂。
13.50.49
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः ।
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च ॥ १३.५०.४९ ॥
她们以及其他许多美丽的阿普萨拉斯跳起舞来,乾闼婆们演奏着各种乐器。
13.50.50
अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपाविशत् ।
दिव्यं संवत्सरं तत्रारमतैष महातपाः ॥ १३.५०.५० ॥
当神圣的乾闼婆表演开始时,这位大苦行者坐了下来,在那里欢愉了一个天神之年。
13.50.51
ततो वैश्रवणो राजा भगवन्तमुवाच ह ।
साग्रः संवत्सरो यातो विप्रेह तव पश्यतः ॥ १३.५०.५१ ॥
于是毗沙门王对尊者说:“婆罗门啊,在您观看之间,这里已经过去了整整一年。”
13.50.52
हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः ।
छन्दतो वर्ततां विप्र यथा वदति वा भवान् ॥ १३.५०.५२ ॥
婆罗门啊,这片令人愉悦的领域名为乾闼婆。婆罗门啊,就如您所说,任您意愿让它延续吧。
13.50.53
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् ।
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ॥ १३.५०.५३ ॥
您是值得尊敬的客人,这座宫殿也是您的。请迅速吩咐一切;我们都听从您的安排。
13.50.54
अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत ।
अर्चितोस्मि यथान्यायं गमिष्यामि धनेश्वर ॥ १३.५०.५४ ॥
于是这位喜悦的尊者回答毗沙门说:“你依礼款待了我;财神啊,我现在要离去了。”
13.50.55
प्रीतोस्मि सदृशं चैव तव सर्वं धनाधिप ।
तव प्रसादाद्भगवन्महर्षेश्च महात्मनः।
नियोगादद्य यास्यामि वृद्दिमानृद्धिमान्भव ॥ १३.५०.५५ ॥
我很欢喜,这一切对你都很相称,财富之主。凭借尊贵的大仙、大德者的恩典,今天我将奉其命离去。愿你昌盛富足。
13.50.56
अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः ।
कैलासे सङ्करावासमभिवीक्ष्य प्रणम्य च ॥ १३.५०.५६ ॥
于是这位尊者走出,面向北方而去,望见凯拉萨山上湿婆的居所,并行礼致敬。
13.50.57
गौरीशं शङ्करं दान्तं शरणागतवत्सलम् ।
गङ्गाधरं गोपतिनं गणावृतमकल्पषम् ॥ १३.५०.५७ ॥
高利之主湿婆,克己自制,慈爱皈依者,承载恒河,牧群之主,被众伽那环绕,纯洁无垢。
13.50.58
कैलासं मन्दरं हैमं सर्वाननुचचार ह ।
तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् ॥ १३.५०.५८ ॥
他绕行了凯拉萨、曼达拉和金山,这些山全都绕过;越过那些大山,他到达了吉罗多人的殊胜之地。
13.50.59
प्रदक्षिणं तथा चक्रे प्रयतः शिरसा नतः ।
धरणीमवतीर्याथ पूतात्माऽसौ तदाऽभकवत् ॥ १३.५०.५९ ॥
他同样行绕行之礼,克制自身,低头致敬;随后下降到大地上,那位心灵纯净者此时如同孩童一般。
13.50.60
स तं प्रदक्षिणं कृत्वा निर्यातश्चोत्तरामुखः ।
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ॥ १३.५०.६० ॥
完成绕行之后,他面向北方出发,沿着平坦的地面而行,喜悦走在他的前面。
13.50.61
ततोऽपरं वनोद्देशं रमणीयमपश्यत ।
सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितैः।
रमणीयैर्वनोद्देशैस्तत्रतत्र विभूषितम् ॥ १३.५०.६१ ॥
随后,他看见另一处令人愉悦的林地,四季的根茎果实与鸟类俱全,处处点缀着可爱的林间胜境。
13.50.62
तत्राश्रमपदं दिव्यं ददर्श भगवानथ ॥ १३.५०.६२ ॥
在那里,世尊看见了一处神圣的修行林舍。
13.50.63
शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् ।
मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च ॥ १३.५०.६३ ॥
他看见形状各异、金光灿灿且饰以宝石的群山,以及坐落在宝石地面上的莲花池。
13.50.64
अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ ।
भृशं तस्य मनो रमे महर्षेर्भावितात्मनः ॥ १३.५०.६४ ॥
随后他又看见许多其他极为美妙的景物,那位心性纯净的大仙之心十分欢喜。
13.50.65
स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् ।
ददर्शाद्भुतसङ्काशं धनदस्य गृहाद्वरम् ॥ १३.५०.६५ ॥
在那里,他看见一座金色的神圣宫殿,全由宝石构成,宛如奇迹,甚至胜过财神(俱毗罗)的宫殿。
13.50.66
महान्तो यत्र विविधा मणिकाञ्चनपर्वताः ।
विमानानि च रम्याणि रत्नानि विविधानि च ॥ १३.५०.६६ ॥
那里有巨大而多样的宝石与黄金之山,美妙的天界宫殿,以及种种宝物。
13.50.67
मन्दारपुष्पैः सङ्कीर्णां तथा मन्दाकिनीं नदीम् ।
स्वयम्प्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता ॥ १३.५०.६७ ॥
曼陀罗花遍布的曼陀吉尼河,自发光芒的宝珠,以及以金刚石装饰的大地。
13.50.68
नानाविधैश्च भवनैर्विचित्रमणितोरणैः ।
मुक्ताजालविनिक्षिप्तैर्मणिरत्नविभूषितैः ॥ १३.५०.६८ ॥
有各种各样的宫殿,装饰着各色宝珠的门楣,悬挂着珍珠网,并以宝石与珍宝装饰。
13.50.69
मनोद्दष्टिहरै रम्यैः सर्वतः संवृतं शुभैः ।
ऋषिभिश्चावृतं तत्र आश्रमं तं मनोहरम् ॥ १३.५०.६९ ॥
那座令心与目愉悦的迷人净修林,四面环绕着美好吉祥之物,并有众仙人环绕其中。
13.50.70
ततस्तस्याभवच्चिन्ता कुत्र वासो भवेदिति ।
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् ॥ १३.५०.७० ॥
于是他心中生出忧虑:“我该住在哪里呢?”随后他走到门前站定,便开口说道。
13.50.71
अतिथिं समनुप्राप्तमभिजानन्तु येऽत्र वै ॥ १३.५०.७१ ॥
凡在此处者,都应识得这位到来的客人。
13.50.72
अथ कन्याः परिवृता गृहात्तस्माद्विनिर्गताः ।
नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः ॥ १३.५०.७२ ॥
随后,从那房舍中走出被众人环绕的少女:七位形貌各异的少女,啊,伟大者,个个都令人心醉。
13.50.73
यांयामपश्यत्कन्यां वै सासा तस्य मनोऽहरत् ।
न च शक्तो वारयितुं मनोऽस्याथावसीदति।
ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः ॥ १३.५०.७३ ॥
他所看见的每一位少女,都会夺走他的心。他无法克制自己的心,心便沉沦。此时,这位聪明的婆罗门心中生起了定力。
13.50.74
अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति ।
स च तासां सुरुपेण तस्यैव भवनस्य च।
कौतूहलं समाविष्टः प्रविवेश गृहं द्विजः ॥ १३.५०.७४ ॥
于是那些女子对他说:“尊者,请进来吧。”这位再生者因对她们的美貌和那座房屋充满好奇,便走进了屋中。
13.50.75
तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् ।
वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् ॥ १३.५०.७५ ॥
他在那里看见一位年老的妇人,被衰老所困,身着无尘的衣裳,坐在卧榻上,身上佩戴着各种饰物。
13.50.76
स्वस्तीति तेन चैवोक्ता सा स्त्री प्रत्यवदत्तदा ।
प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह ॥ १३.५०.७६ ॥
他以“吉祥”向她致意,那女子便答话。她起身对那婆罗门说:“请坐。”
13.50.77
सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु ।
प्रज्ञाता या प्रशान्ता या शेषा गच्छन्तु च्छन्दतः ॥ १३.५०.७७ ॥
“你们都回各自的住处去吧;只留一人侍奉我。那位有智慧且宁静的留下;其余的人,随意离去。”
13.50.78
ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा ।
निश्चक्रमुर्गृहात्तस्मात्सा वृद्धाऽथ व्यतिष्ठतः।
तया सम्पूजितस्तत्र शयने चापि निर्मले ॥ १३.५०.७८ ॥
于是众少女绕行这位仙人,当时便离开了那所房子,只有那老妇留了下来。仙人在那里受到她的礼敬,便躺在洁净的床上。
13.50.79
अथ तां संविशन्प्राह शयने भास्वरे तदा ।
त्वयाऽपि सुप्यतां भद्रे रजनी ह्यतिवर्तते ॥ १३.५०.७९ ॥
当她躺在那张光亮的床上时,仙人说道:"善良的女子,你也睡吧;夜已过去了。"
13.50.80
संलापात्तेन विप्रेण तथा सा तत्र भाषिता ।
द्वितीये शयने दिव्ये संविवेश महाप्रभे ॥ १३.५०.८० ॥
由于与那位婆罗门的这番交谈,她在那里被如此称呼;她躺在第二张神圣、极其光亮的床上。
13.50.81
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा ।
व्यपदिश्य महर्षेर्वै शयनं व्यवरोहत ॥ १३.५०.८१ ॥
于是她浑身颤抖,借口是寒冷所致,便爬上了大仙人的床。
13.50.82
स्वागतेनागतां तां तु भगवानभ्यभाषत ।
सा जुगूह भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ ॥ १३.५०.८२ ॥
她以欢迎之礼前来,世尊便对她说话;她便以深情用双臂拥抱了仙人,人中雄牛啊。
13.50.83
निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा ।
दुखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह ॥ १३.५०.८३ ॥
她看见仙人无动于衷,如同木墙,便忧伤地与仙人交谈起来。
13.50.84
ब्रह्मन्नकामकरोस्ति स्त्रीणां पुरुषतो धृतिः ।
कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् ॥ १३.५०.८४ ॥
婆罗门啊,女子在男子面前并无定力。我为欲望所迷,前来求您,请接纳我吧。
13.50.85
प्रहृष्टो भव विप्रर्षे समागच्छ मया सह ।
उपगूह च भां विप्र कामार्ताऽहं भृशं त्वयि ॥ १३.५०.८५ ॥
婆罗门中的贤者啊,请欢喜,与我相合。婆罗门啊,请拥抱我;我为欲望所苦,极度地渴望着你。
13.50.86
एतद्वि तव धर्मात्मंस्तपसः पूज्यते फलम् ।
प्रार्थितं दर्शनादेव भजमानां भजस्व माम् ॥ १३.५०.८६ ॥
正直的人啊,这正被尊为您苦修的果报;一见到我便被渴求。请接纳我这个前来侍奉您的人。
13.50.87
सद्म चेदं धनं सर्वं यच्चान्यदपि पश्यसि ।
प्रभुस्त्वं भव सर्वत्र मयि चैव न संशयः ॥ १३.५०.८७ ॥
这房舍、这全部财富,以及您所见的其他一切,都属于您。请您在一切之处做主,也对我做主,此话毫无疑问。
13.50.88
सर्वान्कामान्विधास्यामि रमस्व सहितो मया ।
रमणीये वने विप्र सर्वकामफलप्रदे ॥ १३.५०.८८ ॥
我将为您提供一切欢乐。婆罗门啊,请与我一同在这座赐予一切愿望之果的美丽森林中尽情欢娱。
13.50.89
त्वद्वशाऽहं भविष्यामि रंस्यसे च मया सह ।
सर्वान्कामानुपाश्नीमो ये दिव्या ये च मानुषाः ॥ १३.५०.८९ ॥
我将听从您的支配,您将与我欢娱。让我们享受一切快乐,无论是天上的还是人间的。
13.50.90
नातः परं हि नारीणां विद्यते च कदाचन ।
यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ॥ १३.५०.९० ॥
对女子而言,没有比与男子结合更高的东西;这便是我们的最高果报。
13.50.91
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ।
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥ १३.५०.९१ ॥
受爱神驱使的女子随自己心意行事;即便走过滚烫的尘土,她们也不会被烧伤。
13.50.92
परदारानहं भद्रे न गच्छेयं कथञ्चन ।
दूषितं धर्मशास्त्रज्ञैः परदाराभिमर्शनम् ॥ १३.५०.९२ ॥
善良的女子啊,我绝不会以任何方式接近他人的妻子;精通法典者已斥责触碰他人之妻。
13.50.93
शुद्धक्षेत्रे ब्रह्महत्याप्रायश्चित्तमथोच्यते ।
पुनश्च पातकं दृष्टं विप्रक्षेत्रे विशेषतः ॥ १३.५०.९३ ॥
杀害婆罗门的赎罪,在清净之地宣说;然而罪过在婆罗门之地尤为显著。
13.50.94
भद्रे निर्वेष्टुकामोऽहं तत्रावकिरणं मम ।
प्रायश्चित्तं महदतो दारग्रहणपूर्वकम् ॥ १३.५०.९४ ॥
善良的女子啊,我想从那罪过中解脱,便在那里散布我的精液;因此,这一重大的赎罪以娶妻为先。
13.50.95
बीजं न शुद्ध्यते वोढुरन्यथा कृतनिष्कृतेः ।
मातृतः पितृतः शुद्धो ज्ञेयः पुत्रो यथार्थतः ॥ १३.५०.९५ ॥
否则,行赎罪的新郎之精液便不得清净;母系与父系皆清净的儿子,才应真正被认作清净。
13.50.96
विषयेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः ।
एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः ॥ १३.५०.९६ ॥
我不熟悉世间的欲乐;实则子嗣是为了法。如此,我将借由诸子抵达诸界,此中无疑。
13.50.97
भद्रे धर्मं विजानीहि ज्ञात्वा चोपरमस्व ह ॥ १३.५०.९७ ॥
善女子啊,应知法;既已知之,便当止息。
13.50.98
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज ।
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ॥ १३.५०.९८ ॥
婆罗门啊,风、火、伐楼那及其他诸神,都不如欲望那样为女子所爱;因为女子天性喜好欢爱。
13.50.99
सहस्रे किल नारीणां प्राप्येतैका कदाचन ।
तथा शतसहस्रेषु यदि काचित्पतिव्रता ॥ १३.५०.९९ ॥
千名女子中,或许才能遇见一位;同样,在十万之中,若有一位能守持贞节于丈夫。
13.50.100
नैता जानन्ति पितरं न कुलं न च मातरम् ।
न भ्रातॄन्न च भर्तारं न च पुत्रान्न देवरान् ॥ १३.५०.१०० ॥
她们既不识父亲,也不识家族,也不识母亲;不识兄弟,不识丈夫,不识儿子,也不识小叔。
13.50.101
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः ।
दोषान्सर्वाश्च मत्वाऽऽशु प्रजापतिरभाषत ॥ १३.५०.१०१ ॥
如同河流之最冲毁堤岸,她们嬉戏之间毁灭家族;Prajāpati 思量了所有这些过失,随即如此说道。
13.50.102
ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत ।
आस्यतांरुचितश्छन्दः किञ्च कार्यं ब्रवीहि मे ॥ १३.५०.१०२ ॥
于是那位仙人专心地对那位女子说:"请坐,随你的心意。你有什么事需要我做,请说吧。"
13.50.103
सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः ।
वस तावन्महाभाग कृतकृत्यो भविष्यसि ॥ १३.५०.१०३ ॥
那女子说:"尊者,您将依照处所与时间而见。大福之人啊,请暂且住在这里,您将圆满完成心愿。"
13.50.104
ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर ।
वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ॥ १३.५०.१०४ ॥
于是那位梵仙对她说:"就这样吧。般度之子啊,只要你的热忱还在,我就会留下,这一点毫无疑问。"
13.50.105
अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयाऽर्दिताम् ।
चिन्तां परमिकां भेजे सन्तप्त इव चाभवत् ॥ १३.५०.१०५ ॥
于是仙人仔细端详那位被衰老折磨的女子,陷入了极大的忧虑,仿佛痛苦万分。
13.50.106
यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा ।
नारमत्तत्रतत्रास्य दृष्टी रूपविरागिता ॥ १३.५०.१०६ ॥
这位婆罗门中的俊杰所看到的她身上的每一处,他的目光都毫无喜悦;他对她的容貌感到厌倦。
13.50.107
देवतेयं गृहस्यास्य शापात्किंनु विरूपिता ।
अस्याश्च कारणं वेत्तुं न युक्तं सहसा भया ॥ १३.५०.१०७ ॥
"她是这座家的女神;她因何种诅咒而变得丑陋?仓促地、因恐惧而去探究其原因,是不恰当的。"
13.50.108
इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः ।
व्यगमद्रात्रिशेषः स मनसा व्याकुलेन तु ॥ १३.५०.१०८ ॥
如此,他沉浸于思虑,想要弄清此事,夜的剩余时间便在他那忧乱的心中过去了。
13.50.109
अथ सा स्त्री तथोवाच भगवन्पश्य वै रवेः ।
रूपं सन्ध्याभ्रसंरक्तं किमुपस्थाप्यतां तव ॥ १३.५०.१०९ ॥
于是那女子说道:“尊者,请看,太阳之形被暮云染红了;为您准备什么好呢?”
13.50.110
स उवाच ततस्तां स्त्रीं स्नानोदकमिहानय ।
उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रियः ॥ १३.५०.११० ॥
于是他对那女子说:“把沐浴的水拿来这里;然后,我将约束言语、控制诸根,行黄昏之礼。”